महाभारतम्-12-शांतिपर्व-295
← शांतिपर्व-294 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-295 अज्ञातलेखकः |
शांतिपर्व-296 → |
भीष्मेण युधिष्ठिरंप्रति भार्गवचरित्रकथनम्।।
युधिष्ठिर उवाच।
तिष्ठते मे सदा तात कौतूहलमिदं हृदि।
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह।।1
कथं देवर्षिरुशना सदा काव्यो महामतिः।
असुराणां प्रियकारः सुराणामप्रिये रतः।। 2
वर्धयामास तेजश्च किमर्थममितौजसाम्।
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः।। 3
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः।
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे।। 4
न याति च स तेजस्वी मध्येन नभसः कथम्।
एतदिच्छामि विज्ञातुं निखिलेन पितामह।। 5
भीष्म उवाच।
शृणु राजन्नवहितः सर्वमेतद्यथातथम्।
यथामति यथा चैतच्छ्रुतपूर्वं मयाऽनघ।। 6
एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः।
सुराणां विप्रियकरो निमित्ते कारणात्मके।। 7
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः सदा।
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः।। 8
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः।
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु।। 9
हृते धने ततः शर्म न लेभे धनदस्तथा।
आपन्नमन्युः संविग्नः सोभ्यगात्सुरसत्तमम्।। 10
निवेदयामास तदा शिवायामिततेजसे।
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे।। 11
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु।
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः।। 12
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः।
संरक्तनयनो राजञ्शूलमादाय तस्थिवान्।। 13
क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम्।
उशना दूरतस्तस्य ह्यभूज्ज्ञात्वा चिकीर्षितम्।। 14
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः।
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः।। 15
संचिन्त्येग्रेण तपसा महात्मानं महेश्वरम्।
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत।। 16
विज्ञातरूपः स तदा तपः सिद्धोऽथ धन्विना।
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्।। 17
आनतेनाथ शूलेन पाणिनामिततेजसा।
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः।। 18
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः।
आस्यं विवृत्य भ्रकुटिं पाणिं संप्राक्षिपच्छनैः।। 19
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः।
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः।। 20
युधिष्ठिर उवाच।
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः।
जठरे देवदेवस्य किंचाकार्षीन्महाद्युतिः।। 21
भीष्म उवाच।
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः।
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च।। 22
उदतिष्ठत्तपस्तप्त्वा दुश्चरं च महाह्रदात्।
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत।। 23
तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः।
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः।। 24
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः।
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा।। 25
स तेनाढ्यो महायोगी तपसा च धनेन च।
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्।। 26
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्।
उशना तु समुद्विग्नो निलिल्ये जठरे ततः।। 27
तुष्टाव च महायोगी देवं तत्रस्थ एव च।
निःसारं काङ्क्षमाणः स तेन स्म प्रतिहन्यते।। 28
उशना तु तथोवाच जठरस्थो महामुनिः।
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम्।। 29
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्।
इति सर्वाणि स्रोतांसि रुद्ध्वा त्रिदशपुङ्गवः।। 30
अपश्यमानस्तद्द्वारं सर्वतः पिहितो मुनिः।
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा।। 31
स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्।
कार्येण तेन नभसो नाध्यगच्छत मध्यतः।। 32
`तत एव च देवेषु अप्रविष्टो महामुनिः।
पौरोहित्यं च दैत्यानां शक्रतेजोविवृद्धये।।' 33
विनिष्क्रान्तं तु तं दृष्ट्वा ज्वलन्तमिव तेजसा।
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः।। 34
अवारयत तं देवी क्रुद्धं पशुपतिं पतिम्।
पुत्रत्वमगमद्देव्या वारिते शंकरे च सः।। 35
देव्युवाच।
हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः।
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्हति।। 36
ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत्।
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः।। 37
ततः प्रणम्य वरदं देवं देवीमुमां तथा।
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः।। 38
एतत्ते कथितं तात भार्गवस्य महात्मनः।
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि।। 39
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चनवत्यधिकद्विशततमोऽध्यायः।। 295।।
3 वर्धयामास चिच्छेद। अमितौजसां देवानाम्।।
4 शुक्रत्वं शुक्रोत्पन्नत्वम्।।
5 तस्याकाशगतिः कुतः कुण्ठितेत्यर्थः।।
7 कारणा क्रिया तदात्मके निमित्ते सति।।
8 इन्द्रो जगतः।।
9 तस्य धनदस्य। आत्मानं शरीरम्।।
10 आपन्नमन्युः प्राप्तदैन्यः।।
17 सः शुक्र। धन्विना रुद्रेण। शूलं शुक्रयुतम्। तपस्सिद्धेन चक्षुषेति थ. पाठः। तपस्सिद्धेन चेतसेति ध. पाठः।।
20 कोष्ठमुदरम्।।
21 व्यचरदेव नत्वन्नवनीर्णतां गतः। किंच तादृशमकार्षीत्तप इति शेषः।।
26 स शुक्रः।।
27 निलिल्ये नितरां गतिं जगाम बभ्रामेत्यर्थः।।
28 निःसारं निर्गमम्। तेन रुद्रेण।।
32 तेन शिश्रान्निर्गमनेन कार्येण निमित्तेन।।
शांतिपर्व-294 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-296 |