महाभारतम्-12-शांतिपर्व-182
← शांतिपर्व-181 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-182 वेदव्यासः |
शांतिपर्व-183 → |
भरद्वाजंप्रति भृगुणा वृक्षादीनामपि भौतिकत्वचैतन्यादिसमर्थनम्।। 1।।
भरद्वाज उवाच।
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा।
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः।। 12-182-1a
यदाऽसृजत्सहस्राणि भूतानां स महामतिः।
पञ्चानामेव भूतत्वं कथं समुपपद्यते।। 12-182-2a
भृगुरुवाच।
अमितानां महाशब्दो भूतानां याति संभवम्।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते।। 12-182-3a
चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्।। 12-182-4a
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्।
श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः।। 12-182-5a
भरद्वाज उवाच।
पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः।। 12-182-6a
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः।
वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः।। 12-182-7a
न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः।
न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः।। 12-182-8a
अद्रवत्वादनग्नित्वादभूतित्वादवायुतः।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्।। 12-182-9a
भृगुरुवाच।
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते।। 12-182-10a
ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते।। 12-182-11a
वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः।। 12-182-12a
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः।। 12-182-13a
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः।। 12-182-14a
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे।। 12-182-15a
वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्।
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते।। 12-182-17a
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते।। 12-182-18a
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते।। 12-182-19a
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम्।
इत्येतदिह संघातं शरीरे पृथिवीमयम्।। 12-182-20a
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः।। 12-182-21a
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः।। 12-182-22a
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा।। 12-182-23a
प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा।
गच्छत्यपाने वाक्चैव समानने समः स्थितः।। 12-182-24a
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्।। 12-182-25a
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्।
ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः।
`शब्दं शृणोति च तदैवाकाशात्तु शरीरवान्।। 12-182-26a
गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्।। 12-182-27a
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः।। 12-182-28a
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना।
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः।। 12-182-29a
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु।
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः।। 12-182-30a
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा।
एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः।। 12-182-31a
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते।
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान्।। 12-182-32a
शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा।
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः।
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः।। 12-182-33a
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः।। 12-182-34a
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च।
तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च।
एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते।। 12-182-35a
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्।। 12-182-36a
षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्।। 12-182-37a
एष सप्तविधः प्रोक्तः शब्द आकाशसंभवः।
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु।। 12-182-38a
[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च।
यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा।
एतेषामेव सर्वेषां विषये संप्रकीर्तितः।। 12-182-39a
एवं बहुविधाकारः शब्द आकाशसंभवः।
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह।।] 12-182-40a
अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः।। 12-182-41a
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता।। 12-182-42a
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः।। 182।।
भरद्वाज उवाच। | 12-182-1x |
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा। आवृता यैरिमे लोका महाभूताभिसंज्ञिताः।। | 12-182-1a 12-182-1b |
यदाऽसृजत्सहस्राणि भूतानां स महामतिः। पञ्चानामेव भूतत्वं कथं समुपपद्यते।। | 12-182-2a 12-182-2b |
भृगुरुवाच। | 12-182-3x |
अमितानां महाशब्दो भूतानां याति संभवम्। ततस्तेषां महाभूतशब्दोऽयमुपपद्यते।। | 12-182-3a 12-182-3b |
चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः। पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्।। | 12-182-4a 12-182-4b |
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्। श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः।। | 12-182-5a 12-182-5b |
भरद्वाज उवाच। | 12-182-6x |
पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः। स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः।। | 12-182-6a 12-182-6b |
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः। वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः।। | 12-182-7a 12-182-7b |
न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः। न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः।। | 12-182-8a 12-182-8b |
अद्रवत्वादनग्नित्वादभूतित्वादवायुतः। आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्।। | 12-182-9a 12-182-9b |
भृगुरुवाच। | 12-182-10x |
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः। तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते।। | 12-182-10a 12-182-10b |
ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च। म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते।। | 12-182-11a 12-182-11b |
वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते। श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः।। | 12-182-12a 12-182-12b |
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति। न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः।। | 12-182-13a 12-182-13b |
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि। अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः।। | 12-182-14a 12-182-14b |
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्। व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे।। | 12-182-15a 12-182-15b |
वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्। तथा पवनसंयुक्तः पादैः पिबति पादपः।। | 12-182-16a 12-182-16b |
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्। जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते।। | 12-182-17a 12-182-17b |
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ। आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते।। | 12-182-18a 12-182-18b |
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः। प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते।। | 12-182-19a 12-182-19b |
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम्। इत्येतदिह संघातं शरीरे पृथिवीमयम्।। | 12-182-20a 12-182-20b |
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च। अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः।। | 12-182-21a 12-182-21b |
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च। आकाशात्प्राणिनामेते शरीरे पञ्च धातवः।। | 12-182-22a 12-182-22b |
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च। इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा।। | 12-182-23a 12-182-23b |
प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा। गच्छत्यपाने वाक्चैव समानने समः स्थितः।। | 12-182-24a 12-182-24b |
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते। इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्।। | 12-182-25a 12-182-25b |
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्। ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः। `शब्दं शृणोति च तदैवाकाशात्तु शरीरवान्।। | 12-182-26a 12-182-26b 12-182-26c |
गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः। तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्।। | 12-182-27a 12-182-27b |
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च। निर्हारी संहतः स्निग्धो रूक्षो विशद एव च। एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः।। | 12-182-28a 12-182-28b 12-182-28c |
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना। शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः।। | 12-182-29a 12-182-29b |
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु। रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः।। | 12-182-30a 12-182-30b |
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा। एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः।। | 12-182-31a 12-182-31b |
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते। ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्। ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान्।। | 12-182-32a 12-182-32b 12-182-32c |
शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा। कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः। एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः।। | 12-182-33a 12-182-33b 12-182-33c |
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत। वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः।। | 12-182-34a 12-182-34b |
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च। तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च। एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते।। | 12-182-35a 12-182-35b 12-182-35c |
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्। तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्।। | 12-182-36a 12-182-36b |
षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा। पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्।। | 12-182-37a 12-182-37b |
एष सप्तविधः प्रोक्तः शब्द आकाशसंभवः। त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु।। | 12-182-38a 12-182-38b |
[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च। यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा। एतेषामेव सर्वेषां विषये संप्रकीर्तितः।। | 12-182-39a 12-182-39b 12-182-39c |
एवं बहुविधाकारः शब्द आकाशसंभवः। आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह।।] | 12-182-40a 12-182-40b |
अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः। आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः।। | 12-182-41a 12-182-41b |
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु। मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता।। | 12-182-42a 12-182-42b |
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः।। 182।। |
12-182-1 पञ्चधातव आकाशादयः ये महाभूतसंज्ञाः यैश्च लोका आवृता इति योजना।। 12-182-2 भूतानां प्राणिनाम्।। 12-182-4 खंसुषिरम्। अत्र शरीरे द्रवो लोहितादिसंघातः। कठिनं मांसास्थ्यादि।। 12-182-5 श्रोत्रं खं घ्राणं पृथिवी रसो रसनेन्द्रियं जलं स्पर्शः स्पर्शनेन्द्रियं त्वग्वायुः दृष्टिश्चक्षुरिन्द्रियं तेजः।। 12-182-9 अप्रमेयत्वादप्रतीयमानत्वात्। 12-182-16 नालेन नलिकया।। 12-182-18 तेन वृक्षेण। जरयति जरयतः।। 12-182-21 शरीरिणोऽन्तर्गतोऽग्निस्तेजः क्रोधचक्षुरूष्मजाठररूप इति पञ्चाग्नेयाः।। 12-182-22 श्रोत्रमिन्द्रियम्। घ्राणं नासान्ध्रे। कोष्ठमन्नादिस्थानम्।। 12-182-24 व्यायच्छते बलसाध्यमुद्यमं करोति।। 12-182-25 प्रतिभेदादुरःकण्ठशिरः स्थानभेदात्।। 12-182-26 भूमेर्भूम्या घ्राणरूपया। अद्भ्य इति रसनेन।। 12-182-28 पार्थिवः पृथिव्याश्रितो मुख्यो गुणः।। 12-182-29 ज्योतिः पृथिव्यादिरूपम्। वायुना त्वगिन्द्रियेण। गुणा अप्रधानभूताः एवं जलादावप्येकैको मुख्य इतरेऽप्रधाना इति द्रष्टव्यम्।।
शांतिपर्व-181 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-183 |