महाभारतम्-12-शांतिपर्व-352
← शांतिपर्व-351 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-352 वेदव्यासः |
शांतिपर्व-353 → |
श्रीकृष्णेनार्जुनंप्रति हृषीकेशादिस्वनामनिर्वचनम्।। 1।।
तथा रुद्गनारायणयुद्धवर्णनम्।। 2।।
श्रीभगवानुवाच॥
सूर्याचन्द्रमसौ शश्वत्केशैर्मे अंशुसञ्ज्ञितैः ।
बोधयंस्तापयंश्चैव जगदुत्तिष्ठतः पृथक् ॥१॥(३४२.६६)
बोधनात्तापनाच्चैव जगतो हर्षणं भवेत् ।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ॥२॥
हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥२॥
इडोपहूतयोगेन हरे भागं क्रतुष्वहम् ।
वर्णश्च मे हरिश्रेष्ठस्तस्माद्धरिरहं स्मृतः ॥३॥
धाम सारो हि लोकानामृतं चैव विचारितम् ।
ऋतधामा ततो विप्रैः सत्यश्चाहं प्रकीर्तितः ॥४॥
नष्टां च धरणीं पूर्वमविन्दं वै गुहागताम् ।
गोविन्द इति मां देवा वाग्भिः समभितुष्टुवुः ॥५॥
शिपिविष्टेति चाख्यायां हीनरोमा च यो भवेत् ।
तेनाविष्टं हि यत्किञ्चिच्छिपिविष्टं हि तत्स्मृतम् ॥६॥
यास्को मामृषिरव्यग्रो नैकयज्ञेषु गीतवान् ।
शिपिविष्ट इति ह्यस्माद्गुह्यनामधरो ह्यहम् ॥७॥
स्तुत्वा मां शिपिविष्टेति यास्को ऋषिरुदारधीः ।
मत्प्रसादादधो नष्टं निरुक्तमभिजग्मिवान् ॥८॥
न हि जातो न जायेऽहं न जनिष्ये कदाचन ।
क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः ॥९॥
नोक्तपूर्वं मया क्षुद्रमश्लीलं वा कदाचन ।
ऋता ब्रह्मसुता सा मे सत्या देवी सरस्वती ॥१०॥
सच्चासच्चैव कौन्तेय मयावेशितमात्मनि ।
पौष्करे ब्रह्मसदने सत्यं मामृषयो विदुः ॥११॥
सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम् ।
जन्मनीहाभवत्सत्त्वं पौर्विकं मे धनञ्जय ॥१२॥
निराशीःकर्मसंयुक्तं सात्वतं मां प्रकल्पय ।
सात्वतज्ञानदृष्टोऽहं सात्वतः सात्वतां पतिः ॥१३॥
कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसो महान् ।
कृष्णो वर्णश्च मे यस्मात्तस्मात्कृष्णोऽहमर्जुन ॥१४॥
मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।
वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥१५॥
निर्वाणं परमं सौख्यं धर्मोऽसौ पर उच्यते ।
तस्मान्न च्युतपूर्वोऽहमच्युतस्तेन कर्मणा ॥१६॥
पृथिवीनभसी चोभे विश्रुते विश्वलौकिके ।
तयोः सन्धारणार्थं हि मामधोक्षजमञ्जसा ॥१७॥
निरुक्तं वेदविदुषो ये च शब्दार्थचिन्तकाः ।
ते मां गायन्ति प्राग्वंशे अधोक्षज इति स्थितिः ॥१८॥
शब्द एकमतैरेष व्याहृतः परमर्षिभिः ।
नान्यो ह्यधोक्षजो लोके ऋते नारायणं प्रभुम् ॥१९॥
घृतं ममार्चिषो लोके जन्तूनां प्राणधारणम् ।
घृतार्चिरहमव्यग्रैर्वेदज्ञैः परिकीर्तितः ॥२०॥
त्रयो हि धातवः ख्याताः कर्मजा इति च स्मृताः ।
पित्तं श्लेष्मा च वायुश्च एष सङ्घात उच्यते ॥२१॥
एतैश्च धार्यते जन्तुरेतैः क्षीणैश्च क्षीयते ।
आयुर्वेदविदस्तस्मात्त्रिधातुं मां प्रचक्षते ॥२२॥
वृषो हि भगवान्धर्मः ख्यातो लोकेषु भारत ।
नैघण्टुकपदाख्यातं विद्धि मां वृषमुत्तमम् ॥२३॥
कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद्वृषाकपिं प्राह कश्यपो मां प्रजापतिः ॥२४॥
न चादिं न मध्यं तथा नैव चान्तं; कदाचिद्विदन्ते सुराश्चासुराश्च ।
अनाद्यो ह्यमध्यस्तथा चाप्यनन्तः; प्रगीतोऽहमीशो विभुर्लोकसाक्षी ॥२५॥
शुचीनि श्रवणीयानि शृणोमीह धनञ्जय ।
न च पापानि गृह्णामि ततोऽहं वै शुचिश्रवाः ॥२६॥
एकशृङ्गः पुरा भूत्वा वराहो दिव्यदर्शनः ।
इमामुद्धृतवान्भूमिमेकशृङ्गस्ततो ह्यहम् ॥२७॥
तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।
त्रिककुत्तेन विख्यातः शरीरस्य तु मापनात् ॥२८॥
विरिञ्च इति यः प्रोक्तः कपिलज्ञानचिन्तकैः ।
स प्रजापतिरेवाहं चेतनात्सर्वलोककृत् ॥२९॥
विद्यासहायवन्तं मामादित्यस्थं सनातनम् ।
कपिलं प्राहुराचार्याः साङ्ख्या निश्चितनिश्चयाः ॥३०॥
हिरण्यगर्भो द्युतिमानेष यश्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स एवाहं विभुः स्मृतः ॥३१॥
एकविंशतिशाखं च ऋग्वेदं मां प्रचक्षते ।
सहस्रशाखं यत्साम ये वै वेदविदो जनाः ॥३२॥
गायन्त्यारण्यके विप्रा मद्भक्तास्तेऽपि दुर्लभाः ॥३२॥
षट्पञ्चाशतमष्टौ च सप्तत्रिंशतमित्युत ।
यस्मिञ्शाखा यजुर्वेदे सोऽहमाध्वर्यवे स्मृतः ॥३३॥
पञ्चकल्पमथर्वाणं कृत्याभिः परिबृंहितम् ।
कल्पयन्ति हि मां विप्रा अथर्वाणविदस्तथा ॥३४॥
शाखाभेदाश्च ये केचिद्याश्च शाखासु गीतयः ।
स्वरवर्णसमुच्चाराः सर्वांस्तान्विद्धि मत्कृतान् ॥३५॥
यत्तद्धयशिरः पार्थ समुदेति वरप्रदम् ।
सोऽहमेवोत्तरे भागे क्रमाक्षरविभागवित् ॥३६॥
रामादेशितमार्गेण मत्प्रसादान्महात्मना ।
पाञ्चालेन क्रमः प्राप्तस्तस्माद्भूतात्सनातनात् ॥३७॥
बाभ्रव्यगोत्रः स बभौ प्रथमः क्रमपारगः ॥३७॥
नारायणाद्वरं लब्ध्वा प्राप्य योगमनुत्तमम् ।
क्रमं प्रणीय शिक्षां च प्रणयित्वा स गालवः ॥३८॥
कण्डरीकोऽथ राजा च ब्रह्मदत्तः प्रतापवान् ।
जातीमरणजं दुःखं स्मृत्वा स्मृत्वा पुनः पुनः ॥३९॥
सप्तजातिषु मुख्यत्वाद्योगानां सम्पदं गतः ॥३९॥
पुराहमात्मजः पार्थ प्रथितः कारणान्तरे ।
धर्मस्य कुरुशार्दूल ततोऽहं धर्मजः स्मृतः ॥४०॥
नरनारायणौ पूर्वं तपस्तेपतुरव्ययम् ।
धर्मयानं समारूढौ पर्वते गन्धमादने ॥४१॥
तत्कालसमयं चैव दक्षयज्ञो बभूव ह ।
न चैवाकल्पयद्भागं दक्षो रुद्रस्य भारत ॥४२॥
ततो दधीचिवचनाद्दक्षयज्ञमपाहरत् ।
ससर्ज शूलं क्रोधेन प्रज्वलन्तं मुहुर्मुहुः ॥४३॥
तच्छूलं भस्मसात्कृत्वा दक्षयज्ञं सविस्तरम् ।
आवयोः सहसागच्छद्बदर्याश्रममन्तिकात् ॥४४॥
वेगेन महता पार्थ पतन्नारायणोरसि ॥४४॥
ततः स्वतेजसाविष्टाः केशा नारायणस्य ह ।
बभूवुर्मुञ्जवर्णास्तु ततोऽहं मुञ्जकेशवान् ॥४५॥
तच्च शूलं विनिर्धूतं हुङ्कारेण महात्मना ।
जगाम शङ्करकरं नारायणसमाहतम् ॥४६॥
अथ रुद्र उपाधावत्तावृषी तपसान्वितौ ।
तत एनं समुद्धूतं कण्ठे जग्राह पाणिना ॥४७॥
नारायणः स विश्वात्मा तेनास्य शितिकण्ठता ॥४७॥
अथ रुद्रविघातार्थमिषीकां जगृहे नरः ।
मन्त्रैश्च संयुयोजाशु सोऽभवत्परशुर्महान् ॥४८॥
क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा ।
ततोऽहं खण्डपरशुः स्मृतः परशुखण्डनात् ॥४९॥
अर्जुन उवाच॥
अस्मिन्युद्धे तु वार्ष्णेय त्रैलोक्यमथने तदा ।
जयं कः प्राप्तवांस्तत्र शंसैतन्मे जनार्दन ॥५०॥
श्रीभगवानुवाच॥
तयोः संलग्नयोर्युद्धे रुद्रनारायणात्मनोः ।
उद्विग्नाः सहसा कृत्स्ना लोकाः सर्वेऽभवंस्तदा ॥५१॥
नागृह्णात्पावकः शुभ्रं मखेषु सुहुतं हविः ।
वेदा न प्रतिभान्ति स्म ऋषीणां भावितात्मनाम् ॥५२॥
देवान्रजस्तमश्चैव समाविविशतुस्तदा ।
वसुधा सञ्चकम्पेऽथ नभश्च विपफाल ह ॥५३॥
निष्प्रभाणि च तेजांसि ब्रह्मा चैवासनाच्च्युतः ।
अगाच्छोषं समुद्रश्च हिमवांश्च व्यशीर्यत ॥५४॥
तस्मिन्नेवं समुत्पन्ने निमित्ते पाण्डुनन्दन ।
ब्रह्मा वृतो देवगणैरृषिभिश्च महात्मभिः ॥५५॥
आजगामाशु तं देशं यत्र युद्धमवर्तत ॥५५॥
साञ्जलिप्रग्रहो भूत्वा चतुर्वक्त्रो निरुक्तगः ।
उवाच वचनं रुद्रं लोकानामस्तु वै शिवम् ॥५६॥
न्यस्यायुधानि विश्वेश जगतो हितकाम्यया ॥५६॥
यदक्षरमथाव्यक्तमीशं लोकस्य भावनम् ।
कूटस्थं कर्तृनिर्द्वंद्वमकर्तेति च यं विदुः ॥५७॥
व्यक्तिभावगतस्यास्य एका मूर्तिरियं शिवा ।
नरो नारायणश्चैव जातौ धर्मकुलोद्वहौ ॥५८॥
तपसा महता युक्तौ देवश्रेष्ठौ महाव्रतौ ।
अहं प्रसादजस्तस्य कस्मिंश्चित्कारणान्तरे ॥५९॥
त्वं चैव क्रोधजस्तात पूर्वसर्गे सनातनः ॥५९॥
मया च सार्धं वरदं विबुधैश्च महर्षिभिः ।
प्रसादयाशु लोकानां शान्तिर्भवतु माचिरम् ॥६०॥
ब्रह्मणा त्वेवमुक्तस्तु रुद्रः क्रोधाग्निमुत्सृजन् ।
प्रसादयामास ततो देवं नारायणं प्रभुम् ॥६१॥
शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥६१॥
ततोऽथ वरदो देवो जितक्रोधो जितेन्द्रियः ।
प्रीतिमानभवत्तत्र रुद्रेण सह सङ्गतः ॥६२॥
ऋषिभिर्ब्रह्मणा चैव विबुधैश्च सुपूजितः ।
उवाच देवमीशानमीशः स जगतो हरिः ॥६३॥
यस्त्वां वेत्ति स मां वेत्ति यस्त्वामनु स मामनु ।
नावयोरन्तरं किञ्चिन्मा ते भूद्बुद्धिरन्यथा ॥६४॥
अद्य प्रभृति श्रीवत्सः शूलाङ्कोऽयं भवत्वयम् ।
मम पाण्यङ्कितश्चापि श्रीकण्ठस्त्वं भविष्यसि ॥६५॥
एवं लक्षणमुत्पाद्य परस्परकृतं तदा ।
सख्यं चैवातुलं कृत्वा रुद्रेण सहितावृषी ॥६६॥
तपस्तेपतुरव्यग्रौ विसृज्य त्रिदिवौकसः ॥६६॥
एष ते कथितः पार्थ नारायणजयो मृधे ।
नामानि चैव गुह्यानि निरुक्तानि च भारत ॥६७॥
ऋषिभिः कथितानीह यानि सङ्कीर्तितानि ते ॥६७॥
एवं बहुविधै रूपैश्चरामीह वसुन्धराम् ।
ब्रह्मलोकं च कौन्तेय गोलोकं च सनातनम् ॥६८॥
मया त्वं रक्षितो युद्धे महान्तं प्राप्तवाञ्जयम् ॥६८॥
यस्तु ते सोऽग्रतो याति युद्धे सम्प्रत्युपस्थिते ।
तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम् ॥६९॥
कालः स एव कथितः क्रोधजेति मया तव ।
निहतांस्तेन वै पूर्वं हतवानसि वै रिपून् ॥७०॥
अप्रमेयप्रभावं तं देवदेवमुमापतिम् ।
नमस्व देवं प्रयतो विश्वेशं हरमव्ययम् ॥७१॥ 3.342.141
।। इति श्रीमन्महाभारते शान्तिपर्वणि
मोक्षधर्मपर्वणि नारायणीये
द्विपञ्चाशदधिकत्रिशततमोऽध्यायः।। 352।।
12-352-1 बोधयन्स्थापयंश्चैवेति ट. पाठः।। 12-352-2 बोधनात्स्थापनाच्चैवेति ट. पाठः।। 12-352-3 इलोपहूतं योगेनेति झ. पाठः।। 12-352-6 शिपिविष्टं हि तत्स्मृतमिति ट. ध. पाठः।। 12-352-11 पौष्करे मन्नाभिकमलोत्थे।। 12-352-13 निराशीः कर्म निष्कामकर्म।। 12-352-15 विगता कुण्ठा पञ्चानां भूतानां मेलने असामर्थ्यं यस्य स विकुण्ठः स एव वैकुण्ठः।। 12-352-17 अधइति पृथिवी। अक्षू व्याप्तावित्यतोऽक् आकाशः। ते उभे सञ्जयति सङ्गेन धारयतीत्यधोक्षज इत्यर्थः।। 12-352-18 प्राग्वंशे यज्ञशालैकदेज्ञे।। 12-352-20 मम वह्निस्वरूपस्यार्चिपो वर्धकमिति शेषः।। 12-352-28 शरीरस्य प्रकोपनादिति ध. पाठः।। 12-352-29 कालिविज्ञानचिन्तकैरिति ट. पाठः। रेचनात्सर्वलोककृदिति ध. पाठः।। 12-352-43 अपाहरन्नाशितवान् रुद्र इति शेषः।। 12-352-44 तच्छूलं कर्तृ।। 12-352-45 तत्तेजसा शूलतेजसा।। 12-352-48 एनं समुद्धूतमुड्डीयागतं रुद्रम्।। 12-352-50 क्षिप्त आक्षिप्तस्तेन रुद्रशूलेन रुद्रेण वा।। 12-352-64 वरदं हर इति ट. पाठः।।
शांतिपर्व-351 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-353 |