महाभारतम्-12-शांतिपर्व-122
← शांतिपर्व-121 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-122 अज्ञातलेखकः |
शांतिपर्व-123 → |
भीष्मेण युधिष्ठिरंप्रति वसुहोममान्धातृसंवादानुवादपूर्वकं दण्डोत्पत्त्यादिकथनम्।। 1।।
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः।। 1
स राजा धर्मविन्नित्यं सह पत्न्या महातपाः।
मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम्। 2
तत्र शृङ्गे हिमवतो वसतिं समुपागमत्।
यत्र मुञ्जवटे रामो जटाहरणमादिशत्।। 3
तदादि च महाप्राज्ञः ऋषिभिः संशितव्रतैः।
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः।। 4
स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः।
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्।। 5
तं कदाचिददीनात्मा सखा शक्रस्य मानितः।
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः।। 6
सोपसृत्य तु मान्धाता वसुहोमं नराधिपम्।
दृष्ट्वा प्रकृष्टतपसं विनयेनोपतिष्ठते।। 7
वसुहोमोऽपि राज्ञो वै गामर्ध्यं च न्यवेदयत्।
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ।। 8
सद्भिराचरितं पूर्वं यथावदनुयायिनम्।
अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते।। 9
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः।
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन।। 10
बृहस्पतेर्मतं राजन्नघीतं सकलं त्वया।
तथैवौशनसं शास्त्रं विज्ञातं ते नरोत्तम।। 11
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम्।
किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते।। 12
कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः।
ब्रूहि मे तद्यथातत्वं ददाम्याचार्यवेतनम्।। 13
वसुहोम उवाच।
शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः।
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः।। 14
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः।
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम्।। 15
स गर्भं भगवान्देवो बहुवर्षाण्यधारयत्।
अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत्।। 16
स क्षुपो नाम संभूतः प्रजापतिररिंदम्।
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः।। 17
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ।
इष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत्।। 18
तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत्।
नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते।। 19
पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम्।
गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम्।। 20
परस्परं विलुम्पन्ति सारमेया यथाऽऽमिषम्।
अबलान्बलिनो जघ्नुर्निर्मर्यादं प्रवर्तते।। 21
ततः पितामहो विष्णुं भगवन्तं सनातनम्।
संपूज्य वरदं देवं महादेवमथाब्रवीत्।। 22
अत्र त्वमनुकम्पां वै कर्तुमर्हसि शङ्कर।
अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे।। 23
`त्वं हि सर्वविधानज्ञः सत्वानां त्वं गतिः परा।'
संकरो न भवेदत्र यथा तद्वै विधीयताम्।। 24
ततः स भगवान्ध्यात्वा तदा शूलवरायुधः।
` देवदेवो महादेवः कारणं जगतः परम्।।
ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः।
लोकसन्धारणार्थं च लोकसंकरनाशनम्।'
आत्मानमात्माना दण्डं ससृजे देवसत्तमः।। 26
तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम्।
असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम्।। 27
`यथाऽसौ नीयते दण्डः सततं पापकारिषु।
दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते।।' 28
भूयः स भगवान्ध्यात्वा चिरं शूलघरः प्रभुः।
`असृजत्सर्वशास्त्राणि महादेवो महेश्वरः।। 29
दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः।
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः।। 30
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश।। 31
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु।। 32
दश चाष्टौ च विख्याता एता धर्मस्य संहिताः।
एतासामेव विद्यानां व्यासमाह महेश्वरः।। 33
शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम्।
व्यास एव तु विद्यानां महादेवेन कीर्तितः।। 34
तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम्।
योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा।। 35
तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम्।
सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम्।। 36
तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः।
दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः।। 37
पुराणाश्च प्रणीताश्च तावदेवेह संहिताः।
धर्मशास्त्राणि तद्वच्च एकार्थानि च नान्यथा।। 38
एकार्थानि पुराणानि वेदाश्चैकार्यसंहिताः।
नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः।। 39
प्रोवाच भगवान्देवः कालज्ञानानि यानि च।
चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम्।। 40
अष्टादशविकल्पां तां दण्डनीतिं च शाश्वतीम्।
गान्धर्वमितिहासं च नानाविस्तरमुक्तवान्।। 41
इत्येताः शंकरप्रोक्ता विद्याः शब्दार्थसंहिताः।
पुनर्भेदसहस्रं तु तासामेव तु विस्तरः।। 42
ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः।
शश्वदभ्यस्यते लोके वेद एव तु सर्वशः।। 43
वेदाश्चतस्रः संक्षिप्ता वेदवादाश्च ते स्मृताः।
एतासां पारगो यश्च स चोक्तो वेदपारगः।। 44
वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः।
शक्रः स्वायंभुवश्चैव मनुः परमधर्मवित्।। 45
ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः।
सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः।। 46
भीष्म उवाच।
अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च।
शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह।
वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः।। 47
कल्पेकल्पे महाभागैर्ऋषिभिस्तत्त्वदर्शिभिः।
ऋषिपुत्रैर्ऋषिगणैर्भिद्यन्ते मिश्रकैरपि।। 48
शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः।
आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः।। 49
इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः।
पूर्वजन्मानुसारेण बहुधेयं सरस्वती।। 50
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः।'
तस्यतस्य निकायस्य चकारैकैकमीश्वरम्।। 51
देवानामीश्वरं चक्रे दैवं दशशतेक्षणम्।
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम्।। 52
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्।
धनानां राक्षसानां च कुवेरमपि चेश्वरम्।। 53
पर्वतानां पतिं मेरुं सरितां च महोदधिम्।
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्।। 54
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः।
महात्मानं महादेवं विशालाक्षं सनातनम्।। 55
`दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसंभवाः।
नानारूपधरो देवः स एव भगवाञ्शिवः।।' 56
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्।
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम्।। 57
वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम्।
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्।। 58
कालं सर्वेशमकरोत्संहारविनयात्मकम्।
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च।। 59
ईश्वरो देवदेवस्तु राजराजो नराधिपः।
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः।। 60
`ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः।
विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः।। 61
सृजते ग्रसते चैतत्तमोभूतमिदं यथा।
अप्रज्ञातं जगत्सर्वं यदा ह्येको महेश्वरः।। ' 62
तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ।
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि।। 63
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः।
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ।। 64
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः।
प्रादादिन्द्रमरीचिभ्या मरीचिर्भृगवे ददौ।। 65
भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम्।
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च।। 66
क्षुपस्तु मनवे प्रादादादित्यतनयाय च।
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्।। 67
विभज्य दण्डः कर्तव्यो दण्डे तु नयमिच्छता।
दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया।। 68
व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात्।
शरीरपीडा कार्या तु स्वदेशाच्च विवासनम्।। 69
तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम्।
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन्।। 70
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः।
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः।। 71
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः।
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः।। 72
व्यवसायात्ततस्तेजो जागर्ति परिपालयत्।
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः।। 73
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा।
जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतीमनु।। 74
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः।
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः।। 75
पितामहान्महादेवो जागर्ति भगवाञ्शिवः।
विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा।। 76
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः।
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय।। 77
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मताः।
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम्।। 78
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च।
सर्वसंक्षेपको दण्डः पितामहसुतः प्रभुः।। 79
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत।
ईशः सर्वस्य कालो हि महादेवः प्रजापतिः।। 80
देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः।
कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः।। 81
इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथापरे।
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्।। 82
भीष्म उवाच।
इतीदं वसुहोमस्य योऽऽत्मवाञ्शृणुयान्मतम्।
श्रुत्वा सम्यक्प्रवर्तेत स लोकानाप्नुयान्नृपः।। 83
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ।
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत।। 84
`वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा।
मयापि कथितं राजन्नाख्यानं प्रथितं मया।।' 85
।। इति श्रीमन्महाभारते शान्तिपर्वणि
राजधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः।। 122।।
1 अत्र दण्डोत्पत्तौ विषये।।
13 आचार्यवेतनं गुरुदक्षिणाम्।।
15 यियक्षुर्यष्टुमिच्छुः।।
16 सगर्भं शिरसा देवः इति झ. पाठः। क्षुवतः क्षुतवतः।।
18 अष्टं रूपं दीक्षापरिग्रहः प्रजानियन्ता दीक्षां प्रविष्ट इति नियमनरूपो दण्डोऽन्तर्हितोऽभवदित्यर्थः।।
58 वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्।(पाठभेदः)
59 कर्तुमर्हसि केशव इति झ. पाठः। विनयो विवृद्धिः। चत्वारो विभागा यस्य तस्य शस्त्रं शत्रुर्यमः कर्म च। रोगोऽपथ्याशनप्रयोजको रागो यमः कर्म चेति वा।।
68 विभज्य न्यायं न्यायाभासं च विविच्य। दुष्टनिग्रह एव दण्डस्य मुख्यं प्रयोजनम्। हिरण्यादिग्रहणं तु लोकानां बिभीषिकार्थं नतु कोश वृद्ध्यर्थमित्यर्थः।।
69 विवासनं स्वदेशाद्दूरीकरणाम्।।
73 ओषधीभ्यश्च पादपाः इति ट. पाठः।।
74 पादपेभ्यश्च जागर्ति इति ट. पाठः।।
शांतिपर्व-121 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-123 |