महाभारतम्-12-शांतिपर्व-319
← शांतिपर्व-318 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-319 वेदव्यासः |
शांतिपर्व-320 → |
याज्ञवल्क्येन जनकंप्रति सात्विकादिसारतम्यनिरूपणम्।। 1।।
जनकेन याज्ञवल्क्यंप्रति तत्वकथनप्रार्थना च।। 2।।
याज्ञवल्क्य उवाच
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम ।
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥१
शतधा सहस्रधा चैव तथा शतसहस्रधा ।
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥२
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् ।
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥३
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् ।
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ॥४
द्वन्द्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः ।
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ॥५
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ।
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥६
अव्यक्तः सत्त्वसंयुक्तो देवलोकमवाप्नुयात्।
रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥७
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते ।
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥८
पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् ।
शाश्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥९
ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम् ।
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥१०
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽह नराधिप ।
स एष प्रकृतिस्थो हि तस्थुरित्यभिधीयते ॥११
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव ।
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥१२
जनक उवाच।
अनादिनिधनावेतावुभावेव महामुने ।
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ॥१३
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः ।
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥१४
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे ।
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥१५
अस्तित्वं केवलत्वं च विनाभावं तथैव च ।
तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः ॥१६
कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज ।
सांख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ॥१७
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम ।
विदितं सर्वमेतत्ते पाणावामलकं यथ॥१८
याज्ञवल्क्य उवाच। | 12-319-1x |
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम। कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा।। | 12-319-1a 12-319-1b |
अव्यक्तरूपो भगवाञ्शतधा च सहस्रधा। शतधा सहस्रधा चैव तथा शतसहस्रधा।। | 12-319-2a 12-319-2b |
कोटिशश्च करोत्येव प्रकृत्याऽऽत्मानमात्मना। सात्विकरणोत्तमं स्थानं राजसस्येह मध्यमम्।। | 12-319-3a 12-319-3b |
तामसस्वाधमं स्थानं प्राहुरध्यात्मचिन्तकाः। केवलेनेह पुण्येन भतिभूर्ध्वामवाप्नुयात्।। | 12-319-4a 12-319-4b |
पुण्यपापेन मानुष्यमधर्मेणाप्यघोगतिम्। द्वन्द्वनेषां त्रयाणां तु सन्निपातं च तत्वतः।। | 12-319-5a 12-319-5b |
सत्वस्य रजसश्चैव तमसश्च शृणुष्व मे। सत्वस्य तु रजो दृष्टं रजसश्च तमस्तथा।। | 12-319-6a 12-319-6b |
तमसश्च तथा सत्वं सत्वस्याव्यक्तमेव च। अध्यक्तः सत्वसंयुक्तो देवलोकमयाप्नुयात्।। | 12-319-7a 12-319-7b |
रवासत्वसमायुक्तो मानुषेषु प्रपद्यते। रसस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते।। | 12-319-8a 12-319-8b |
राजसैस्तामसैः सत्वैर्युक्तो मानुषमाप्नुयात्। पुण्यपापवियुक्तानां स्थानमाहुर्महात्मनाम्।। | 12-319-9a 12-319-9b |
शाश्वतं चाव्ययं चैवमक्षयं चामृतं च तत्। ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम्। अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम्।। | 12-319-10a 12-319-10b 12-319-10c |
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप। स एव प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते।। | 12-319-11a 12-319-11b |
अचेतना चैव मता प्रकृतिश्चापि पार्थिव। एतेनाधिष्ठिता चैव सृजते संहरत्यपि।। | 12-319-12a 12-319-12b |
जनक उवाच। | 12-319-13x |
अनादिनिधनावेतावुभावेव महामते। अमूर्तिमन्तावचलावप्रकम्प्यगुणागुणौ।। | 12-319-13a 12-319-13b |
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः। चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः।। | 12-319-14a 12-319-14b |
त्वं हि विप्रेन्द्र कार्त्स्न्येन र्मोक्षधर्ममुपाससे। साकल्पं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः।। | 12-319-15a 12-319-15b |
निस्तत्वं केवलत्वं च विनाभावं तथैव च। दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै।। | 12-319-16a 12-319-16b |
तथैवोत्क्राणिणः स्थानं देहिनो वै विपद्यतः। कालेन यद्धि प्राप्नोति स्थानं तत्प्रब्रवीहि मे।। | 12-319-17a 12-319-17b |
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च। अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम। विदितं सर्वमेतत्ते पाणावामलकं यथा।। | 12-319-18a 12-319-18b 12-319-18c |
।। इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकत्रिशततमोऽध्यायः।। 319।। |
12-319-12 सच्चेतनश्चैप मतः प्रकृतिस्थश्च पार्थिवेति ट. ड. पाठः।। 12-319-13 अप्रकम्प्यौ त्रणाव्रणाविति ट. ड. पाठः। अप्रकम्प्यौ वृषावृषाविति थ. पाठः।। 12-319-16 अस्तित्वं केव त्वं चेति झ. पाठः।। 12-319-17 देहिनोऽपि वियुज्यत इति ट. पाठः।। 12-319-18 अनुक्तानि च तत्वेनेति ट. पाठः।।
शांतिपर्व-318 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-320 |