महाभारतम्-12-शांतिपर्व-325
← शांतिपर्व-324 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-325 वेदव्यासः |
शांतिपर्व-326 → |
भीष्मेण युधिष्ठिरंप्रति सुलभाजनकसंवादः।। 1।।
युधिष्ठिर उवाच।
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम।
कः प्राप्तो भूपतिः सिद्धिं मोक्षतत्त्वं वदस्व मे।। १२-३२५-१
संन्यस्यते यथाऽत्माऽयं व्यक्तस्यात्मा यथा च यत्।
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह।। १२-३२५-२
भीष्म उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
जनकस्य च संवादं सुलभायाश्च भारत।। १२-३२५-३
संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा।
मैथिलो जनको नाम धर्मध्वज इति श्रुतः।। १२-३२५-४
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः।
इन्द्रियाणि समाधाय शशास वसुधामिमाम्।। १२-३२५-५
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्।
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वरम्।। १२-३२५-६
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता।
महीमनुचचारैका सुलभा नाम भिक्षुकी।। १२-३२५-७
तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः।
तत्रतत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः।। १२-३२५-८
साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया।
दर्शने जातसंकल्पा जनकस्य बभूव ह।। १२-३२५-९
तत्र सा विप्रहायाऽथ पूर्वरूपं हि योगतः।
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्।। १२-३२५-१०
चक्षुनिंमेषमात्रेण लध्वस्त्रगतिगामिनी।
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा।। १२-३२५-११
सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम्।
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम्।। १२-३२५-१२
राजा तस्याः परं दृष्ट्वा सौकुमार्यं पुनस्तदा।
केयं कस्य कुतो वेति बभूवागतविस्मयः।। १२-३२५-१३
ततोस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्।
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्।। १२-३२५-१४
अथ भुक्तवतीं प्रीतां राजा तां मन्त्रिभिर्वृतः।
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकीम्।। १२-३२५-१५
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया।
सत्वं सत्वेन योगज्ञा प्रविष्टाऽभून्महीपते।। १२-३२५-१६
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः।
सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह।। १२-३२५-१७
जनकोप्युत्स्मयन्राजा भावमस्या विशेषयन्।
प्रतिजग्राह भावेन भावमस्या नृपोत्तम।। १२-३२५-१८
तदेकस्मिन्नधिष्ठाने संवादः श्रूतयामयम्।
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डकैः।। १२-३२५-१९
जनक उवाच।
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि।
कस्य च त्वं कुतो वेति पप्रच्छैनां महिपतिः।। १२-३२५-२०
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते।
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं मत्समागमे।। १२-३२५-२१
छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः।
सत्वां संवेत्तुमिच्छामि मानार्हा हि मताऽसिमे।। १२-३२५-२२
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा।
यस्य नान्यः प्रवक्ताऽस्ति मोक्षे तमपि मे शृणु।। १२-३२५-२३
पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः।
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः।। १२-३२५-२४
साङ्ख्यज्ञाने च योगे च महीपालविधौ तथा।
त्रिविधे मोक्षधर्मोस्मिन्गताध्वा छिन्नसंशयः।। १२-३२५-२५
स यथा शास्त्रदृष्टेन मार्गेणेह परिभ्रमन्।
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः।। १२-३२५-२६
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः।
श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः।। १२-३२५-२७
सोहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्।
मुक्तरागश्चराम्येकः पदे परमके स्थितः।। १२-३२५-२८
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः।
ज्ञानादेव च वैराग्यं जायते येन मुच्यते।। १२-३२५-२९
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्।
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा।। १२-३२५-३०
सेयं परमिका सिद्धिः प्राप्ता निर्द्वन्द्वता मया।
इहैव गतमोहेन चरता मुक्तसङ्गिना।। १२-३२५-३१
यथा क्षेत्रं मृदुभूतमद्भिराप्लावितं तथा।
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम्।। १२-३२५-३२
यथा चोत्तापितं बीजं कपाले यत्रतत्र वा।
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते।। १२-३२५-३३
तद्वद्भगवताऽनेन शिखाप्रोक्तेन भिक्षुणा।
ज्ञानं कृतमबीजं मे विषयेषु न जायते।। १२-३२५-३४
नामिरज्यति कस्मिंश्चिन्नानर्थे न परिग्रहे।
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागरोषयोः।। १२-३२५-३५
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्।
सव्यं वाऽस्यापि यस्तक्षेत्समावेतावुभौ मम।। १२-३२५-३६
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः।
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः।। १२-३२५-३७
मोक्षे हि त्रिविधा निष्ठा दृष्टाऽन्यैर्मोक्षवित्तमैः।
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्।। १२-३२५-३८
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः।
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः।। १२-३२५-३९
प्रहायोभयमप्येव ज्ञानं कर्म च केवलम्।
तृतीयेयं समाख्याता निष्ठा तेन महात्मना।। १२-३२५-४०
यमे च नियमे चैव कामे द्वेषे परिग्रहे।
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः।। १२-३२५-४१
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित्।
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे।। १२-३२५-४२
येनयेन हि यस्यार्थः कारणेनेह कर्मणि।
तत्तदालम्बते सर्वद्रव्ये स्वार्थपरिग्रहे।। १२-३२५-४३
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे।
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते।। १२-३२५-४४
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके।
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना।। १२-३२५-४५
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्।
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः।। १२-३२५-४६
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम्।
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः।। १२-३२५-४७
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम्।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्।। १२-३२५-४८
अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः।
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते।। १२-३२५-४९
आकिञ्चन्ये न मोक्षोस्ति कैञ्चन्ये नास्ति बन्धनम्।
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते।। १२-३२५-५०
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे।
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्।। १२-३२५-५१
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः।
मोक्षाश्मनिशितेनेह च्छिन्नस्त्यागासिना मया।। १२-३२५-५२
सोहमेवं गतो मुक्तो जातास्थस्त्वयि भिक्षुकि।
अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम।। १२-३२५-५३
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः।
तवैतानि समस्तानि नियमश्चेति संशयः।। १२-३२५-५४
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्।
मुक्तोऽयं स्यान्न वेति स्याद्धर्षितो मत्परिग्रहः।। १२-३२५-५५
न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके।
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना।। १२-३२५-५६
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः।
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्।। १२-३२५-५७
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेपि वा।
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम।। १२-३२५-५८
वर्णप्रवरमुख्याऽसि ब्राह्मणी क्षत्रियस्त्वहम्।
नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम्।। १२-३२५-५९
वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे।
अयं चापि सुकष्टस्ते द्वितीयाश्रमसंकरः।। १२-३२५-६०
सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम्।
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः।। १२-३२५-६१
अथ जीवति ते भर्ता प्रोषितोप्यथवा क्वचित्।
अगम्या परभार्येति चतुर्थो धर्मसंकरः।। १२-३२५-६२
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि।
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः।। १२-३२५-६३
अथवापि स्वतन्त्राऽसि स्वदोषेणेह केनचित्।
यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्।। १२-३२५-६४
इदमन्यत्तृतीयं ये भावस्पर्शविघातकम्।
दुष्टायाऽलक्ष्यते लिङ्गं विवृण्वत्या प्रकाशितम्।। १२-३२५-६५
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः।
येयं मत्परिषत्कृत्स्ना चेतुमिच्छसि तामपि।। १२-३२५-६६
तथाऽर्हतस्ततश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि।
मत्पक्षप्रतिघाताय स्वपक्षोद्भवनाय च।। १२-३२५-६७
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता।
भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम्।। १२-३२५-६८
इच्छतोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः।
अलाभश्चापि रक्तस्य सोपि दोषो विषोषमः।। १२-३२५-६९
मा त्याक्षीः साधु जानीष्व स्वशास्त्रमनुपालय।
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम।। १२-३२५-७०
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम्।
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः।
तत्त्वमत्र प्रतिच्छन्ना मयि नार्हसि गूहितम्।। १२-३२५-७१
न राजानं मृषा गच्छेन्न द्विजातिं कथंचन।
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः।। १२-३२५-७२
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्।
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्।। १२-३२५-७३
अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता।
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्।। १२-३२५-७४
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः।
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः।। १२-३२५-७५
भीष्म उवाच।
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः।
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत।। १२-३२५-७६
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना।
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्।। १२-३२५-७७
सुलभोवाच।
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः।
अपेतमुपपन्नार्थमष्टादशगुणान्वितम्।। १२-३२५-७८
सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयः सप्रयोजनः।
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप।। १२-३२५-७९
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम्।
शृणु संसार्यमाणानां पदार्थपदवाक्यतः।। १२-३२५-८०
ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते।
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते।। १२-३२५-८१
दोषाणां च गुणानां च प्रमाणं प्रविभागतः।
कंचिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम्।। १२-३२५-८२
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम्।
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः।। १२-३२५-८३
धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः।
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः।। १२-३२५-८४
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते।
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते।। १२-३२५-८५
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप।
एकार्थसमवेतानि वाक्यं मम निशामय।। १२-३२५-८६
उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम्।
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं ततः।। १२-३२५-८७
न गुर्वक्षरसंयुक्तं पराङ्युखपदं न च।
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्।। १२-३२५-८८
न न्यूनं नष्टशब्दं वा व्युत्क्रमाभिहितं न च।
सदोषमभिकल्पेन निष्कारणमहेतुकम्।। १२-३२५-८९
कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्थकात्तथा।
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन।। १२-३२५-९०
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप।
स ममेति विवक्षायां तदा सोर्थः प्रकाशते।। १२-३२५-९१
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते।
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति।। १२-३२५-९२
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः।
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्।। १२-३२५-९३
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते।
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप।। १२-३२५-९४
तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा।
`अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि।। १२-३२५-९५
काऽसि कस्य कुतो वेति त्वयाऽहमिति चोदिता।
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु।।' १२-३२५-९६
यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः।
सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः।। १२-३२५-९७
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च।
पृथगात्मा दशात्मानं संश्लिष्टा जतुकाष्ठवत्।
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः।। १२-३२५-९८
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे।
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते।। १२-३२५-९९
तथैव व्यभिचारेण न वर्तन्ते परस्परम्।
प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांवसः।। १२-३२५-१००
वाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु।
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः।। १२-३२५-१०१
यथैवात्र तथाऽन्येषु ज्ञानज्ञेयेषु हेतवः।
ज्ञानज्ञेयांतरेतस्मिन्मनो नामापरो गुणः।। १२-३२५-१०२
विचारयति येनायं निश्चये साध्वसाधुनी।
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः।
येंन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति।। १२-३२५-१०३
अथ द्वादशके तस्मिन्सत्वं नामापरो गुणः।
महासत्वोऽल्पसत्वो वा जन्तुयेनानुमीयते।। १२-३२५-१०४
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत चतुर्दशः।
ममायमिति येनायं मन्यते न ममेति च।। १२-३२५-१०५
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः।
पृथक्कालसमूहस्य सामग्र्यं तदिहोच्यते।। १२-३२५-१०६
गुणस्त्वेकोऽपरस्तत्र संघात इति षोडशः।
आकृतिर्व्यक्तिरित्येतौ गुणो यस्मिन्समाश्रितौ।। १२-३२५-१०७
सुखासुखे जन्ममृत्यू लाभालाभौ प्रियाप्रिये।
इति चैकोनर्विशोऽयं द्वन्द्वयोग इति स्मृतः।। १२-३२५-१०८
ऊर्ध्वमेकोनर्विशत्या कालो नामापरो गुणः।
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्।। १२-३२५-१०९
विंशकश्चैव संघातो महाभूतानि पञ्च च।
सदसद्भवायोगौ तु गुणावन्यौ प्रकाशकौ।। १२-३२५-११०
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः।
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे।। १२-३२५-१११
एवं विंशच्च दश च कलाः संख्यानतः स्मृताः।
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम्।। १२-३२५-११२
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति।
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति।। १२-३२५-११३
अव्यक्तं यदि वा व्यक्तं द्वयं वाऽथ चतुष्टयम्।
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः।। १२-३२५-११४
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता।
ततोऽहं त्वं च राजेन्द्र चे चाप्यन्ये शरीरिणः। १२-३२५-११५
विन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः।
यासामेव निपातेन कललं नाम जायते।। १२-३२५-११६
कललाद्बुद्बुदोत्पत्तिः पेशी वा बुद्बुदात्स्मृता।
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः।। १२-३२५-११७
संपूर्णे नवमे मासि जन्तोर्जातस्य मैथिल।
जायते नामरूपत्वं स्त्रीपुमान्वेति लिङ्गतः।। १२-३२५-११८
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि।
कौमारं रूपमापन्नं रूपवानुपलभ्यते।। १२-३२५-११९
कौमाराद्यौवनं चापि स्थावीर्यं चापि यौवनात्।
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते।। १२-३२५-१२०
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे।
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते।। १२-३२५-१२१
न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च।
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः।। १२-३२५-१२२
तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः।
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः।। १२-३२५-१२३
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः।
संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह।। १२-३२५-१२४
यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः।
जायन्त्येवं समुदयात्कलानामिह जन्तवः।। १२-३२५-१२५
आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि।
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि।। १२-३२५-१२६
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि।
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि।। १२-३२५-१२७
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल।
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम्।। १२-३२५-१२८
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे।
कृतवान्यो महीपालः किं तस्मिन्मुक्तलक्षणम्।। १२-३२५-१२९
त्रिवर्गं सप्तधा न्यस्तं यो न वेदेह कर्मसु।
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम्।। १२-३२५-१३०
प्रिये वाऽप्यप्रिये वाऽपि दुर्बले बलवत्यपि।
यस्य नास्ति समं चक्षुः किं तस्मिन्मक्तलक्षणम्।। १२-३२५-१३१
तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप।
सुहृद्भिः सन्निवार्यस्तेऽविरक्तस्येव भेषजम्।। १२-३२५-१३२
तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम्।
आत्मनाऽऽत्मनि संपश्य किमन्यन्मुक्तलक्षणम्।। १२-३२५-१३३
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य केनचित्।
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु।। १२-३२५-१३४
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह।
एकमेव स वै राजा पुरमध्यावसत्युत।। १२-३२५-१३५
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति।
गृहे शयनमप्येकं निशायां यत्र लीयते।। १२-३२५-१३६
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति।
तदनेन प्रसङ्गेन फलेनाल्पेन युज्यते।। १२-३२५-१३७
एवमेवोपभोगेषु भोजनाच्छादनेषु च।
गुणेष्वपरिमेयेषु निग्रहानुग्रहं प्रति।। १२-३२५-१३८
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते।
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता।। १२-३२५-१३९
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता।
मन्त्रे चामात्यसहिते कुतस्तस्य स्वतन्त्रता।। १२-३२५-१४०
यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता।
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः।। १२-३२५-१४१
स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः।
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः।। १२-३२५-१४२
स्नाह्यालभ पिब प्राश जुहुध्यगीन्यजेत्यपि।
वदस्व शृणु चापीति विवशः कार्यते परैः।। १२-३२५-१४३
अभिगम्याभिगम्यैवं याचन्ते सततं नराः।
न चाप्युत्सहते दातुं वित्तरक्षी महाजनान्।। १२-३२५-१४४
दाने कोशक्षयोऽप्यस्य वैरं चास्य प्रयच्छतः।
क्षणेनास्योऽपवर्तन्ते दोषा वैराग्यकारकाः।। १२-३२५-१४५
प्राज्ञाञ्शूरांस्तथा वैद्यानेकस्थानपि शङ्कते।
भयमप्यनये राज्ञो यैश्च नित्यमुपास्यते।। १२-३२५-१४६
तथा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया।
तथैवास्य भयं तेभ्यो जायते पश्य यादृशम्।। १२-३२५-१४७
सर्वः स्वेस्वे गृहे राजा सर्वः स्वेस्वे गृहे गृही।
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः।। १२-३२५-१४८
पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयाः।
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः।। १२-३२५-१४९
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः।
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते।। १२-३२५-१५०
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः।
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः।। १२-३२५-१५१
द्वन्द्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः।
बहुभिः प्रार्थितं राज्यमुपास्ते गणयन्निशाः।। १२-३२५-१५२
तदल्पसुखमत्यर्थं बहुदुःखमसारवत्।
तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम्।। १२-३२५-१५३
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्।
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे।। १२-३२५-१५४
बलं कोशममात्यांश्च कस्यैतानि न वा नृप।
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः।। १२-३२५-१५५
`सप्ताङ्गश्चैष सङ्घातो राज्यमित्युच्यते नृप।'
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः।
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः।। १२-३२५-१५६
तेषुतेषु हि कालेषु तत्तदङ्गं विशिष्यते।
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते।। १२-३२५-१५७
सप्ताङ्गश्चैव संघातस्त्रयश्चान्ये नृपोत्तम।
संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्।। १२-३२५-१५८
यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत्।
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः।। १२-३२५-१५९
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्।
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्।। १२-३२५-१६०
योप्यत्र परमो धर्मः पवित्रं राजराज्ययोः।
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते।। १२-३२५-१६१
साऽहमेतानि कर्माणि राजदुःखानि मैथिल।
समर्था शतशो वक्तुमथवाऽपि सहस्रशः।। १२-३२५-१६२
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे।
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि।। १२-३२५-१६३
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः।
सोपायः सोपनिषदः सोपसङ्गः सनिश्चयः।। १२-३२५-१६४
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः।
छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप।। १२-३२५-१६५
श्रुतं ते न श्रुतं मन्ये मृषा वाऽपि श्रुतं श्रुतम्।
अथवा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया।। १२-३२५-१६६
अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसे।
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा।। १२-३२५-१६७
सत्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया।
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वशः।। १२-३२५-१६८
नियमो ह्येषु धर्मेषु यतीनां शून्यवासिता।
शून्यमावासयन्त्या च मया किं कस्य दूषितम्।। १२-३२५-१६९
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ।
न गात्राक्यवैरन्यैः स्पृशामि त्वां नराधिप।। १२-३२५-१७०
कुले महति जातेन ह्रीमता दीर्घदर्शिना।
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम्।। १२-३२५-१७१
ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः।
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम्।। १२-३२५-१७२
तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता।
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि।। १२-३२५-१७३
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम्।
तिष्ठत्यस्पृशती तद्वत्त्वपि वत्स्यामि मैथिल।। १२-३२५-१७४
यदि चाद्य स्पृशन्त्या मे स्पर्शं जानासि कंचन।
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा।। १२-३२५-१७५
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम्।
उभयोरन्तराले वै वर्तसे मोक्षवादिकः।। १२-३२५-१७६
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः।
भावाभावसमायोगे जायते वर्णसंकरः।। १२-३२५-१७७
वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्वतः।
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते।। १२-३२५-१७८
पापौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका।
आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः।। १२-३२५-१७९
न तु कुण्डे पयोभावः पयश्चापि न मक्षिका।
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम्।। १२-३२५-१८०
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च।
परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः।। १२-३२५-१८१
नास्मि पर्णोत्तमा जात्या न वैश्या नावरा तथा।
तव राजन्सवर्णाऽस्मि शुद्धयोनिरविप्लुता।। १२-३२५-१८२
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः।
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम्।। १२-३२५-१८३
द्रोणश्च शतशृङ्गश्च वक्रद्धारश्च पर्वतः।
मम सत्रेषु पूर्वेषां चिता मघवता सह।। १२-३२५-१८४
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे।
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्।। १२-३२५-१८५
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी।
न धर्मसंकरकरी स्वधर्मेऽस्मि दृढव्रता।। १२-३२५-१८६
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी।
नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप।। १२-३२५-१८७
मोक्षे ते भावितां बुद्धिं श्रुत्वाऽहं कुशलैषिणी।
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता।। १२-३२५-१८८
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः।
मुक्तो विमुच्यते यश्च शान्तौ यश्च न शाम्यति।। १२-३२५-१८९
यथा शून्ये पुराऽगारे भिक्षुरेकां निशां वसेत्।
तथाऽहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्।। १२-३२५-१९०
साऽहं मानप्रदानेन वागातिथ्येन चार्चिता।
सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल।। १२-३२५-१९१
भीष्म उवाच।
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च।
श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परं।। १२-३२५-१९२
।। इति श्रीमन्महाभारते
शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चविंशत्यधिकत्रिशततमोऽध्यायः।। ३२५।।
१२-३२५-२ अव्ययस्य यथात्मा च व्यक्तस्यात्मा यथा च यदिति ध. पाठः।।
१२-३२५-४ संन्यासफलं सम्यग्दर्शनं तदस्यास्तीति संन्यासफलिकः।।
१२-३२५-५ स्वे शास्त्रे दण्डनीतौ।।
१२-३२५-७ अनुष्ठिता कर्तरिक्तः।।
१२-३२५-८ मोक्षे मोक्षशास्त्रे निष्णात इति शेषः।।
१२-३२५-९ नेति नवेति।।
१२-३२५-१० ततः सा विप्रभार्याश्च पूर्वरूपवियोगत इति ट. ड. पाठः।।
१२-३२५-११ लघु शीघ्रमस्रगत्या गच्छतीति सा। विदेहानां पदमिति ड. पाठः।।
१२-३२५-१५ भाष्यविदां सूत्रार्थज्ञानां मध्ये। अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतमिति। चोदयामासभिक्षुकीति च. झ. पाठः।।
१२-३२५-१६ सुलभाऽयं स्वधर्मेषु इति ध. पाठः।।
१२-३२५-१८ भावमाशयमेनं मूकं करिष्यामीत्येवंरूपम्। विशेषयन्नभिभवन्।।
१२-३२५-२० भवत्याचक्ष्व वार्षेयं कुतः क्व च गमिष्यसि इति ड. थ. पाठः।।
१२-३२५-२९ मोक्षस्य परमो निधिरिति ध. पाठः।।
१२-३२५-३० सा सिद्धिर्या च योगितेति थ. पाठः।।
१२-३२५-४२ ज्ञानेन कस्यचिदिति झ. पाठः।।
१२-३२५-४५ आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मकाः। राजानो भिक्षुकाचार्या मुच्यन्ते इति ड. थ. पाठः।।
१२-३२५-४६ मुच्यन्ते सर्वपापेभ्यो देहे परमके स्थिता इति झ. पाठः।।
१२-३२५-४७ लिङ्गान्यन्यार्थभूतानीति ट. ड. थ. पाठः।।
१२-३२५-४९ छत्रादिषु न लभ्यत इति ट.ड. पाठः।।
१२-३२५-५४ नचैतानि समस्तानीति ध. पाठः।।
१२-३२५-५८ संनिसर्गात्त्वं इति ध. पाठः।।
१२-३२५-६० द्वितीयो वर्णसंकर इति ड. पाठः।।
१२-३२५-६२ प्रेरिता तेन गच्छसीति ध. पाठः।।
१२-३२५-६३ कार्यार्थज्ञा व्यवस्यसीति ध. पाठः।।
१२-३२५-६५ तद्वक्तव्यं प्रकाशितमि ड. पाठः।।
१२-३२५-६७ अर्हतः पूज्यान् उद्दिश्य।।
१२-३२५-७० माप्राक्षीरिति ध. पाठः।।
१२-३२५-८७ नापेतार्थं न भिन्नार्थं नापवृत्तं न चाधिकमिति ड. पाठः।।
१२-३२५-८९ न निष्ठानमहेतुकमिति ड. पाठः।।
१२-३२५-९० दैन्यादन्याय्यकात्तथेति ड. पाठः।।
१२-३२५-९३ निःशङ्को जायते तस्मिन्निति ध. पाठः।।
१२-३२५-१०० प्रश्लिष्टा नाभिजायन्ते यथाद्भिरिव पांसव इति ड. पाठः।।
१२-३२५-१०३ अथ त्रयोदशे तस्मिन्बुद्धिर्नाम गुणः स्मृत इति ध. पाठः।।
१२-३२५-१०६ पृथक्कलासमूहस्येति झ. पाठः।।
१२-३२५-१११ विधिः शुद्धं बलं चेतीति ध. पाठः।।
१२-३२५-११४ अव्यक्तां यदि वा व्यक्तां द्वयीमथ चतुष्टयीमिति ट. थ. पाठः।।
१२-३२५-१२२ न चैषामप्यथो राजन्निति ट. पाठः। न चासामप्यथो राजन्निति ड. पाठः।।
१२-३२५-१२८ इदं मे स्यादिदं चेति इति ड. थ. पाठः।।
१२-३२५-१३० सप्तधा व्यस्तमिति ड. पाठः।।
१२-३२५-१४१ तस्मिंस्तस्मिन्क्षणे स्थित इति झ. पाठः।।
१२-३२५-१५१ तथैवाभिनियन्तृभिरिति झ. पाठः।।
१२-३२५-१५२ बहुप्रत्यर्थिकं राज्यमिति झ. ध. पाठः।।
१२-३२५-१६८ अङ्गनानुप्रवेशोऽपि इति ध. पाठः।।
१२-३२५-१६९ नियमो ह्येषु वर्णेष्विति झ. पाठः।।
१२-३२५-१७४ जलं तत्पत्रसंज्ञितमिति ध. पाठः। तत्पणंमस्पृशदिति झ. पाठः।।
१२-३२५-१७५ यदि वाप्यस्पृशन्त्या मे इति ट. ड. ध. पाठः।।
१२-३२५-१७६ मोक्षं चावाप्य दुर्लभमिति ड. थ. पाठः।।
१२-३२५-१७८ पृथक्त्वे च दृष्टास्यार्थाः पृथक्कृता इति ट. ड. पाठः।।
१२-३२५-१८४ द्रोणादयः पर्वता मम पूर्वेषआं सत्रेषु मघवता सह चिताश्चयने इष्टकास्थाने निवेशिता इत्यर्थः। चित्यां मघवता सहेति थ. पाठः।।
१२-३२५-१८५ भर्तर्यसति मद्गृहे इति ध. पाठः।।
१२-३२५-१८६ सत्रप्रतिच्छन्ना कपटसंन्यासिनी। न परस्वापहारिणीति झ. पाठः।।
१२-३२५-१८९ मुक्तो व्यायच्छते यश्चेति झ. पाठः।।
शांतिपर्व-324 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-326 |