महाभारतम्-12-शांतिपर्व-025ब
← शांतिपर्व-025 | महाभारतम् द्वादशपर्व महाभारतम्-12-शांतिपर्व-025ब वेदव्यासः |
शांतिपर्व-026 → |
अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः।
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः।। 12-25b-1b
यदेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति।
न स्वर्गो न सुखं नार्थो निर्धनस्येति तन्मृषा।। 12-25b-2b
स्वाध्याययज्ञसंसिद्धा दृश्यन्ते वहवो जनाः।
तपोरताश्च मुनयो येषां लोकाः सनातनाः।। 12-25b-3b
ऋषीणां समयं शश्वद्ये रक्षन्ति धनञ्जय।
आश्रिताः सर्वधर्मज्ञा देवास्तान्ब्राह्मणान्विदुः।। 12-25b-4b
स्वाध्यायनिष्ठान्हि ऋषीञ्ज्ञाननिष्ठांस्तथाऽपरान्।
बुद्ध्येथाः संततं चापि धर्मनिष्ठान्धनञ्जय।। 12-25b-5b
ज्ञाननिष्ठेषु कार्याणि प्रतिष्ठाप्यानि पाण्डव।
वैखानसानां वचनं यथा नो विदितं प्रभो।। 12-25b-6b
अजाश्च पृश्नयश्चैव सिकताश्चैव भारत।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः।। 12-25b-7b
अवाप्यैतानि कर्माणि वेदोक्तानि धनञ्जय।
दानमध्ययनं यज्ञो निग्रहश्चैव दुर्ग्रहः।। 12-25b-8b
दक्षिणेन च पन्थानमर्यम्णो ये दिवं गताः।
एतान्क्रियावतां लोकानुक्तवान्पूर्वमप्यहम्।। 12-25b-9b
उत्तरेण तु पन्थानं नियमाद्यं प्रपश्यसि।
एते यागवतां लोका भान्ति पार्थ सनातनाः।। 12-25b-10b
तत्रोत्तरां गतिं पार्थ प्रशंसन्ति पुराविदः।
संतोषो वै स्वर्गतमः संतोषः परमं सुखम्।। 12-25b-11b
तुष्टेर्न किंचित्परमं सा सम्यक् प्रतितिष्ठति।
विनीतक्रोधहर्षस्य, सततं सिद्धिरुत्तमा।। 12-25b-12b
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना।
योऽभिप्रेत्याहरेत्कामान्कूर्मोऽङ्गानीव सर्वशः।। 12-25b-13b
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा।। 12-25b-14b
यदा न भावं कुरुते सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा।। 12-25b-15b
विनीतमानमोहश्च बहुसङ्गविवर्जितः।
तदात्मज्योतिषः साधो निर्वाणमुपपद्यते।। 12-25b-16b
इदं तु शृणु मे पार्थ ब्रुवतः संयतेन्द्रियः।
धर्ममन्ये वृत्तमन्ये धनमीहन्ति चापरे।। 12-25b-17b
धनहेतोर्य ईहेत तस्यानीहा गरीयसी।
भूयान्दोषो हि वित्तस्य यश्च धर्मस्तदाश्रयः।। 12-25b-18b
प्रत्यक्षमनुपश्यामि त्वमपि द्रष्टुमर्हसि।
वर्जनं वर्जनीयानामीहामनेन दुष्करम्।। 12-25b-19b
ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्।
द्रुह्यतः प्रैति तत्प्राहुः प्रतिकूलं यथातथम्।। 12-25b-20b
यस्तु संभिन्नवृत्तः स्याद्वीतशोकभयो नरः।
अल्पेन तृषितो द्रुह्यन् भ्रूणहत्यां न बुध्यते।। 12-25b-21b
दुष्यन्त्याददतो भृत्या नित्यं दस्युभयादिव।
दुर्लभं च धनं प्राप्य भृशं दत्वाऽनुतप्यते।। 12-25b-22b
अधनः कस्य किं वाच्यो विमुक्तः सर्वशः सुखी।
देवस्वमुपगृह्यैव धनेन न सुखी भवेत्।। 12-25b-23b
तत्र गाथां यज्ञगीतां कीर्तयन्ति पुराविदः।
त्रयीमुपाश्रितां लोके यज्ञसंस्तरकारिकाम्।। 12-25b-24b
यज्ञाय सृष्टानि धनानि धात्रा
यज्ञाय सृष्टः पुरुषो रक्षिता च।
तस्मात्सर्वं यज्ञ एवोपयोज्यं
धनं न कामाय हितं प्रशस्तम्।। 12-25b-25b
एतत्स्वार्थे च कौन्तेय धनं धनवतां वर।
धाता ददाति मर्त्येभ्यो यज्ञार्थमिति विद्धि तत्।। 12-25b-26b
तस्माद्वुद्ध्यन्ति पुरुषा न हि तत्कस्यचिद्भुवम्।
श्रद्दधानस्ततो लोको दद्याच्चैव यजेत च।। 12-25b-27b
लब्धस्य त्यागमित्याहुर्न भोगं न च संक्षयम्।
तस्य किं संचयेनार्थः कार्ये ज्यायसि तिष्ठति।। 12-25b-28b
ये स्वधर्मादपेतेभ्यः प्रयच्छन्त्यल्पबुद्धयः।
शतं वर्षाणि ते प्रेत्य पुरीषं भुञ्जते जनाः।। 12-25b-29b
अनर्हते यद्ददाति न ददाति यदर्हते।
अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः।। 12-25b-30b
लब्धानामपि वित्तानां बोद्धव्यौ द्वावतिक्रमौ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्।।] 12-25b-31b
12-25a-4 समयं अध्ययनसंप्रदायस्याविच्छेदं आश्रिता आश्रमिणः। ब्रह्मचारिण इत्यर्थः।।
12-25a-6 कार्याणि राजकार्याणि। प्रतिष्ठाप्यानि तद्वचसानुष्ठेयानीत्यर्थः। वैखानसानां वानप्रस्थानाम्।।
12-25a-7 अजादयो वालखिल्यवदृषीणां गणविशेषाः।।
12-25a-9 एतान् द्युरूपान्। क्रियावतां कर्मिणाम्।।
12-25a-10 उत्तरेण उत्तरतः स्थितम्।।
12-25a-12 सा तुष्टिः परमवैराग्याभिधा उत्तमा सिद्धिः। विनीतक्रोधहर्षस्य क्रोधादिजयिनः सम्यक् प्रतितिष्ठति इतरस्य तु नेत्यर्थः।।
12-25a-16 आत्मज्योतिषः आत्मज्ञस्य। निर्वाणं मोक्षः।।
12-25a-17 वृत्तं शीलम्। ईहन्ति ईहन्ते।।
12-25a-18 धनहेतोः धर्माय वित्तस्यार्जने इति शेषः। तदाश्रयो धर्मो यज्ञादिस्तस्मिन्नपि भूयान्दोषोऽस्ति।।
12-25a-19 ईहमानेन धनार्थिना।।
12-25a-20 सम्यक्त्वं साधुकर्म द्रुह्यतः। द्रोहयुक्तानेव तद्धनं प्रेति न त्वद्रोहानिति प्राहुः। हिंसां विना धनप्राप्तिर्नास्तीत्यर्थः। प्राप्तमपि यथायथं सर्वथा प्रतिकूलं नानाभयहेतुत्वात्।।
12-25a-21 अल्पार्थेऽपि ब्रह्महत्यामर्जयतीत्यर्थः।।
12-25a-22 दुर्लभं धनं प्राप्यानुकूलेभ्योऽपि भृत्येभ्यो दत्त्वा दस्युभयादिव भृशमनुतप्यत इति संबन्धः। वित्तव्यये महद्दुःखं भवतीत्यर्थः।।
12-25a-23 देवस्वं तथा त्रैवार्षिकाधिकान्नो यः सहि सोमं पिबेद्द्विजः। प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेदिति स्मृतेरल्पमपि संचितं धनं देवस्वमेव। तदप्युपसंगृह्य देवेभ्योऽदत्त्वैव न तेन तावतापि सुखी भवेत्किं तु लाभाल्लोभः प्रवर्तत इतिन्यायेन तृष्णाधिक्याद्दुःखमेवानुभवतीत्यर्थः।।
12-25a-24 गाथां वैदिकजने यज्ञप्रतिष्ठाकरीम्।।
12-25a-26 चाद्यज्ञार्थेऽपि।।
12-25a-28 इत्याहुः प्रशस्तमाहुरित्यर्थः। कार्ये त्यागरूपे।।
शांतिपर्व-024 | पुटाग्रे अल्लिखितम्। | शांतिपर्व-026 |