महाभारतम्-03-आरण्यकपर्व-223
← आरण्यकपर्व-222 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-223 वेदव्यासः |
आरण्यकपर्व-224 → |
मार्कण्डेयेन युधिष्ठिरप्रति विस्तरेणाग्नीनां वंशकथनम् ।। 1 ।।
मार्कण्डेय उवाच।
गुरुभिर्नियमैर्युक्तो भरतो नाम पार्थिव।
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ।। 3-223-1
`सततं भरतश्रेष्ठ पावकोयं महाप्रभः'।
अग्निर्यश्च शिवो नाम शक्तिपूजायनिश्च सः।
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ।। 3-223-2
तपसस्तु फलं दृष्ट्वासंप्रवृत्तं तपोमयम्।
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ।। 3-223-3
उष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते।
अग्निश्चापि मनुर्नाम प्राजापत्यं सकारणम् ।। 3-223-4
शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः।
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ।। 3-223-5
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्।
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ।। 3-223-6
प्रततोऽग्निर्महाभाग परिश्रान्तो गवांपतिः।
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ।। 3-223-7
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिराः सृजत्।
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ।। 3-223-8
भानोर्भार्या महाराज बृहद्भासा तु सोमज[१]ा।
षट्पुत्राञ्जनयामास तदा सा कन्यया सह।
भानोराङ्गिरसस्याथ शृणु तस्य प्रजाविधिम् ।। 3-223-9
दुर्बलानां तु भूतानामसून् यः संप्रयच्छति।
तमग्निं बलदं प्राहुः प्रथमं भानुजं सुतम् ।। 3-223-10
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः।
अग्निः स मन्युमान्नाम द्वितीयो भानुजः सुतः ।। 3-223-11
दर्शे च पौर्णमासे च यस्येह हविरुच्यते।
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोङ्गिराः ।। 3-223-12
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्।
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ।। 3-223-13
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः।
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ।। 3-223-14
निशा त्वजनयत्कन्यामग्नीषोमावुभौ तथा।
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ।। 3-223-15
पूज्यते हविषा योऽग्रे चातुर्मास्येषु पावकः।
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ।। 3-223-16
अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते।
सोऽग्निर्विश्वपतिर्नाम द्वितीयस्तापसः सुतः ।। 3-223-17
कन्या या हरिणी[२] नाम हिरण्यकशिपोः सुताः। 3-223-18
कर्मणाऽसौ बभौ भार्या स वह्निः स प्रजापतिः।
प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम्।
तस्य सन्निहितो नाम शब्दरूपस्य साधनः ।। 3-223-19
शुक्लं कृष्णं वपुर्देवो यो बिभर्ति हुताशनः।
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ।। 3-223-20
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा।
अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्तकः ।। 3-223-21
योऽन्तर्यच्छति भूतानि येन चेष्टन्ति नित्यदा।
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ।। 3-223-22
इमामन्यान्समसृजत्पावकान्प्रथितौजसः।
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ।। 3-223-23
संस्पृशेयुर्यदाऽन्योन्यं कथंचिद्वायुनाऽग्नयः।
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ।। 3-223-24
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल।
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ।। 3-223-25
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना।
इष्टरष्टाकपालेन कार्या तु शुचयेऽग्नये ।। 3-223-26
अग्निं रजस्वला वै स्त्री संस्पृशेदाग्निहौत्रिकम्।
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये ।। 3-223-27
मृतः श्रूयेत यो जीवन्परासुरशुचिर्यथा।
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये ।। 3-223-28
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः।
इष्टिरष्टाकपालेन कार्या तन्तुमतेऽग्नये ।। 3-223-29
दर्शश्च पौर्णमासश्च यस् तिष्ठेत्प्रतिष्ठितम्।
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ।। 3-223-30
सूतिकाग्निर्यदा चाग्निं संस्पृशेदाग्निहौत्रिकम्।
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ।। 3-223-31
।। इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः ।। 223 ।।
</spn>
3-223-9 भानोर्भार्या सुप्रजा तु बृहद्भासा तु सूर्यजा इति झ. पाठः ।। 3-223-14 भानोरेवान्वयस्तुभः इति झ. पाठः ।। 3-223-18 कन्या सा रोहिणी इति झ. पाठः ।। 3-223-20 शुक्ककृष्णगतिर्देवो यो बिभर्ति हुताशनं इति झ. पाठः ।।
पाठान्तरम्
मार्कण्डेय उवाच
गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते १
अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः २
तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत्
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ३
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ४
शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ५
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ६
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ७
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत्
बृहद्भानुं तु तं प्राहुर्बाह्मणा वेदपारगाः ८
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा
असृजेतां तु षट् पुत्राञ्शृणु तासां प्रजाविधिम् ९
दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति
तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् १०
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ११
दर्शे च पौर्णमासे च यस्येह हविरुच्यते
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः १२
इन्द्रे ण सहितं यस्य हविराग्रयणं स्मृतम्
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः १३
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः १४
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् १५
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः १६
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः १७
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः १८
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम्
तस्य संनिहितो नाम शब्दरूपस्य साधनः १९
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः २०
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः २१
अग्निर्यच्छति भूतानि येन भूतानि नित्यदा
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते २२
इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् २३
संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये २४
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये २५
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये २६
अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये २७
मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा
इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये २८
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये २९
दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम्
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ३०
सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ३१
इति श्रीमहाभारते आरण्यकपर्वणि एकादशाधिक द्विशततमोऽध्यायः २११
आरण्यकपर्व-222 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-224 |