महाभारतम्-03-आरण्यकपर्व-021
← आरण्यकपर्व-020 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-021 वेदव्यासः |
आरण्यकपर्व-022 → |
कृष्णसाल्वयोर्युद्धम् ।। 1 ।।
साल्वेन स्वमायासृष्टवसुदेवस्य शिरश्छेदनप्रदर्शनेन कृष्णव्यामोहनम् ।। 2 ।।
ततो मुहूर्तेन प्रतिबुद्धेन कृष्णेन स्वानुभूतस्य मायिकत्वाध्यवसायः ।। 3 ।।
वासुदेव उवाच।।
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः ।
युध्यमानो मया सङ्ख्ये वियदभ्यागमत्पुनः ।।१।।
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च ।
चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ।।२।।
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव ।
द्विधा त्रिधा चाच्छिनमाशु मुक्तै; स्ततोऽन्तरिक्षे निनदो बभूव ।।३।।
ततः शतसहस्रेण शराणां नतपर्वणाम् ।
दारुकं वाजिनश्चैव रथं च समवाकिरत् ।।४।।
ततो मामब्रवीद्वीर दारुको विह्वलन्निव ।
स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ।।५।।
इति तस्य निशम्याहं सारथेः करुणं वचः ।
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ।।६।।
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये ।
अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ।।७।।
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् ।
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ।।८।।
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे ।
अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ।।९।।
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् ।
त्वरितो रथमभ्येत्य सौहृदादिव भारत ।।१०।।
आहुकस्य वचो वीर तस्यैव परिचारकः ।
विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ।।११।।
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः ।
केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ।।१२।।
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन ।
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ।।१३।।
तदलं साधु युद्धेन निवर्तस्व जनार्दन ।
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ।।१४।।
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः ।
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ।।१५।।
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् ।
जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ।।१६।।
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन ।
तेषु रक्षां समाधाय प्रयातः सौभपातने ।।१७।।
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा ।
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ।।१८।।
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ।।१८।।
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन ।
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ।।१९।।
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः ।
बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ।।२०।।
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः ।
सुविह्वलो महाराज पुनः शाल्वमयोधयम् ।।२१।।
ततोऽपश्यं महाराज प्रपतन्तमहं तदा ।
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ।।२२।।
तस्य रूपं प्रपततः पितुर्मम नराधिप ।
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ।।२३।।
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः ।
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ।।२४।।
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम ।
मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ।।२५।।
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् ।
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ।।२६।।
प्रसार्य बाहू पततः प्रसार्य चरणावपि ।
रूपं पितुरपश्यं तच्छकुनेः पततो यथा ।।२७।।
तं पतन्तं महाबाहो शूलपट्टिशपाणयः ।
अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ।।२८।।
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञा; महं तदा वीर महाविमर्दे ।
न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ।।२९।।
ततो ममासीन्मनसि मायेयमिति निश्चितम् ।
प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ।।३०।। 3.21.30
वासुदेव उवाच। | 3-21-1x |
एवं स पुरुषव्याघ्रः साल्वो राज्ञं महारिपुः। युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः ।। | 3-21-1a 3-21-1b |
ततः शतघ्नीश्च महागदाश्च दीप्ताश्च शूलान्मुसलानसींश्च। चिक्षेप रोषान्मयि मन्दबुद्धिः साल्वो महाराज जयाभिकाङ्क्षी ।। | 3-21-2a 3-21-2b 3-21-2c 3-21-2d |
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव। द्विधा त्रिता चाच्छिनमाशु मुक्तै- स्ततोऽन्तरिक्षे निनदो बभूव ।। | 3-21-3a 3-21-3b 3-21-3c 3-21-3d |
ततः शतसहस्रेण शराणां नतपर्वणाम्। दारुकं वाजिनश्चैव रथं च समवाकिरत् ।। | 3-21-4a 3-21-4b |
ततो मामब्रवीद्वीर दारुको विह्वलन्निव। स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः। अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति ।। | 3-21-5a 3-21-5b 3-21-5c |
इति तस्य निशम्याहं सारथेः करुणं वचः। अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ।। | 3-21-6a 3-21-6b |
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये। अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः ।। | 3-21-7a 3-21-7b |
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्। अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ।। | 3-21-8a 3-21-8b |
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे। अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम् ।। | 3-21-9a 3-21-9b |
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्। त्वरितो रथमारोप्य सौहृदादिव भारत ।। | 3-21-10a 3-21-10b |
आहुकस्य वचो वीर तस्यैव परिचारकः। विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर ।। | 3-21-11a 3-21-11b |
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः। केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ।। | 3-21-12a 3-21-12b |
उपयात्वा तु साल्वेन द्वारकां वृष्णिनन्दन। विषक्ते त्वयि दुर्धर्ष इतः शूरसुतो बलात् ।। | 3-21-13a 3-21-13b |
तदलं साधुयुद्धेन निवर्तस्व जनार्दन। द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ।। | 3-21-14a 3-21-14b |
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः। निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च ।। | 3-21-15a 3-21-15b |
सात्यकिं बलदेवं च प्रद्युम्नं च महांरथम्। जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम् ।। | 3-21-16a 3-21-16b |
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन। तेषु रक्षां समाधाय प्रयातः सौभयातने ।। | 3-21-17a 3-21-17b |
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा। सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्। साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ।। | 3-21-18a 3-21-18b 3-21-18c |
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन। शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ।। | 3-21-19a 3-21-19b |
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः। बलदेवमुखाः सर्व इति मे निश्चिता मतिः ।। | 3-21-20a 3-21-20b |
सोहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः। अविह्वलो महाराज पुनः साल्वमयोधयम् ।। | 3-21-21a 3-21-21b |
तदोऽपश्यं महाराज प्रपतन्तमहं तदा। सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ।। | 3-21-22a 3-21-22b |
तस्य रूपं प्रपततः पितुर्मम नराधिप। ययातेः क्षीणपुण्यस्य स्वर्गादिव भहीतलम् ।। | 3-21-23a 3-21-23b |
विशीर्णमलिनोष्णीपप्रकीर्णाम्बरमूर्धजः। प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ।। | 3-21-24a 3-21-24b |
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम। मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम् ।। | 3-21-25a 3-21-25b |
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्। मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ।। | 3-21-26a 3-21-26b |
प्रसार्य बाहू पततः प्रसार्य चरणावपि। रूपं पितुर्मे विबभौ शकुने- पततो यथा ।। | 3-21-27a 3-21-27b |
तं पतन्तं महाबाहो शूलपट्टसपाणयः। अभिघ्नन्तो भृशं वीर मम चोतोह्यकम्पयन् ।। | 3-21-28a 3-21-28b |
ततो मुहूर्तात्प्रतिलभ्य संज्ञा- महं तदा वीर महाविमर्दे। न तत्रसौमं न रिपुं च साल्वं पश्यामि वृद्धं पितरं न चापि ।। | 3-21-29a 3-21-29b 3-21-29c 3-21-29d |
ततो ममासीन्मनसि मायेयमिति निश्चितम्। प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान् ।। | 3-21-30a 3-21-30b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकविंशोऽध्यायः ।। 21 ।। |
टिप्पणी
[सम्पाद्यताम्]3-21-8 बाणरोत्पीडात् क्षतस्थानात्। उल्वणमुत्कटम् ।। 3-21-9 अस्तम्भयमाश्वासितवान् ।। 3-21-12 पितृसख आहुकः ।। 3-21-13 विषक्तेऽन्यत्र व्यासक्ते। शूरसुतो वसुदेवः ।। 3-21-16 जगर्हे निन्दितवान् ।।
आरण्यकपर्व-020 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-022 |