महाभारतम्-03-आरण्यकपर्व-032
← आरण्यकपर्व-031 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-032 वेदव्यासः |
आरण्यकपर्व-033 → |
युधिष्ठिरंप्रति द्रौपद्या ब्राह्मणोक्तबृहस्पतिनीतिकथनम् ।। 1 ।।
द्रौपद्युवाच।।
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन ।
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ।।१।।
आर्ताहं प्रलपामीदमिति मां विद्धि भारत ।
भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ।।२।।
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ।।३।।
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् ।
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ।।४।।
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ ।
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ।।५।।
उत्थानमभिजानन्ति सर्वभूतानि भारत ।
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ।।६।।
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः ।
अपि धाता विधाता च यथायमुदके बकः ।।७।।
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः ।
कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ।।८।।
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा ।
भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ।।९।।
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि ।
अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।।१०।।
नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथञ्चन ।।१०।।
यश्च दिष्टपरो लोके यश्चायं हठवादकः ।
उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ।।११।।
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत् ।
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ।।१२।।
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् ।
आसीत न चिरं जीवेदनाथ इव दुर्बलः ।।१३।।
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः ।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ।।१४।।
यच्चापि किञ्चित्पुरुषो दिष्टं नाम लभत्युत ।
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ।।१५।।
यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः ।
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ।।१६।।
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात् ।
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ।।१७।।
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा ।
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ।।१८।।
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः ।
विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ।।१९।।
यद्ध्ययं पुरुषः किञ्चित्कुरुते वै शुभाशुभम् ।
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ।।२०।।
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि ।
स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ।।२१।।
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः ।
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ।।२२।।
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा ।
बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ।।२३।।
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ ।
अगारनगराणां हि सिद्धिः पुरुषहैतुकी ।।२४।।
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः ।
धिया धीरो विजानीयादुपायं चास्य सिद्धये ।।२५।।
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये ।
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ।।२६।।
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम् ।
इदं त्वकुशलेनेति विशेषादुपलभ्यते ।।२७।।
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् ।
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ।।२८।।
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते ।
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ।।२९।।
सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत ।
पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ।।३०।।
न चैवैतावता कार्यं मन्यन्त इति चापरे ।
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ।।३१।।
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ।।३१।।
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः ।
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ।।३२।।
कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ।।३२।।
तथैव धाता भूतानामिष्टानिष्टफलप्रदः ।
यदि न स्यान्न भूतानां कृपणो नाम कश्चन ।।३३।।
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः ।
तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ।।३४।।
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः ।
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ।।३५।।
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः ।
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ।।३६।।
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर ।
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ।।३७।।
असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते ।
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ।।३८।।
अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ।।३९।।
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः ।
धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ।।४०।।
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् ।
न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ।।४१।।
अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते ।
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ।।४२।।
अन्येषां कर्म सफलमस्माकमपि वा पुनः ।
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् ।।४३।।
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत ।
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ।।४४।।
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः ।
यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ।।४५।।
तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् ।
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ।।४६।।
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत ।
निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ।।४७।।
सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ।।४७।।
बहूनां समवाये हि भावानां कर्म सिध्यति ।
गुणाभावे फलं न्यूनं भवत्यफलमेव वा ।।४८।।
अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ।।४८।।
देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये ।
युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ।।४९।।
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः ।
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ।।५०।।
यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः ।
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ।।५१।।
व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर ।
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ।।५२।।
उत्थानयुक्तः सततं परेषामन्तरैषणे ।
आनृण्यमाप्नोति नरः परस्यात्मन एव च ।।५३।।
न चैवात्मावमन्तव्यः पुरुषेण कदाचन ।
न ह्यात्मपरिभूतस्य भूतिर्भवति भारत ।।५४।।
एवं संस्थितिका सिद्धिरियं लोकस्य भारत ।
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः ।।५५।।
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् ।
सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ ।।५६।।
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा ।
तेषां साङ्कथ्यमश्रौषमहमेतत्तदा गृहे ।।५७।।
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् ।
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ।।५८।। 3.32.62
द्रौपद्युवाच। | 3-32-1x |
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन। ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ।। | 3-32-1a 3-32-1b |
आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत। भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे ।। | 3-32-2a 3-32-2b |
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन। अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ।। | 3-32-3a 3-32-3b |
आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम्। जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ।। | 3-32-4a 3-32-4b |
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ। इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ।। | 3-32-5a 3-32-5b |
उत्थानमभिजानन्ति सर्वभूतानि भारत। प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ।। | 3-32-6a 3-32-6b |
पश्यन्तः स्वं समुत्थानमुपजीवन्ति जन्तरः। अपि धाता विधाता च यथाऽयमुदके बकः ।। | 3-32-7a 3-32-7b |
[अकर्मणां वै भूतानां वृत्तिः स्वान्न हि काचन। तदेवाभिप्रपद्येत न विहन्यात्कदाचन ।।] | 3-32-8a 3-32-8b |
स्वकर्म कुरु माहासीः कर्मणा भव दंशितः। कृत्यं हि योऽभिजानाति सहस्रे सोस्ति नास्ति वां ।। | 3-32-9a 3-32-9b |
तस्य चापि भवेत्कार्वं विवृद्धौ रक्षणे तथा। भक्ष्यमाणो द्यनावाषः क्षीयेत हिमवानपि ।। | 3-32-10a 3-32-10b |
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि। [तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ।।] | 3-32-11a 3-32-11b |
दृष्ट्वाऽपिच फलं कर्म पश्यामः कुर्वतो जनान्। नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथंचन ।। | 3-32-12a 3-32-12b |
यश्च दिष्टपरो लोके यश्चापि हठवादकः। उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ।। | 3-32-13a 3-32-13b |
यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन्। अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ।। | 3-32-14a 3-32-14b |
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्। आसीत न चिरं जीवेदनाथ इव दुर्बलः ।। | 3-32-15a 3-32-15b |
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः। तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ।। | 3-32-16a 3-32-16b |
वश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत। दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ।। | 3-32-17a 3-32-17b |
यत्तावस्कर्मणा किंचित्फलमाप्नोति पूरुषः। प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम् ।। | 3-32-18a 3-32-18b |
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्। तत्स्वभावात्प्रकं विद्धि फलं पुरुषसत्तम ।। | 3-32-19a 3-32-19b |
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा। यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम् ।। | 3-32-20a 3-32-20b |
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः। विदधाति विभज्येह फलं पूर्वकतं नृणाम् ।। | 3-32-21a 3-32-21b |
यद्धि यः पुरुषः किंचित्कुरुते वै शुभाशुभम्। तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ।। | 3-32-22a 3-32-22b |
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि। स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः ।। | 3-32-23a 3-32-23b |
तेषुतेषु हि कृत्येषु विनियोक्ता महेश्वरः। सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ।। | 3-32-24a 3-32-24b |
मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा। बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम् ।। | 3-32-25a 3-32-25b |
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ। अगारनगराणां हि सिद्धिः पुरुषहैतुकी ।। | 3-32-26a 3-32-26b |
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः। एवं धीरो विजानीयादुपायं चास्य सिद्धये ।। | 3-32-27a 3-32-27b |
ततः प्रवर्तते पश्चात्कारणेष्वस्व सिद्धये। तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ।। | 3-32-28a 3-32-28b |
कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम्। इदं त्वकुशलेनेति विशेषादुपलभ्यते ।। | 3-32-29a 3-32-29b |
इष्टापूर्त्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्। पुरुषः कर्मसाध्येषु स्वाच्चेदयमकारणम् ।। | 3-32-30a 3-32-30b |
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते। असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ।। | 3-32-31a 3-32-31b |
सर्वमेव हठेनैके दैवेनैके वदन्त्युत। पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते ।। | 3-32-32a 3-32-32b |
न चैवैतावता कार्यं मन्यन्त इति चापरे। अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ।। | 3-32-33a 3-32-33b |
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः। किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः ।। | 3-32-34a 3-32-34b |
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्। कुशलाः प्रतिजानन्ति ये वै तत्त्वविदोजनाः ।। | 3-32-35a 3-32-35b |
तथैव धाता भूतानामिष्टानिष्टफलप्रदः। यदि न स्वानन भूतानां कृपणो नाम कश्चन ।। | 3-32-36a 3-32-36b |
यंयमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः। तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम् ।। | 3-32-37a 3-32-37b |
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः। तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ।। | 3-32-38a 3-32-38b |
कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः। एकान्तेन ह्यनीहोऽयं वर्ततेऽस्मासु संप्रति ।। | 3-32-39a 3-32-39b |
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर। एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ।। | 3-32-40a 3-32-40b |
असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते। कृतेकर्मणि राजेन्द्र तथाऽनृण्यमवाप्नुते ।। | 3-32-41a 3-32-41b |
अलक्ष्मीराविशत्येनं शयानमलसं नरम्। निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ।। | 3-32-42a 3-32-42b |
अनर्थं संशयावस्थं गृणन्त्यामुक्तसशंयाः। धीरा नराः कर्मरता न तु निःसंशयाः क्वचित् ।। | 3-32-43a 3-32-43b |
एकान्ते नह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम्। स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ।। | 3-32-44a 3-32-44b |
अथवाऽसिद्धिरेव स्यान्महिमा तु तदेव ते। वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि ।। | 3-32-45a 3-32-45b |
अन्येषां कर्म सफलमस्माकमपि वा पुनः। विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम् ।। | 3-33-46a 3-33-46b |
पृथिवीं लाङ्गलेनेह कृष्ट्वा बीजं वपत्युत। आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ।। | 3-32-47a 3-32-47b |
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः। यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया ।। | 3-32-48a 3-32-48b |
तच्चेदं फलमस्माकमपराधो न मे क्वचित्। इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्रगर्हयेत् ।। | 3-32-49a 3-32-49b |
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत। निर्वेदो नात्र गन्तव्यो द्वावन्तौ यस्य कर्मणः ।। | 3-32-50a 3-32-50b |
सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा। बहूनां समवाये हि भावानां कर्म सिध्यति ।। | 3-32-51a 3-32-51b |
गुणाभावे फलं न्यूनं भवत्यफलमेव च। अनारम्भे हि न फलं न गुणो दृश्यते क्वचित् ।। | 3-32-52a 3-32-52b |
देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये। युनक्ति मेधया धीरो यथायोगं यथाबलम् ।। | 3-32-53a 3-32-53b |
अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः। भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ।। | 3-32-54a 3-32-54b |
यत्रधीमानवेक्षेत श्रेयासं बहुभिर्गुणैः। साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ।। | 3-32-55a 3-32-55b |
व्यसनं नाभिकाङ्क्षेत्त विनाशं वा युधिष्ठिर। अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः ।। | 3-32-56a 3-32-56b |
उत्थानयुक्तः सततं परेषामन्तरैषणे। आनृण्यमाप्नोति नरः परस्यात्मन एव च ।। | 3-32-57a 3-32-57b |
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन। न ह्यात्मपरिभूतस् भूतिर्भवति शोभना ।। | 3-32-58a 3-32-58b |
एवं संस्थितिका सिद्धिरियं लोकस्य भारत। चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः ।। | 3-32-59a 3-32-59b |
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्। सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ ।। | 3-32-60a 3-32-60b |
नीतिं बृहस्पतिप्रोक्तां भ्रातृन्मेऽग्राहयन्पुरा। तेषां सकाशादश्रौषमहमेतां तदा गृहे ।। | 3-32-61a 3-32-61b |
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्। शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ।। | 3-32-62a 3-32-62b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वात्रिंशोऽध्यायः ।। 32 ।। |
टिप्पणी
[सम्पाद्यताम्]3-32-12 अपिवाह्य फलं कर्मेति ट. ध. पाठः ।। 3-32-18 यत्नवान्कर्मणेति ध. पाठः ।। 3-32-32 त्रैधमेतन्निरुच्यते इति झ. पाटः ।। 3-32-33 दैवशिष्टं तथा हठमिति क. पाठः। दैवादिष्टं तथा हठ इति ठ. पाठः ।। 3-32-39 एकान्ते नह्यनर्थोयमिति क ध. पाठः ।। 3-32-59 संस्थितिका ईदृग्व्यवस्थावती सिद्धिः फलसिद्धिः ।। 3-32-62 कर्मवतीमागतां किंचित्कार्योद्देशेन पितुरन्तिके आगताम् ।।
आरण्यकपर्व-031 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-033 |