महाभारतम्-03-आरण्यकपर्व-074
← आरण्यकपर्व-073 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-074 वेदव्यासः |
आरण्यकपर्व-075 → |
दमयन्त्या बाहुकस्य केशिन्या स्वगृहानयनम् ।। 1 ।।
बाहुकदमयन्त्योः संवादः ।। 2 ।।
बाहुकेन स्वस्य नलत्वोत्कीर्तनपूर्वकं कर्कोटकानुस्मरणेन तद्वत्तवस्त्रद्वयपरिधाने तस्य निजरूपप्रादुर्भावः ।। 3 ।।
ततो नलंप्रत्यभिजानन्त्या दमयन्त्या तत्परिरम्भणम् ।। 4 ।।
बृहदश्व उवाच।।
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः ।
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ।।१।।
दमयन्ती ततो भूयः प्रेषयामास केशिनीम् ।
मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ।।२।।
परीक्षितो मे बहुशो बाहुको नलशङ्कया ।
रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ।।३।।
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि ।
विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ।।४।।
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।
दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ।।५।।
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ ।
नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ।।६।।
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा ।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ।।७।।
ततः काषायवसना जटिला मलपङ्किनी ।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ।।८।।
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक ।
सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ।।९।।
अनागसं प्रियां भार्यां विजने श्रममोहिताम् ।
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ।।१०।।
किं नु तस्य मया कार्यमपराद्धं महीपतेः ।
यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ।।११।।
साक्षाद्देवानपाहाय वृतो यः स मया पुरा ।
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ।।१२।।
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् ।
भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ।।१३।।
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम ।
शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ।।१४।।
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् ।
परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ।।१५।।
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ।।१६।।
त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा ।
वनस्थया दुःखितया शोचन्त्या मां विवाससम् ।।१७।।
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः ।
त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ।।१८।।
मम च व्यवसायेन तपसा चैव निर्जितः ।
दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ।।१९।।
विमुच्य मां गतः पापः स ततोऽहमिहागतः ।
त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ।।२०।।
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ।।२१।।
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ।।२२।।
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।
श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ।।२३।।
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।
प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ।।२४।। 3.76.25
दमयन्त्युवाच।।
न मामर्हसि कल्याण पापेन परिशङ्कितुम् ।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ।।१।। 3,76.26
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ।।२।।
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ।।३।।
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते ।
उपायोऽयं मया दृष्टो नैषधानयने तव ।।४।।
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते ।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ।।५।।
तथा चेमौ महीपाल भजेऽहं चरणौ तव ।
यथा नासत्कृतं किञ्चिन्मनसापि चराम्यहम् ।।६।।
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।
एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ।।७।।
तथा चरति तिग्मांशुः परेण भुवनं सदा ।
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ।।८।।
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ।।९।।
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।
विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ।।१०।।
एवमुक्ते ततो वायुरन्तरिक्षादभाषत ।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ।।११।।
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ।।१२।।
उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ।।१३।।
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।
नात्र शङ्का त्वया कार्या सङ्गच्छ सह भार्यया ।।१४।।
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ।।१५।।
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत ।
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ।।१६।।
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः ।
संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ।।१७।।
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ।।१८।।
भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ।।१९।।
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना ।
परीता तेन दुःखेन निशश्वासायतेक्षणा ।।२०।।
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता ।
सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ।।२१।।
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ।।२२।।
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् ।
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ।।२३।।
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ।।२४।।
स चतुर्थे ततो वर्षे सङ्गम्य सह भार्यया ।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ।।२५।।
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् ।
अर्धसञ्जातसस्येव तोयं प्राप्य वसुन्धरा ।।२६।।
सैवं समेत्य व्यपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा ।
रराज भैमी समवाप्तकामा; शीतांशुना रात्रिरिवोदितेन ।।२७।। 3.76.53
बृहदश्व उवाच। | 3-74-1x |
सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः। आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ।। | 3-74-1a 3-74-1b |
दमयन्ती ततो भूयः प्रेषयामास केशिनीम्। मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ।। | 3-74-2a 3-74-2b |
परीक्षितो मे बहुशो बाहुको नलशङ्कया। रूपे मे संशयस्त्वेकः स्वयमिच्छमि वेदितुम् ।। | 3-74-3a 3-74-3b |
स वा प्रवेश्यतां मातर्मां वाऽनुज्ञातुमर्हसि। विदितं वाऽथवाऽज्ञातं पितुर्मे संविधीयताम् ।। | 3-74-4a 3-74-4b |
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्। दुहितुस्तमभिप्रायमन्वजानात्स पार्थिवः ।। | 3-74-5a 3-74-5b |
सा चै पित्राऽभ्यनुज्ञाता मात्रा च भरतर्षभ। `तयोर्नियोगात्कौरव्य केशिनीमिदमब्रवीत्' ।। | 3-74-6a 3-74-6b |
गच्छ केशिनि शीघ्रं त्वंबाहुकं पितृशासनात्। आनयस्व यथा माता त्वं तथा कुरु मे प्रियम् ।। | 3-74-7a 3-74-7b |
गत्वा तु केशिनी शिघ्रं बाहुकं वाक्यमब्रवीत्। भीमस्य शासनात्सूतागताहं विद्धि बाहुक ।। | 3-74-8a 3-74-8b |
प्रविश्यतां राजवेश्म इत्युक्तो भरतर्षभ। बाहुकस्तु चिरं ध्यात्वा केशिन्या सह भारत। प्रविवेश महाबाहुर्दमयन्तीनिवेशनम्' ।। | 3-74-9a 3-74-9b 3-74-9c |
नलं प्रवेशयामास यत्रतस्याः प्रतिश्रयः ।। | 3-74-10a |
तां स्म दृष्ट्वैव सहसा दमयन्तीं नलो नृपः। आविष्टः शोकदुःखाभ्यां बभूवाश्रुपरिप्लुतः ।। | 3-74-11a 3-74-11b |
तं तु दृष्ट्वातथायुक्तं दमयन्ती नलं तदा। तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ।। | 3-74-12a 3-74-12b |
ततः काषायवसना जटिला मलपङ्किनी। दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ।। | 3-74-13a 3-74-13b |
पूर्वं दृष्टस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक। सुप्तामुत्सृज्यविपिने गतो यः पुरुषः स्त्रियम् ।। | 3-74-14a 3-74-14b |
अनागसं प्रियां भार्यां विजने श्रममोहिताम्। अपहाय तु को गच्चेत्पुण्यश्लोकमृतेनलम् ।। | 3-74-15a 3-74-15b |
किमु तस्य मया बाल्यादपराद्धं महीपतेः। यो मामुत्सृज्य विपिने गतवान्निद्रयाऽर्दिताम् ।। | 3-74-16a 3-74-16b |
साक्षाद्देवानपाहाय वृतो यः स पुरा मया। अनुव्रतामभिमतां पुत्रिणीं त्यक्तवान्कथम् ।। | 3-74-17a 3-74-17b |
अग्नौ पाणिगृहीता च हंसानां वचने स्थिताम्। भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्गतम् ।। | 3-74-18a 3-74-18b |
बृहदश्व उवाच। | 3-74-19x |
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिदम। शोकजं वारिनेत्राभ्यामसुखं प्रास्रवद्बहु ।। | 3-74-19a 3-74-19b |
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलंतु तत्। परिस्रवन्नलो राजा शोकार्तइदमब्रवीत् ।। | 3-74-20a 3-74-20b |
`नलोऽहं विपुलश्रोणि त्वामुत्सृज्य यतो गतः। आविष्टः कलिना भद्रे तेन मोहवशं गतः ।।' | 3-74-21a 3-74-21b |
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्। कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ।। | 3-74-22a 3-74-22b |
यत्त्वया धर्मकृच्छ्रे तु शापेनाभिहतः पुरा। वनस्थया दुःखितया शोचन्त्या मांदिवानिशम् ।। | 3-74-23a 3-74-23b |
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः। त्वच्छापदग्धः सततं सोऽग्नावग्निरिवाहितः ।। | 3-74-24a 3-74-24b |
मम च व्यवसायेन तपसा चैव निर्जितः। दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ।। | 3-74-25a 3-74-25b |
विमुच्य मां गतः पापस्ततोऽहमिह चागतः। त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ।। | 3-74-26a 3-74-26b |
कथं नु नारी भर्तारमनुरक्तमनुव्रतम्। उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ।। | 3-74-27a 3-74-27b |
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्। भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ।। | 3-74-28a 3-74-28b |
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः। श्रुत्वैव चैवं त्वरितो भागस्वरिरुपस्थितः ।। | 3-74-29a 3-74-29b |
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्। प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ।। | 3-74-30a 3-74-30b |
न मामर्हसि कल्याण पापेन परिशङ्कितुम्। मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ।। | 3-74-31a 3-74-31b |
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः। वाक्यानि मम गाथाभिर्गायमाना दिशो दश ।। | 3-74-32a 3-74-32b |
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव। अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ।। | 3-74-33a 3-74-33b |
तेन वाक्ये कृतेसम्यक्प्रतिवाक्ये तथा हृते। उपायोऽयंमया दृष्टो नैषधानयने तव ।। | 3-74-34a 3-74-34b |
त्वामृते नहि लोकेऽन्य एकाह्ना पृथिवीपते। समर्थो योजनशतं गन्तुमश्वैर्नराधिप ।। | 3-74-35a 3-74-35b |
`तथापि मां महीपाल भजेतां चरणौ तव।' स्पृशेयं तेन सत्येन पादावेतौ महीपते। यथा नासत्कृतं किंचिन्मनसाऽपि चराम्यहम् ।। | 3-74-36a 3-74-36b 3-74-36c |
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः। एष मे मुञ्चतु प्राणान्यदि पापं चराम्यहम् ।। | 3-74-37a 3-74-37b |
यथा चरति तिग्मांशुः परितो भुवनं सदा। स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ।। | 3-74-38a 3-74-38b |
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्। स मुञ्चतु मम प्राणान्यदि पापं चराम्यहम् ।। | 3-74-39a 3-74-39b |
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै। विब्रुवन्तु यथा सत्यमेतद्देवास्त्यजन्तु माम् ।। | 3-74-40a 3-74-40b |
एवमुक्ते ततो वायुरन्तरिक्षादभाषत। नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ।। | 3-74-41a 3-74-41b |
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः। साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ।। | 3-74-42a 3-74-42b |
उपायो विहितश्चायं त्वदर्थमतुलोऽनया। न ह्येकाह्ना शतं गन्ता त्वामृतेऽन्यः पुमानिह ।। | 3-74-43a 3-74-43b |
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते। नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ।। | 3-74-44a 3-74-44b |
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ।। | 3-74-45a 3-74-45b |
तदद्भुतमयं दृष्ट्वा नलो राजाऽथ भारत। दमयन्त्यां विशङ्कां तामुपाकर्षदरिंदमः ।। | 3-74-46a 3-74-46b |
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः। संस्मृत्य नागराजं तं ततो लेभे स्वकं वपुः ।। | 3-74-47a 3-74-47b |
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा। प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ।। | 3-74-48a 3-74-48b |
भैमीमपि नलो राजा भ्राजमानो यथा पुरा। सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ।। | 3-74-49a 3-74-49b |
ततः स्वोरसि विन्यस्य वक्रं तस्य शुभानना। परीता तेन दुःखेन निशश्वासायतेक्षणा ।। | 3-74-50a 3-74-50b |
तथैव मलदिग्धाङ्गीं परिष्वज्य शुचिस्मिताम्। सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुतः ।। | 3-74-51a 3-74-51b |
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च। भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ।। | 3-74-52a 3-74-52b |
ततोऽब्रवीन्महाराजः कृतशौचमहंनलम्। दमयन्त्या सहोपेतं कल्ये द्रष्टा सुखोषितम् ।। | 3-74-53a 3-74-53b |
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप ।। | 3-74-54a 3-74-54b |
गृहे भीमस्य नृपतेः परस्परसुखैषिणौ। वसेतां हृष्टसंकल्पौ वैदर्भी च नलश् ह ।। | 3-74-55a 3-74-55b |
स चतुर्थे ततो वर्षे संगम्य सह भार्यया। सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ।। | 3-74-56a 3-74-56b |
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम्। अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ।। | 3-74-57a 3-74-57b |
सैवं समेत्य व्यपनीय तन्द्रां शान्तज्वरा हर्षविवृद्धसत्त्वा। रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन ।। | 3-74-58a 3-74-58b 3-74-58c 3-74-58d |
।। इतिश्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःसप्ततितमोऽध्यायः ।। 74 ।। |
3-74-10 प्रतिश्रयः गृहम् ।। 3-74-16 किंनु तस्य मया चीर्णमपराधमिति ध. पाटः ।। 3-74-18 अग्नौ पाणि गृहीत्वातु देवानामप्रतस्तथेति झ. पाठः ।। 3-74-33 त्वां दृष्टवान्कोसलेष्वति ध. पाठः ।। 3-74-37 सदागतिर्वायुः ।। 3-74-39 चन्द्रमाश्चित्ताभिमानिनी देवता ।। 3-74-53 कल्ये प्रभाते। कृतार्थं तमहं नलमिति क. ध. पाठः ।।
आरण्यकपर्व-073 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-075 |