महाभारतम्-03-आरण्यकपर्व-028
← आरण्यकपर्व-027 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-028 वेदव्यासः |
आरण्यकपर्व-029 → |
द्रौपद्या युधिष्ठिरंप्रति कालभेदेन क्षमाकोपयोरवश्याश्रयणीयत्वे प्रमाणतया बलिप्रह्लादसंवादानुवादपूर्वकंप्रकृते कोपस्यावश्यादरणीयत्वोक्तिः ।।
द्रौपद्युवाच।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ।।१।।
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ।।२।।
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत ।
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ।।३।।
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् ।
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ।।४।।
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ।।५।।
प्रह्लाद उवाच।।
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
इति तात विजानीहि द्वयमेतदसंशयम् ।।६।।
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।
भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ।।७।।
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन ।
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ।।८।।
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् ।
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ।।९।।
यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च ।
भोजनान्यथ पानानि सर्वोपकरणानि च ।।१०।।
आददीरन्नधिकृता यथाकाममचेतसः ।
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ।।११।।
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन ।
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ।।१२।।
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि ।
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ।।१३।।
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः ।
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ।।१४।।
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् ।
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ।।१५।।
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् ।
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ।।१६।।
अस्थाने यदि वा स्थाने सततं रजसावृतः ।
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ।।१७।।
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः ।
प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ।।१८।।
सोऽवमानादर्थहानिमुपालम्भमनादरम् ।
सन्तापद्वेषलोभांश्च शत्रूंश्च लभते नरः ।।१९।।
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् ।
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ।।२०।।
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।।२१।।
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् ।
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ।।२२।।
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ।।२२।।
काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ।।२३।।
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ।।२४।।
पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि ।
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ।।२५।।
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ।।२६।।
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ।।२७।।
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ।।२८।।
अजानता भवेत्कश्चिदपराधः कृतो यदि ।
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ।।२९।।
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् ।
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ।।३०।।
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः ।
नादेशकाले किञ्चित्स्याद्देशः कालः प्रतीक्ष्यते ।।३१।।
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ।।३१।।
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ।।३२।। 3.28.33
द्रौपद्युवाच।।
तदहं तेजसः कालं तव मन्ये नराधिप ।
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ।।३३।।
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ।।३४।।
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः ।
काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ।।३५।। 3.28.36
द्रौपद्युवाच। | 3-28-1x |
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ।। | 3-28-1a 3-28-1b |
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्। बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः ।। | 3-28-2a 3-28-2b |
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत। एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ।। | 3-28-3a 3-28-3b |
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्। करिष्यामि हि तत्सर्वं यथावदनुशासनम् ।। | 3-28-4a 3-28-4b |
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः। सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ।। | 3-28-5a 3-28-5b |
प्रह्लाद उवाच। | 3-28-6x |
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा। इति तात विजानीहि द्वयमेतदसंशयम् ।। | 3-28-6a 3-28-6b |
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति। भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः ।। | 3-28-7a 3-28-7b |
सर्वभूतानि चाप्यस् न नमन्ते कदाचन। तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता ।। | 3-28-8a 3-28-8b |
अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम्। आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ।। | 3-28-9a 3-28-9b |
यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च। भोजनान्यथ पानानि सर्वोपकरणानि च ।। | 3-28-10a 3-28-10b |
आददीरन्नधिकृता यथाकाममचेतसः। प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ।। | 3-28-11a 3-28-11b |
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन। अव्रज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ।। | 3-28-12a 3-28-12b |
क्षमिणं तादृशं तांत ब्रुवन्ति कटुकान्यपि। प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ।। | 3-28-13a 3-28-13b |
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः। दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ।। | 3-28-14a 3-28-14b |
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात्। `अकृतोपद्रवः कश्चिन्महानपि न पूज्यते। | 3-28-15a 3-28-15b |
पूजयन्ति नरा नागान्न तार्क्ष्यं नामघातिनम् ।।' एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्। | 3-28-16a 3-28-16b |
अथ वैरोचने दोषानिमान्विद्ध्यक्षमांवताम् ।। अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ।। | 3-28-17a 3-28-17b |
अस्थाने यदि वा स्थाने सततं रजसावृतः। क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ।। | 3-28-18a 3-28-18b |
मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः। आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ।। | 3-28-19a 3-28-19b |
सोऽवमानादर्थहानिमुपालम्भमनादरम्। संतापद्वेषमोहांश्च शत्रूंश्च लभते नरः ।। | 3-28-20a 3-28-20b |
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात्। भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ।। | 3-28-21a 3-28-21b |
योपकर्तॄश्च हर्तॄश्च तेजसैवोपगच्छति। तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ।। | 3-28-22a 3-28-22b |
यस्मादुद्विजतेलोकः कथं तस्य भवो भवेत्। अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ।। | 3-28-23a 3-28-23b |
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्। कालेकाले तु संप्राप्ते मृदुस्तीक्ष्णोपि वा भवेत् ।। | 3-28-24a 3-28-24b |
काले मृदुर्यो भवति काले भवति दारुणः। स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ।। | 3-28-25a 3-28-25b |
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्। ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ।। | 3-28-26a 3-28-26b |
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि। उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ।। | 3-28-27a 3-28-27b |
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्। न हि सर्वत्र पाण्डित्वं सुलभं पुरुषेण वै ।। | 3-28-28a 3-28-28b |
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्। पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून् ।। | 3-28-29a 3-28-29b |
सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत्। द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ।। | 3-28-30a 3-28-30b |
अजानता भवेत्कश्चिदपराधः कृतो यदि। क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ।। | 3-28-31a 3-28-31b |
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्। नासाध्यं मृदुना किंचित्तस्मात्तीव्रतरं मृदु ।। | 3-28-32a 3-28-32b |
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः। अन्वीक्ष्यकारणं चैव कार्यं तेजः क्षमापि वा ।।' | 3-28-33a 3-28-33b |
नादेशकाले किंचित्स्याद्देशकालौ प्रतीक्षताम्। तथा लोकभयाच्चैव क्षन्तव्यमपराधितम् ।। | 3-28-34a 3-28-34b |
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः। अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते ।। | 3-28-35a 3-28-35b |
तदहं तेजसः कालं तव मन्ये नराधिप। धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ।। | 3-28-36a 3-28-36b |
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति। तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ।। | 3-28-37a 3-28-37b |
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः। काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः ।। | 3-28-38a 3-28-38b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि अष्टाविंशोऽध्यायः ।। 28 ।। |
टिप्पणी
[सम्पाद्यताम्]3-28-2 आगतागमं प्राप्तरहस्यम् ।। 3-28-4 श्रेयः प्रशस्ततरम्। अत्र क्षमातेजसोर्मध्ये ।। 3-28-8 अस् एनम् ।। 3-28-11 अधिकृताः अन्नपानादिसंरक्षणे नियुक्ताः। प्रदिष्टानि इदमस्मै देयमित्याज्ञापितानि ।। 3-28-12 एनं क्षमिणम्। भर्तृपूजाभिः स्वाम्युचितमानेन ।। 3-28-18 तेजसा क्रोधेन ।। 3-28-20 उपालम्भं धिक्करम् ।। 3-28-22 उपकर्तॄनिति च्छेदः। रसंधिरार्षः। उपकर्तॄकोशादिवृद्धिकरान्। हर्तॄन् चोरान् ।। 3-28-23 भवः ऐश्वर्यम् अन्तरं छिद्रम् ।। 3-28-28 अबुद्धिं मौढ्यम् ।। 3-28-30 अपकृते अपकारे ।। 3-28-32 मृदुना साम्रा ।। 3-28-37 उत्स्रष्टुं प्रयोक्तुम् ।।
आरण्यकपर्व-027 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-029 |