महाभारतम्-03-आरण्यकपर्व-005
← आरण्यकपर्व-004 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-005 वेदव्यासः |
आरण्यकपर्व-006 → |
विदुरस्य काम्यकवने पाण्डवसमागमः ।। 1 ।। तेन तेषु तत्रस्वागमनकारणनिवेदनम् ।। 2 ।।
वैशम्पायन उवाच।।
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः ।
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ।।१।।
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते ।
ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ।।२।।
ततः सरस्वतीकूले समेषु मरुधन्वसु ।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ।।३।।
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ।।४।।
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः ।
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ।।५।।
ततो यात्वा विदुरः काननं त; च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन ।
ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ।।६।।
ततोऽपश्यद्विदुरं तूर्णमारा; दभ्यायान्तं सत्यसन्धः स राजा ।
अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ।।७।।
कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति ।
कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ।।८।।
समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम् ।
गाण्डीवे वा संशयिते कथं चि; द्राज्यप्राप्तिः संशयिता भवेन्नः ।।९।।
तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव ।
तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ।।१०।।
समाश्वस्तं विदुरं ते नरर्षभा; स्ततोऽपृच्छन्नागमनाय हेतुम् ।
स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ।।११।।
विदुर उवाच।।
अवोचन्मां धृतराष्ट्रोऽनुगुप्त; मजातशत्रो परिगृह्याभिपूज्य ।
एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ।।१२।।
मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव ।
तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ।।१३।।
परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः ।
यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ।।१४।।
न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।
ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ।।१५।।
ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति ।
यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ।।१६।।
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि ।
नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ।।१७।।
सोऽहं त्यक्तो धृतराष्ट्रेण राजं; स्त्वां शासितुमुपयातस्त्वरावान् ।
तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ।।१८।।
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः ।
सं वर्धयन्स्तोकमिवाग्निमात्मवा; न्स वै भुङ्क्ते पृथिवीमेक एव ।।१९।।
यस्याविभक्तं वसु राजन्सहायै; स्तस्य दुःखेऽप्यंशभाजः सहायाः ।
सहायानामेष सङ्ग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ।।२०।।
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः ।
आत्मा चैषामग्रतो नातिवर्ते; देवंवृत्तिर्वर्धते भूमिपालः ।।२१।।
युधिष्ठिर उवाच।।
एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः ।
यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ।।२२।।
वैशंपायन उवाच। | 3-5-1x |
पाण्डवास्तु वने वासमुद्दिश्य भरतर्पभाः। प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ।। | 3-5-1a 3-5-1b |
सरस्वतीदृपद्वत्यौ यमुनां च निषेव्य ते। ययुर्वननैव वनं सततं पश्चिमां दिशम् ।। | 3-5-2a 3-5-2b |
ततः सरस्वतीकूले समेषु मरुधन्वसु। काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ।। | 3-5-3a 3-5-3b |
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे। अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ।। | 3-5-4a 3-5-4b |
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः। जगामैकरथेनैव काम्यकं वनमृद्धिमत् ।। | 3-5-5a 3-5-5b |
ततो गत्वा विदुरः काम्यकं त- च्छीघ्रैरश्वैर्वाहितः स्यन्दनेन। ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ।। | 3-5-6a 3-5-6b 3-5-6c 3-5-6d |
ततोऽपश्यद्विदुरं तूर्णमारा- दभ्यायान्तं सत्यसन्धः स राजा। अथाब्रवीद्धातरं भीमसेनं किंनु क्षत्ता वक्ष्यतिनः समेत्य ।। | 3-5-7a 3-5-7b 3-5-7c 3-5-7d |
कच्चिन्नायं वचनात्सौबलस्य समाह्वातुं देवनायोपयाति। कच्चित्क्षुद्रः कुशली चाऽयुधानि जेष्यत्यस्माकं पुनरेवाक्षवत्याम् ।। | 3-5-8a 3-5-8b 3-5-8c 3-5-8d |
समाहूतः केनचिदाहवाय नाहं शक्तो भीमसेनापयातुम्। गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः ।। | 3-5-9a 3-5-9b 3-5-9c 3-5-9d |
वैशंपायन उवाच। | 3-5-10x |
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव। तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् ।। | 3-5-10a 3-5-10b 3-5-10c 3-5-10d |
समाश्वस्तं विदुरं ते नरर्षभा- स्ततोऽपृच्छन्नागमनाय हेतुम्। स चापि तेभ्यो विस्तरतः शशंस यथावृत्तं धृतराष्ट्रेऽम्बिकेये ।। | 3-5-11a 3-5-11b 3-5-11c 3-5-11d |
विदुर उवाच। | 3-5-12x |
अवोचन्मां धृतराष्ट्रोऽभिगुप्त- मजातशत्रो परिगृह्याभिपूज्य। एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि ।। | 3-5-12a 3-5-12b 3-5-12c 3-5-12d |
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव। तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये ।। | 3-5-13a 3-5-13b 3-5-13c 3-5-13d |
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च शुतवानाम्बिकेयः। यथाऽऽतुरस्येव हि पथ्यमौपधं न रोचनते स्मास्य तदुच्यमानम् ।। | 3-5-14a 3-5-14b 3-5-14c 3-5-14d |
न श्रेयसे यततेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ।। | 3-5-15a 3-5-15b 3-5-15c 3-5-15d |
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति। यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन् ।। | 3-5-16a 3-5-16b 3-5-16c 3-5-16d |
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिञ्श्रद्धा तव तत्र प्रयाहि। नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा ।। | 3-5-17a 3-5-17b 3-5-17c 3-5-17d |
सोहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र। तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः ।। | 3-5-18a 3-5-18b 3-5-18c 3-5-18d |
क्लेशैस्तीर्व्रर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः। संवर्धयन्स्तोकमिवाग्रिमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव ।। | 3-5-19a 3-5-19b 3-5-19c 3-5-19d |
यस्याविभक्तं वसु राजन्सहायै- स्तस्य दुःखस्यांशभाजः सहायाः। सहायानामेष संग्रगणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः ।। | 3-5-20a 3-5-20b 3-5-20c 3-5-20d |
सत्यं श्रेष्टं पाण्डवा निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः। आत्मा चैषामग्रतो नातिवर्ते देवं वृत्तिर्वर्धते भूमिपाल ।। | 3-5-21a 3-5-21b 3-5-21c 3-5-21d |
युधिष्ठिर उवाच। | 3-5-22x |
एवं करिष्यामि यथा ब्रवीपि परां बुद्धिमुपगम्याप्रमत्तः। यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ।। | 3-5-22a 3-5-22b 3-5-22c 3-5-22d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि पञ्चमोऽध्यायः ।। 5 ।। |
3-5-3 मरुधन्वसु मरुषु निर्जलदेशेषु। धन्वसु जाङ्गलदेशेषु ।। 3-5-9 अपयातुं निवर्तितुम्। संशयिते पणीकृतेसति। कथं नः राज्यप्राप्तिर्यतः संशयिता। गाण्डीवनाशादित्यर्थः ।। 3-5-12 अभिगुप्तं अभिरक्षितारम्। हितोपदेशेनेति शेषः। कर्तरिक्तः। ब्रहीहीत्यवोचदिति संबन्धः ।। 3-5-13 अन्यत् साम्नोऽन्यत् वैरम् ।। 3-5-16 परैति परामृशति। पुष्करस् कमलस्य ।। 3-5-17 श्रद्धा इष्टोयमिति धीः ।। 3-5-18 धार्यतां न विस्मर्तव्यम् ।। 3-5-20 उपासते उपास्ते प्रतीक्षते। तृणैः स्तोकं अग्निमिव आत्मानं सहायसंपत्त्या संवर्धयन्। सहायार्जनोपायमाह यस्येति। अविभक्तं साधारणम्। वसु वित्तम् ।।
आरण्यकपर्व-004 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-006 |