महाभारतम्-03-आरण्यकपर्व-034
← आरण्यकपर्व-033 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-034 वेदव्यासः |
आरण्यकपर्व-035 → |
युधिष्ठिरेण भीमंप्रति स्वेन प्रतिज्ञाया दुस्त्यजत्वोक्तिपूर्वकं प्रतिज्ञाकालावसानप्रतिपालनविधानम् ।। 1 ।।
युधिष्ठिर उवाच।।
असंशयं भारत सत्यमेत; द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि ।
न त्वा विगर्हे प्रतिकूलमेत; न्ममानयाद्धि व्यसनं व आगात् ।।१।। 3.34.2
अहं ह्यक्षानन्वपद्यं जिहीर्ष; न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।
तन्मा शठः कितवः प्रत्यदेवी; त्सुयोधनार्थं सुबलस्य पुत्रः ।।२।।
महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान् ।
अमायिनं मायया प्रत्यदेवी; त्ततोऽपश्यं वृजिनं भीमसेन ।।३।।
अक्षान्हि दृष्ट्वा शकुनेर्यथाव; त्कामानुलोमानयुजो युजश्च ।
शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ।।४।।
यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः ।
न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् ।।५।।
स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन् ।
दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ।।६।।
त्वं चापि तद्वेत्थ धनञ्जयश्च; पुनर्द्यूतायागतानां सभां नः ।
यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ।।७।।
वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो ।
अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ।।८।।
त्वां चेच्छ्रुत्वा तात तथा चरन्त; मवभोत्स्यन्ते भारतानां चराः स्म ।
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ।।९।।
चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान् ।
ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ।।१०।।
वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान् ।
वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति ।।११।।
तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे ।
इत्थं च देशाननुसञ्चरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ।।१२।।
सुयोधनश्चापि न शान्तिमिच्छ; न्भूयः स मन्योर्वशमन्वगच्छत् ।
उद्योजयामास कुरूंश्च सर्वा; न्ये चास्य केचिद्वशमन्वगच्छन् ।।१३।।
तं सन्धिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः ।
आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ।।१४।।
तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः ।
बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ।।१५।।
प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः ।
प्राप्तं तु कालं त्वभिपद्य पश्चा; त्किं मामिदानीमतिवेलमात्थ ।।१६।।
भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा ।
यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम ।।१७।।
न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये ।
कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः ।।१८।।
यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा ।
महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ।।१९।।
श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते ।
मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ।।२०।।
मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च ।
राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ।।२१।। 3.34.22
वैशंपायन उवाच। | 3-34-1x |
स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा। अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे ।। | 3-34-1a 3-34-1b 3-34-1c 3-34-1d |
असंशयं भारत सत्यमेत- द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि। न त्वां विगर्हे प्रतिकूलमेत- न्ममानयाद्धि व्यसनं व आगात् ।। | 3-34-2a 3-34-2b 3-34-2c 3-34-2d |
अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात्। तन्मां शठः कितव प्रत्यदेवी- त्सुयोधनार्थं सुबलस्य पुत्रः ।। | 3-34-3a 3-34-3b 3-34-3c 3-34-3d |
महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान्। अमायिनं मायया प्रत्यजैषी- त्ततोऽपश्यं वृजिनं भीमसेन ।। | 3-34-4a 3-34-4b 3-34-4c 3-34-4d |
अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च। शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम् ।। | 3-34-5a 3-34-5b 3-34-5c 3-34-5d |
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः। न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् ।। | 3-34-6a 3-34-6b 3-34-6c 3-34-6d |
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन्। दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः ।। | 3-34-7a 3-34-7b 3-34-7c 3-34-7d |
त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतास्तां सभां नः। यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् ।। | 3-34-8a 3-34-8b 3-34-8c 3-34-8d |
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो। अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मरूपः ।। | 3-34-9a 3-34-9b 3-34-9c 3-34-9d |
त्वां चेच्छ्रुत्वा तात तथा चरन्त- मवभोत्स्यन्ते भारतानां चराश्च। अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं निश्चित्य तत्प्रतिजानीहि पार्थ ।। | 3-34-10a 3-34-10b 3-34-10c 3-34-10d |
चरैश्चेन्नो विदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान्। ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः ।। | 3-34-11a 3-34-11b 3-34-11c 3-34-11d |
वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान्। चरेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति ।। | 3-34-12a 3-34-12b 3-34-12c 3-34-12d |
तत्र द्यूतमभवन्नो जघन्यं यस्मिञ्जिताः प्रव्रजिताश् सर्वे। इत्थं तु देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः ।। | 3-34-13a 3-34-13b 3-34-13c 3-34-13d |
सुयोधनश्चापि न शान्तिमिच्छत् भूयः स मन्योर्वशमन्वगच्छत्। उद्योजयामास कुरूंश्च सर्वान् येचास्य केचिद्वशमन्वगच्छन् ।। | 3-34-14a 3-34-14b 3-34-14c 3-34-14d |
तां सिद्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः। आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत् ।। | 3-34-15a 3-34-15b 3-34-15c 3-34-15d |
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः। बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतंभीम तदाऽभविष्यत् ।। | 3-34-16a 3-34-16b 3-34-16c 3-34-16d |
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः। प्राप्तं तु कालं त्वभिपद्यपश्चात् किं मामिदानीमतिवेलमात्थ ।। | 3-34-17a 3-34-17b 3-34-17c 3-34-17d |
भूयोपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा। यद्याज्ञसेनीं परिक्लिश्यमानां संदृश्य तत्क्षान्तमिति स्म भीम ।। | 3-34-18a 3-34-18b 3-34-18c 3-34-18d |
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये। कालं प्रतीक्षस्व सुखोदयाय पाकं फलानामिव बीजवापः ।। | 3-34-19a 3-34-19b 3-34-19c 3-34-19d |
यदा हि पूर्वं निकृतोनिकृन्ते- द्वैरं सपुष्पं सफलं विदित्वा। महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके ।। | 3-34-20a 3-34-20b 3-34-20c 3-34-20d |
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते। मित्राणि चैनमतिरागाद्भजन्ते देवा इवेनद्रमुपजीवन्ति चैनम् ।। | 3-34-21a 3-34-21b 3-34-21c 3-34-21d |
मम प्रतिज्ञां च निबोध सत्यां वृणे सत्यममृतीज्जीविताच्च। राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ।। | 3-34-22a 3-34-22b 3-34-22c 3-34-22d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुस्त्रिंशोऽष्यायः ।। 34 ।। |
टिप्पणी
[सम्पाद्यताम्]3-34-3 अन्वपद्यमनुसृतवात् ।। 3-34-4 प्रवपन् पातयन्। अक्षपूगान् पाशसमूहान्। वृजिनं दुःखदं व्यसनम् ।। 3-34-5 अयुजो विषमान्। युजः समान्। शक्य इति यः पुरुषस्य धैर्यं हन्यात् स सन्युर्यदि नाभविष्यत्तर्ह्यात्मा मनो नियन्तुं शक्यः अभविष्यदित्यध्याहृत्य योज्यम् ।। 3-34-9 समा वर्षाणि। अथापरं वर्षम्। छद्मगूढ इति. झ. पाठः ।। 3-34-10 अवभोत्स्यन्ते ज्ञास्यन्ति। बुद्ध्येरन्वै भारतानामिति क. पाठः ।। 3-34-11 नो इति निपातः। वितस्तादिपञ्चनद्युपलक्षितो देशः ।। 3-34-12 सर्वे शतमपि भ्रातरः। स राजा दुर्योधनः ।। 3-34-13 नोऽस्माकम्। जघन्यं नीचम्। कृच्छ्ररूपाः क्लिष्टरूपाः। वनानि दुर्गाणि च घोररूपा इति क. ध. पाठः ।। 3-34-14 शान्तिं नेच्छन् अनिच्छन्। उद्योजयामासोत्कर्षेण स्वेच्छया तेषु तेषु द्रगदेशादिपालनकार्येष्विष्टान्योजितवान् ।। 3-34-15 तं संधिमास्थायेति झ. ट. पाठः ।। 3-34-16 पर्यमृक्षः परामृष्टवानसि। दिधक्षन् दग्धुमिच्छन् ।। 3-34-17 आविदानो जानन्। प्राप्तं कालं कालतुल्यां विपदमभिपद्य स्वीकृत्य ।। 3-34-18 भूयोपि बह्वपि। दूये उपतप्ये ।। 3-34-19 बीजवापः कृषीबलः। पक्तिं फलानामिति झ. ध. पाठः ।। 3-34-20 वैरं वैरिसमूहम्। सपुष्पं सफलं विदित्वा पुष्टतरं ज्ञात्वा यदि निकृन्तेत् छिन्द्यात् तदा हि प्रसिद्धं महागुणं महान्तं गुणं हरति आहरति ।। 3-34-22 अमृतात् देवभावात्। कलां षोडशं भागम् ।।
आरण्यकपर्व-033 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-035 |