महाभारतम्-03-आरण्यकपर्व-310
पठन सेटिंग्स
← आरण्यकपर्व-309 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-310 वेदव्यासः |
आरण्यकपर्व-311 → |
स्नानाय भार्यया सह गङ्गां गतेनाधिरथनाम्ना सूतेन तत्रोत्प्लवमानायाः सगर्भमञ्जूषाया ग्रहणम् ।। 1 ।।
तथा मञ्जूषोद्घाटने दृष्टस्य गर्भस्य स्वपुत्रतया परिकल्पनेन नामकरणादिपूर्वकंप्रीत्या पोषणम् ।। 2 ।।
कर्णेन परशुरामादिभ्योऽस्त्रग्रहणपूर्वकं दुर्योधनेन सख्यकरणम् ।। 3 ।।
वैशंपायन उवाच। | 3-310-1x |
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा। सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ।। | 3-310-1a 3-310-1b |
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि। राधा नाम महाभागा न सा पुत्रमविन्दत। अपत्यार्थे परं यत्नमकरोच्च विशेषतः ।। | 3-310-2a 3-310-2b 3-310-2c |
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया। दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम् ।। | 3-310-3a 3-310-3b |
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्। `विवर्तमानां बहुशः पुनःपुनरितस्ततः ।। | 3-310-4a 3-310-4b |
ततः सा वायुना राजन्स्रोतसा च बलीयसा। उपानीतो यतः सूतः सभार्यो जलमाश्रितः' ।। | 3-310-5a 3-310-5b |
सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी। ततो निवेदयामास सूतस्याधिरथस्य वै ।। | 3-310-6a 3-310-6b |
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्। यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम् ।। | 3-310-7a 3-310-7b |
मृष्टकुण्डलयुक्तेन वदनेन विराजितम्। `परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम् ।। | 3-310-8a 3-310-8b |
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम्'। स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः। अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ।। | 3-310-9a 3-310-9b 3-310-9c |
इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि। दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः ।। | 3-310-10a 3-310-10b |
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम। इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ।। | 3-310-11a 3-310-11b |
रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्। पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ।। | 3-310-12a 3-310-12b |
`स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः'। पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्। ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ।। | 3-310-13a 3-310-13b 3-310-13c |
`नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते। कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्' ।। | 3-310-14a 3-310-14b |
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्। नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ।। | 3-310-15a 3-310-15b |
एवं स सूतपुत्रत्वं जगामामितविक्रमः। वसुषेण इतिख्यातो वृष इत्येव च प्रभुः ।। | 3-310-16a 3-310-16b |
सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान्। चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत् ।। | 3-310-17a 3-310-17b |
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्। दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ।। | 3-310-18a 3-310-18b |
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि। सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान् ।। | 3-310-19a 3-310-19b |
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्। लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ।। | 3-310-20a 3-310-20b |
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः। योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ।। | 3-310-21a 3-310-21b |
सदा हि तस् स्पर्धाऽऽसीदर्जुनन विशांपते। अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह ।। | 3-310-22a 3-310-22b |
एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः। यः सूर्यसंभवः कर्णः कुर्यात्प्रतिकुले रतः ।। | 3-310-23a 3-310-23b |
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्। अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ।। | 3-310-24a 3-310-24b |
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्। स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिलोत्थितः ।। | 3-310-25a 3-310-25b |
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना। नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ।। | 3-310-26a 3-310-26b |
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः। स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ।। | 3-310-27a 3-310-27b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि दशाधिकत्रिशततमोऽध्यायः ।। 310 ।। |
3-310-3 दत्तो रक्षार्थं प्रतिसरो दूर्वाकङ्कणादिरूपो यस्यां तामअ। अन्वालम्भनं कुङ्कुमहस्तदानम् ।। 3-310-5 उपह्वरं समीपम् ।। 3-310-7 उत्सार्य परतो नीत्वा ।। 3-310-15 वसुवर्म स्वर्णकवचनम् ।। 3-310-17 अङ्गेषु जनपदविशेषेषु ।। 3-310-19 उपसदनं गुरूपसदनम् ।। 3-310-20 परमेष्वासतां महाधनुर्धरताम् ।।
आरण्यकपर्व-309 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-311 |