महाभारतम्-03-आरण्यकपर्व-004
← आरण्यकपर्व-003 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-004 वेदव्यासः |
आरण्यकपर्व-005 → |
पाण्डवेषु वनं गतेषु सत्सु हितं पृष्टेन विदुरेण धृतराष्ट्रप्रति पाण्डवानां पुना राज्ये स्थापनविधानम् ।। 1 ।। ततो धृतराष्ट्रधिक्कृतेन विदुरेण पाण्डवान्प्रति प्रस्थानम् ।। 2 ।।
वैशम्पायन उवाच।।
वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः ।
धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ।।१।।
प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम् ।
समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ।।२।।
एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन् ।
ते चाप्यस्मान्नोद्धरेयुः समूला; न्न कामये तांश्च विनश्यमानान् ।।३।।
विदुर उवाच।।
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति ।
धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ।।४।।
स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः ।
आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ।।५।।
एतस्य ते दुष्प्रणीतस्य राज; ञ्शेषस्याहं परिपश्याम्युपायम् ।
यथा पुत्रस्तव कौरव्य पापा; न्मुक्तो लोके प्रतितिष्ठेत साधु ।।६।।
तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत् ।
एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ।।७।।
एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः ।
एवं शेषं यदि पुत्रेषु ते स्या; देतद्राजंस्त्वरमाणः कुरुष्व ।।८।।
अथैतदेवं न करोषि राज; न्ध्रुवं कुरूणां भविता विनाशः ।
न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ।।९।।
येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम् ।
येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ।।१०।।
उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम् ।
पुत्रं त्यजेममहितं कुलस्ये; त्येतद्राजन्न च तत्त्वं चकर्थ ।।११।।
इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ।।११।।
यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीयमाणः पाण्डवैरेकराज्यम् ।
तापो न ते वै भविता प्रीतियोगा; त्त्वं चेन्न गृह्णासि सुतं सहायैः ।।१२।।
अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ।।१२।।
अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन् ।
ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ।।१३।।
दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् ।
दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ।।१४।।
युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य ।
त्वया पृष्टः किमहमन्यद्वदेय; मेतत्कृत्वा कृतकृत्योऽसि राजन् ।।१५।।
धृतराष्ट्र उवाच।।
एतद्वाक्यं विदुर यत्ते सभाया; मिह प्रोक्तं पाण्डवान्प्राप्य मां च ।
हितं तेषामहितं मामकाना; मेतत्सर्वं मम नोपैति चेतः ।।१६।।
इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ ।
तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ।।१७।।
असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः ।
स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ।।१८।।
स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि ।
यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ।।१९।।
वैशम्पायन उवाच।।
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य; दन्तर्वेश्म सहसोत्थाय राजन् ।
नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था बभूवुः ।।२०।। 3.4.22
वैशंपायन उवाच। | 3-4-1x |
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः। धर्मात्मानं विदुरमगाधबुद्धिं | 3-4-1a 3-4-1b 3-4-1c |
सुखासीनो वाक्यमुवाच राजा ।। | 3-4-1da |
धृतराष्ट्र उवाच। | 3-4-2x |
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम्। समश्च त्वं संमतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि ।। | 3-4-2a 3-4-2b 3-4-2c 3-4-2d |
एवं गते विदुरयदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन्। ते चाप्यस्मान्नोद्धरेयुः समूला- न्न कामये तांश्च विनश्यमानान् ।। | 3-4-3a 3-4-3b 3-4-3c 3-4-3d |
`सौबलेनैव पापेन दुर्योधनहितैषिणा। क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम् ।। | 3-4-4a 3-4-4b |
तथैवाङ्गीकृते तत्र तद्भवान्वक्तुमर्हति। उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम् ।। | 3-4-5a 3-4-5b |
नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः। यत्र पाण्डुसुताः सर्वे क्लिश्यन्ति वानमागताः' ।। | 3-4-6a 3-4-6b |
विदुर उवाच। | 3-4-7x |
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति। धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ।। | 3-4-7a 3-4-7b 3-4-7c 3-4-7d |
स वै ध्रमो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः। आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते ।। | 3-4-8a 3-4-8b 3-4-8c 3-4-8d |
एतस्य ते दुष्प्रणीतस्य राज- न्द्वेषस्याहं परिपश्याम्युपायम्। यथा पुत्रस्तव कौरव्य पापा- न्मुक्तो लोके प्रतितिष्ठेत साधु ।। | 3-4-9a 3-4-9b 3-4-9c 3-4-9d |
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयाऽऽसीत्। एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृद्ध्येत् ।। | 3-4-10a 3-4-10b 3-4-10c 3-4-10d |
[यशो ने नश्येज्ज्ञातिभेदश्च न स्या- द्धर्मो न स्यान्नैव चैवं कृते त्वाम्।] एतत्कार्ये तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः ।। | 3-4-11a 3-4-11b 3-4-11c 3-4-11d |
एवं शेषं यदि पुत्रेषु ते स्या- देतद्राजंस्त्वरमाणः कुरुष्व। अथैतदेवं न करोषि राजन् ध्रुवं कुरूणां भविता विनाशः ।। | 3-4-12a 3-4-12b 3-4-12c 3-4-12d |
नहि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके। येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम् ।। | 3-4-13a 3-4-13b 3-4-13c 3-4-13d |
येषां भीमो बाहुशाली च योद्धा तेषां लोके किंनु न प्राप्यमस्ति। उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम् ।। | 3-4-14a 3-4-14b 3-4-14c 3-4-14d |
पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ। इदानीं ते हितमुक्तं न चेत्त्व- मेवं कर्ता परितप्ताऽसि पश्चात् ।। | 3-4-15a 3-4-15b 3-4-15c 3-4-15d |
यद्येतदेवमनुमन्ता सुतस्ते संप्रीयमाणः पाण्डवैरेकराज्यम्। तापो न ते भविता प्रीतियोगा- त्त्वं चेन्न गृह्णासि सुतं सहायैः ।। | 3-4-16a 3-4-16b 3-4-16c 3-4-16d |
दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये। `ध्रुवं विनाशस्तव पुत्रेण धीमन् सबन्धुवर्गेण सहैव राजभिः ।। | 3-4-17a 3-4-17b 3-4-17c 3-4-17d |
चतुर्दशे चैव वर्षे नरेन्द्र कुलक्षयं प्राप्स्यसि राजसिंह। तस्मात्कुरुष्वाधिपत्ये नरेन्द्र युधिष्ठिरं धर्मभृतां वरिष्ठम् ।।' | 3-4-18a 3-4-18b 3-4-18c 3-4-18d |
अजातशत्रुर्हि विमुक्तरागो धर्मोणेमां पृथिवीं शास्तु राजन्। ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः ।। | 3-4-19a 3-4-19b 3-4-19c 3-4-19d |
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु। दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च ।। | 3-4-20a 3-4-20b 3-4-20c 3-4-20d |
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य। त्वया पृष्टः किमहमन्यद्वदेय- मेतत्कृत्वा कृतकृत्योसि राजन् ।। | 3-4-21a 3-4-21b 3-4-21c 3-4-21d |
धृतराष्ट्र उवाच। | 3-4-22x |
एतद्वाक्यं विदुर यत्ते सभाया- मिह प्रोक्तं पाण्डवान्प्राप्य मां च। हितं तेषामहितं मामकाना- मेतत्सर्वं मम नावैदि चेतः ।। | 3-4-22a 3-4-22b 3-4-22c 3-4-22d |
इदं त्विदानीं गत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ। तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ।। | 3-4-23a 3-4-23b 3-4-23c 3-4-23d |
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रमूतः। स्वं वै देहं परहेतोस्त्यजेति कोनु ब्रूयात्समतामन्ववेक्षन् ।। | 3-4-24a 3-4-24b 3-4-24c 3-4-24d |
स मां जिह्मं विदुर सर्वं ब्रवीपि मन्युं तेऽहमधिकं धारयामि। यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाऽप्यसती स्त्री जहाति ।। | 3-4-25a 3-4-25b 3-4-25c 3-4-25d |
वैशेपायन उवाच। | 3-4-26x |
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य- दन्तर्वेश्म सहसोत्थाय राजन्। नेदमस्तीत्यथ विदुरो भापमाप्पः संप्राद्रवद्यत्र पार्था बभूवुः ।। | 3-4-26a 3-4-26b 3-4-26c 3-4-26d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि चतुर्थोऽध्यायः ।। 4 ।। |
3-4-2 कौरवाणां पाण्डवधार्तराष्ट्राणां समः पक्षपातशून्यः ।। 3-4-3 उद्धरेयुः उन्मूलयेयः ।। 3-4-8 अक्षवत्यां द्यूतकीडायाम् ।। 3-4-9 उपायं प्रशान्तिप्रकारम्। शेषस्याहं परिपश्यामीति झ. ट. पाठः ।। 3-4-10 अतिसृष्टं दत्तम्। स्वकेन धनेनेति शेषः ।। 3-4-11 एवं कृतेसति त्वांप्रति धर्मो न स्यादिति नैव किंतु स्यादेव ।। 3-4-15 चकर्थ कृतवान्। कर्ता करिष्यसि ।। 3-4-16 एकराज्यं यदि अनुमन्ता तर्हि तापो न भविता। नचेत् यदि नानुमन्ता तर्हि सुतं निगृह्णीष्वेत्यर्थः ।। 3-4-17 नचेन्निगृह्णीष्व सुतं सुखायेति झ. पाठः। तत्र पक्षान्तरमाह दुर्योधनमिति ।। 3-4-22 नावैति नाङ्गीररोति ।। 3-4-25 जिह्मं कुटिलम् ।। 3-4-26 इदं कुलम् ।। {{footer
। previous = महाभारतम्-03-आरण्यकपर्व-003।आरण्यकपर्व-003 । next = महाभारतम्-03-आरण्यकपर्व-005।आरण्यकपर्व-005
}}