महाभारतम्-03-आरण्यकपर्व-200
← आरण्यकपर्व-199 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-200 वेदव्यासः |
आरण्यकपर्व-201 → |
महाभारतस्य पर्वाणि |
---|
मार्कण्डेयेन पाण्डवानप्रति श्येनात्कपोतरक्षणरूपशिबिचरितकथनम् ।। 1 ।।
मार्कण्डेय उवाच। 3-200-1x
देवानां कथा संजाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ।। एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम् ।। 3-200-1a
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण ।। 3-200-2a
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत् ।। 3-200-3a
अथ पुरोहितो राजानमब्रवीत् ।। प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते ।। 3-200-4a
वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः ।। 3-200-5a
अथ कपोतो राजानमब्रवीत् ।। प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये ।। 3-200-6a
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ।। तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ।। एवंयुक्तमपापं मां विद्धि ।। 3-200-7a
गदामि वेदानविचिनोमि छन्दः
सर्वेवेदा अक्षरशो मे अधीताः।
न साधु दानं श्रोत्रियस्य प्रदानं
मा प्रादाः श्येनाय न कपोतोऽस्मि ।। 3-200-8a
अथ श्येनो राजानमब्रवीत् ।। 3-200-9a
पर्यायेण वसतिर्वा भवेषु
सर्गे जातः पूर्वमस्मात्कपोतात्।
त्वमाददानोऽथ कपोतमेनं
मा त्वं राजन्विघ्नकर्ता भवेथाः ।। 3-200-10a
राजोवाच। 3-200-11x
केनेदृशी जातु परा हि दृष्टा
वागुच्यमाना शकनेन संस्कृता।
यां वै कपोतो वदते यां च श्येन
उभौ विदित्वा कथमस्तु साधु ।। 3-200-11a
नास्य वर्षं वर्षति वर्षकाले
नास्य बीजं रोहति काल उप्तम्।
भीतं प्रपन्नं यो हि ददाति शत्रवे
न त्राणं लभेत्राणमिच्छन्स काले ।। 3-200-12a
जाता ह्रस्वा प्रजा प्रमीयते
सदा न वासं पितरोऽस्य कुर्वते।
भीतं प्रपन्नं यो हि ददाति शत्रवे
नास्य देवाः प्रतिगृह्णन्ति हव्यम् ।। 3-200-13a
मोघमन्नं विन्दति चाप्रचेताः
स्वर्गाल्लोकाद्धश्यति शीघ्रमेव।
भीतं प्रपन्नं यो हि ददाति शत्रवे
सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ।। 3-200-14a
उक्षाणं पक्त्वा सह ओदनेन
अस्मात्कपोतात्प्रति ते नयन्तु।
यस्मिन्देशे रमसेऽतीव श्येन
तत्रमांसं शिवयस्ते वहन्तु ।। 3-200-15a
श्येन उवाच। 3-200-16x
नोक्षाणो राजन्प्रार्थयेयं न चान्य
दस्मान्मांसमधिकं वा कपोतात्।
देवैर्दत्तः सोऽद्य ममैष भक्ष-
स्तन्मे ददस्व शकुनानामभावात् ।। 3-200-16a
राजोवाच। 3-200-17x
उक्षाणं वेहतमनूनं नयन्तु
ते पश्यन्तु पुरुषा ममैव।
भयाहितस् दायं ममान्तिकात्त्वां
प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः ।। 3-200-17a
त्यजे प्राणाननैव दद्यां कपोतं
सौम्यो ह्ययं किं न जानासि श्येन।
यथा क्लेशं मा कुरुष्वेह सौम्य
नाहं कपोतमर्पयिष्ये कथंचित् ।। 3-200-18a
यथा मां वै साधुवादैः प्रसन्नाः
प्रशंसेयुः शिबयः कर्मणा तु।
यथा श्येन प्रियमेव कुर्यां
प्रशाधि मां यद्वदेस्तत्करोमि ।। 3-200-19a
श्येन उवाच। 3-200-20x
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ।। तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति ।। 3-200-20a
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ।। गुरुतर एव कपोत आसीत् ।। 3-200-21a
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ।। एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत् ।। 3-200-22a
अथ राजा स्वयमेव तुलामारुरोह ।। न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत् ।। 3-200-23a
कपोतं विद्युः शिवयस्त्वां कपोत
पृच्छामि ते शकुने को नु श्येनः।
नानीश्वर ईदृशं जातु कुर्यादेतं प्रश्नं भगवन्मे विचक्ष्व ।। 3-200-24a
कपोत उवाच। 3-200-25x
वैश्वानरोऽहं ज्वलनो धूमकेतु-
रथैव श्येनो वज्रहस्तः शचीपतिः।
साधु ज्ञातुं त्वामृषभं सौरथेय
नौ जिज्ञासया त्वत्सकाशंप्रपन्नौ ।। 3-200-25a
यामेतां पेशीं मम निष्क्रयाय
प्रादाद्भवानसिनोत्कृत्य राजन्।
एतद्वो लक्ष्म शिवं करोमि
हिरण्यवर्णं रुचिरं पुण्यगन्धम् ।। 3-200-26a
एतासां प्रजानां पालयिता यशस्वी
सुरर्षीणामथ संमतो भृशम्।
एतस्मात्पार्श्वात्पुरुषो जनिष्यति
कपोतरोमेति च तस्य नाम ।। 3-200-27a
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम् ।। 3-200-28a
।। इति श्रीमन्महाभारते अरण्यपर्वणि
मार्कण्डेयसमास्यापर्वणि
द्विशततमोऽध्यायः ।। 200 ।।
मार्कण्डेय उवाच। | 3-200-1x |
देवानां कथा संजाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ।। एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम् ।। | 3-200-1a |
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण ।। | 3-200-2a |
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत् ।। | 3-200-3a |
अथ पुरोहितो राजानमब्रवीत् ।। प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते ।। | 3-200-4a |
वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः ।। | 3-200-5a |
अथ कपोतो राजानमब्रवीत् ।। प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये ।। | 3-200-6a |
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ।। तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ।। एवंयुक्तमपापं मां विद्धि ।। | 3-200-7a |
गदामि वेदानविचिनोमि छन्दः सर्वेवेदा अक्षरशो मे अधीताः। न साधु दानं श्रोत्रियस्य प्रदानं मा प्रादाः श्येनाय न कपोतोऽस्मि ।। | 3-200-8a 3-200-8b 3-200-8c 3-200-8d |
अथ श्येनो राजानमब्रवीत् ।। | 3-200-9a |
पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात्कपोतात्। त्वमाददानोऽथ कपोतमेनं मा त्वं राजन्विघ्नकर्ता भवेथाः ।। | 3-200-10a 3-200-10b 3-200-10c 3-200-10d |
राजोवाच। | 3-200-11x |
केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकनेन संस्कृता। यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु ।। | 3-200-11a 3-200-11b 3-200-11c 3-200-11d |
नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम्। भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत्राणमिच्छन्स काले ।। | 3-200-12a 3-200-12b 3-200-12c 3-200-12d |
जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम् ।। | 3-200-13a 3-200-13b 3-200-13c 3-200-13d |
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्धश्यति शीघ्रमेव। भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ।। | 3-200-14a 3-200-14b 3-200-14c 3-200-14d |
उक्षाणं पक्त्वा सह ओदनेन अस्मात्कपोतात्प्रति ते नयन्तु। यस्मिन्देशे रमसेऽतीव श्येन तत्रमांसं शिवयस्ते वहन्तु ।। | 3-200-15a 3-200-15b 3-200-15c 3-200-15d |
श्येन उवाच। | 3-200-16x |
नोक्षाणो राजन्प्रार्थयेयं न चान्य दस्मान्मांसमधिकं वा कपोतात्। देवैर्दत्तः सोऽद्य ममैष भक्ष- स्तन्मे ददस्व शकुनानामभावात् ।। | 3-200-16a 3-200-16b 3-200-16c 3-200-16d |
राजोवाच। | 3-200-17x |
उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव। भयाहितस् दायं ममान्तिकात्त्वां प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः ।। | 3-200-17a 3-200-17b 3-200-17c 3-200-17d |
त्यजे प्राणाननैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन। यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथंचित् ।। | 3-200-18a 3-200-18b 3-200-18c 3-200-18d |
यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु। यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद्वदेस्तत्करोमि ।। | 3-200-19a 3-200-19b 3-200-19c 3-200-19d |
श्येन उवाच। | 3-200-20x |
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ।। तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति ।। | 3-200-20a |
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ।। गुरुतर एव कपोत आसीत् ।। | 3-200-21a |
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ।। एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत् ।। | 3-200-22a |
अथ राजा स्वयमेव तुलामारुरोह ।। न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत् ।। | 3-200-23a |
कपोतं विद्युः शिवयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः। नानीश्वर ईदृशं जातु कुर्या- देतं प्रश्नं भगवन्मे विचक्ष्व ।। | 3-200-24a 3-200-24b 3-200-24c 3-200-24d |
कपोत उवाच। | 3-200-25x |
वैश्वानरोऽहं ज्वलनो धूमकेतु- रथैव श्येनो वज्रहस्तः शचीपतिः। साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशंप्रपन्नौ ।। | 3-200-25a 3-200-25b 3-200-25c 3-200-25d |
यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन्। एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम् ।। | 3-200-26a 3-200-26b 3-200-26c 3-200-26d |
एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ संमतो भृशम्। एतस्मात्पार्श्वात्पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम ।। | 3-200-27a 3-200-27b 3-200-27c 3-200-27d |
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम् ।। | 3-200-28a |
।। इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्विशततमोऽध्यायः ।। 200 ।। |
3-200-5 घोरं निन्दितं अनिष्टसूचकमित्यर्थः। अन्तवान् दिगन्तानामीश्वरः ।। 3-200-6 अङ्गैरिति। मुनिरहं स्वशरीरेण कपोतशरीरं प्रविष्टोऽस्मीत्यर्थः। प्राणान्प्राणरक्षकत्वेन त्वमेव मम प्राणा इत्यर्थः ।। 3-200-8 श्रोत्रियस्य मे श्येनाय त्वत्कर्तृकं प्रदानं न साधुदानम् ।। 3-200-10 भवेषु जन्मसु पर्यायेण वसतिः स्थितिर्भवति अतस्त्वं सर्गे सृष्टौ अस्मात्कपोतात् जातोसि। अतस्त्वं तव जन्मान्तरीयं पितरं कपोतं आददानो रक्षन् मम आहारे विघ्नं माकुर्वित्यर्थः ।। 3-200-11 एतयोः स्वरूपं ज्ञात्वा साधुकर्म कथं कुर्यामिति विमृशतीत्यर्थः ।। 3-200-13 ह्रस्वा शैशवे एव प्रजा प्रमीयते म्रियते ।। 3-200-14 मोघं निष्फलं सोऽन्नं विन्दंति लभते। अप्रचेताः अनुदारः ।। 3-200-15 अस्मात्कपोतात्। एनं कपोतं मोचयित्वा ते तुभ्यं प्रतिनयन्तु प्रतिनिधित्वेन समर्पयन्तु ।। 3-200-16 शकुनानां एकस्मिन्नेव बहुत्वम्। अभावात् नाशेन ।। 3-200-17 उक्षाणं बलीवर्दनम्। वेहतं वन्ध्यां गां वा अनूनं सर्वाङ्गसंपूर्णं यथा स्यात्तथा। भयाहितस्य भीप्रस्तस्य कपोतस्य। दायं प्रतिधनं प्रत्याम्नायं नयन्तु प्रापयन्तु। पश्यन्तु आलोचयन्तु च सन्तः। एनं कपोतं मा हिंसीरिति ।। 3-200-18 सौम्यो ह्ययं सोमसंयुक्तक्रतुवन्नित्यं परिपाल्यो ह्ययम्। हे सौम्य सोमवत्प्रियदर्शन ।। 3-200-22 अधिकृत्य छित्त्वा ।। 3-200-23 अपर्याप्तौ स्वयमेव तुलामाविवेश। व्यलीकं अप्रियम्। त्रातस्त्वया कपोत इत्युक्त्वा ।। 3-200-25 हे सौरथेय सुरथायाः पुत्र। नौ आवाम्। विद्धीति शेषः ।। 3-200-26 असिना स्वङ्गेन। एतन्मांसम्। वः गृपाणां लक्ष्म चिह्निं करोमि ।। 3-200-28 शिबिना शिथिलशरीरेण जातं औद्भिदं उद्भेदेन जातम्। यशसा दीप्यमानम् ।।
आरण्यकपर्व-199 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-201 |