महाभारतम्-03-आरण्यकपर्व-186
दिखावट
← आरण्यकपर्व-185 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-186 वेदव्यासः |
आरण्यकपर्व-187 → |
महाभारतस्य पर्वाणि |
---|
मार्कण्डेयेन युधिष्ठिरादीन्प्रति प्राणिनां सुकृतदुष्कृतफलभोगादिप्रकारनिरूपणम् ।। 1 ।।
वैशंपायन उवाच। | 3-186-1x |
तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम्। कथासंजननार्थाय चोदयामास पाण्डवः ।। | 3-186-1a 3-186-1b |
भवान्दैवतदैत्यानामृषीणां च महात्मनाम्। राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः ।। | 3-186-2a 3-186-2b |
सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम्। अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ।। | 3-186-3a 3-186-3b |
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्। धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः ।। | 3-186-4a 3-186-4b |
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा। स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः ।। | 3-186-5a 3-186-5b |
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर। इह वा कृतमन्वेति परदेहेऽथवा पुनः ।। | 3-186-6a 3-186-6b |
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः। कथं संयुज्यतेप्रेत्य इह वा द्विजसत्तम ।। | 3-186-7a 3-186-7b |
ऐहलौकिकमेवैतदुताहो पारलौकिकम्। क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ।। | 3-186-8a 3-186-8b |
मार्कण्डेय उवाच। | 3-186-9x |
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर। विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि ।। | 3-186-9a 3-186-9b |
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु। यथेहामुत्र च नर सुखदुःखमुपाश्नुते ।। | 3-186-10a 3-186-10b |
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्। ससर्ज धऱ्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ।। | 3-186-11a 3-186-11b |
अमोघफलसंकल्पाः सुव्रताः सत्यवादिनः। ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम ।। | 3-186-12a 3-186-12b |
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्। ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ।। | 3-186-13a 3-186-13b |
स्वच्चन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः। अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः ।। | 3-186-14a 3-186-14b |
द्रष्टारोदेवसङ्घानामृषीणां च महात्मनाम्। प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ।। | 3-186-15a 3-186-15b |
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः। ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः ।। | 3-186-16a 3-186-16b |
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः। लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ।। | 3-186-17a 3-186-17b |
अशुभैः कर्मभिः पापास्तिर्यङ्गिरयगामिनः। संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ।। | 3-186-18a 3-186-18b |
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः। `काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः' ।। | 3-186-19a 3-186-19b |
सर्वाभिशङ्खिनश्चैव संवृत्ताः क्लेदायिनः। अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ।। | 3-186-20a 3-186-20b |
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः। भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः। नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः ।। | 3-186-21a 3-186-21b 3-186-21c |
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः। प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ।। | 3-186-22a 3-186-22b |
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्। इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ।। | 3-186-23a 3-186-23b |
अयमादिशरीरेण देवसृष्टेन मानवः। शुभानामशुभानां च कुरुते संचयं महत् ।। | 3-186-24a 3-186-24b |
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम्। संभवत्येव युगपद्योनौ नास्त्यन्तराऽभवः ।। | 3-186-25a 3-186-25b |
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा। फलत्यथ सुखार्हो वा दुःखार्होवाऽथ जायते ।। | 3-186-26a 3-186-26b |
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः। अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ।। | 3-186-27a 3-186-27b |
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर। अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ।। | 3-186-28a 3-186-28b |
मनुष्यास्तप्ततपसः सर्वागमपरायणाः। स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ।। | 3-186-29a 3-186-29b |
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः। शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः ।। | 3-186-30a 3-186-30b |
जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः। अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः ।। | 3-186-31a 3-186-31b |
च्यवन्तं जायमानं च गर्भस्यं चैव सर्वशः। स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ।। | 3-186-32a 3-186-32b |
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः। कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्। `कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ' ।। | 3-186-33a 3-186-33b 3-186-33c |
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः। प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा ।। | 3-186-34a 3-186-34b |
इमामत्रोपमां चापि निबोध वदतांवर। मनुष्यलोके यच्छ्रेयः परंमन्ये युधिष्ठिर ।। | 3-186-35a 3-186-35b |
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह। इह चामुत्र चैकस् नामुत्रैकस्य नो इह ।। | 3-186-36a 3-186-36b |
धनानि येषां विपुलानि सन्ति नित्यंरमन्ते सुविभूषिताङ्गाः। तेषामयं शत्रुवरघ्नलोको नासौ सदा ग्राम्यसुखे रतानाम् ।। | 3-186-37a 3-186-37b 3-186-37c 3-186-37d |
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान्। जितेन्द्रिया भूतहिते निविष्टा स्तेषामसौ नायमरिघ्नलोकः ।। | 3-186-38a 3-186-38b 3-186-38c 3-186-38d |
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले। दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः ।। | 3-186-39a 3-186-39b 3-186-39c 3-186-39d |
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते। न चापिगच्छन्ति शुभान्यभाग्या- स्तेषामयं चैव परश्च नास्ति ।। | 3-186-40a 3-186-40b 3-186-40c 3-186-40d |
सर्वे भवन्तस्त्वतिवीर्यसत्वा दिव्यौजसः संहननोपपन्नाः। लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः ।। | 3-186-41a 3-186-41b 3-186-41c 3-186-41d |
कृत्वैव कर्माणइ महान्ति शूरा- स्तपोदमाचारविहारशीलाः। देवानृषीन्प्रेतगतांसच् सर्वा- न्संतर्पयित्वा विधिना परेण ।। | 3-186-42a 3-186-42b 3-186-42c 3-186-42d |
स्वर्गं परं पुण्यकृतां निवासं क्रमेण संप्राप्स्यथ कर्मभिः स्वैः। माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्थम् ।। | 3-186-43a 3-186-43b 3-186-43c 3-186-43d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षडशीत्यधिकशततमोऽध्यायः ।। 186 ।। |
3-186-4 ऋष्यतः समृद्धियुतान् ।। 3-186-9 स्थित्यर्थं लोकरक्षार्थम्। वेदितव्यं ते स्मृत्यर्थमनुपच्छसीति ध. पाठः ।। 3-186-17 माया कूटकार्षापणादिः व्याजं दम्भः तदेवोपजीवन्ति नतु धर्मम्। ते मायाव्याजोपजीविनः ।। 3-186-21 नाथन्तः प्रार्थयमानाः। कामानां कामान् ।। 3-186-23 अनुनयं सिद्धान्तम् ।। 3-186-24 शरीरेण मानवो विधिसंयुतः इति क. पाठः ।। 3-186-38 जितेन्द्रियाः प्राणिवधे निवृत्ताः इति झ. पाठः ।। 3-186-40 प्रजने पुत्रोत्पादने ।।
आरण्यकपर्व-185 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-187 |