महाभारतम्-03-आरण्यकपर्व-030
← आरण्यकपर्व-029 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-030 वेदव्यासः |
आरण्यकपर्व-031 → |
भर्तृव्यसनदर्शनदूनया द्रौपद्या युधिष्ठिरंप्रति धर्मादितोऽपि विधेरेव प्राबल्योपपादनम् ।। 1 ।।
द्रौपद्युवाच।।
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव ।
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः ।।१।।
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च ।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ।।२।।
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् ।
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ।।३।।
न हि तेऽध्यगमज्जातु तदानीं नाद्य भारत ।
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादिह ।।४।।
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते ।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ।।५।।
भीमसेनार्जुनौ चैव माद्रेयौ च मया सह ।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ।।६।।
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः ।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ।।७।।
अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते ।
बुद्धिः सततमन्वेति छायेव पुरुषं निजा ।।८।।
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः ।
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ।।९।।
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् ।
दैवतानि पितॄंश्चैव सततं पार्थ सेवसे ।।१०।।
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः ।
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ।।११।।
आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि ।
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते ।।१२।।
यदिदं वैश्वदेवान्ते सायम्प्रातः प्रदीयते ।
तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि ।।१३।।
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये ।
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा ।।१४।।
अस्मिन्नपि महारण्ये विजने दस्युसेविते ।
राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति ।।१५।।
अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः ।
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ।।१६।।
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये ।
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः ।।१७।।
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः ।
कथमक्षव्यसनजा बुद्धिरापतिता तव ।।१८।।
अतीव मोहमायाति मनश्च परिदूयते ।
निशाम्य ते दुःखमिदमिमां चापदमीदृशीम् ।।१९।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ।।२०।।
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये ।
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ।।२१।।
यथा दारुमयी योषा नरवीर समाहिता ।
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ।।२२।।
आकाश इव भूतानि व्याप्य सर्वाणि भारत ।
ईश्वरो विदधातीह कल्याणं यच्च पापकम् ।।२३।।
शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः ।
ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः ।।२४।।
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः ।
धातुरादेशमन्वेति तन्मयो हि तदर्पणः ।।२५।।
नात्माधीनो मनुष्योऽयं कालं भवति कञ्चन ।
स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः ।।२६।।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ।।२७।।
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः ।
धातुरेवं वशं यान्ति सर्वभूतानि भारत ।।२८।।
आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः ।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ।।२९।।
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम् ।
येन कारयते कर्म शुभाशुभफलं विभुः ।।३०।।
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः ।
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया ।।३१।।
अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ।।३२।।
अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च ।
अन्यथैव प्रभुस्तानि करोति विकरोति च ।।३३।।
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः ।
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ।।३४।।
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः ।
हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ।।३५।।
सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः ।
क्रीडते भगवन्भूतैर्बालः क्रीडनकैरिव ।।३६।।
न मातृपितृवद्राजन्धाता भूतेषु वर्तते ।
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः ।।३७।।
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् ।
अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया ।।३८।।
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने ।
धातारं गर्हये पार्थ विषमं योऽनुपश्यति ।।३९।।
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि ।
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ।।४०।।
कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति ।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ।।४१।।
अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति ।
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ।।४२।। 3.30.43
द्रौपद्युवाच। | 3-30-1x |
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव। पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः ।। | 3-30-1a 3-30-1b |
[कर्मभिश्चिन्तितो लोको गत्यांगत्यां पृथग्विधः। तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति ।] | 3-30-2a 3-30-2b |
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च। पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ।। | 3-30-3a 3-30-3b |
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्। स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ।। | 3-30-4a 3-30-4b |
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत। धर्मात्प्रियतरं किंचिदपि चेज्जीवितादपि ।। | 3-30-5a 3-30-5b |
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते। ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ।। | 3-30-6a 3-30-6b |
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह। त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ।। | 3-30-7a 3-30-7b |
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः। इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ।। | 3-30-8a 3-30-8b |
त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते। बुद्धिः सततमन्वेति छायेवं पुरुषं निजा ।। | 3-30-9a 3-30-9b |
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः। अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ।। | 3-30-10a 3-30-10b |
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्। देवताश्च पितॄंश्चैव सततं पार्थ सेवसे ।। | 3-30-11a 3-30-11b |
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः। यतयो मोक्षिणश्चैव गृहस्ताश्चैव भारत ।। | 3-30-12a 3-30-12b |
भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका। आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि। नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ।। | 3-30-13a 3-30-13b 3-30-13c |
यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते। तद्दत्त्वाऽतिथिभृत्येभ्योराजञ्शिष्टेनजीवसि ।। | 3-30-14a 3-30-14b |
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये। वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ ।। | 3-30-15a 3-30-15b |
अस्मिन्नपि महारण्ये विजने दस्युसेविते। राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति ।। | 3-30-16a 3-30-16b |
अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः। इष्टास्त्वया महायज्ञाबहवोऽन्ये सदक्षिणाः ।। | 3-30-17a 3-30-17b |
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये। पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः ।। | 3-30-18a 3-30-18b |
ऋजोर्मृदोर्बदान्यस्य धीमतः सत्यवादिनः। कथमक्षव्यसनजा बुद्धिरापतिता तव ।। | 3-30-19a 3-30-19b |
अतीव मोह आयाति मनश् परिदूयते। निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम् ।। | 3-30-20a 3-30-20b |
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ।। | 3-30-21a 3-30-21b |
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ।। | 3-30-22a 3-30-22b |
यथा दारुमयीं योषां नरो धीरः समाहितः। इङ्ग्यत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ।। | 3-30-23a 3-30-23b |
आकाश इव भूतानि व्याप्य सर्वाणि भारत। ईश्वरो विदधातीह कल्याणं यच्च पापकम् ।। | 3-30-24a 3-30-24b |
शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः। ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः ।। | 3-30-25a 3-30-25b |
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः। धातुरादेशमन्वेति तन्मयो हि तदर्पणः ।। | 3-30-26a 3-30-26b |
नात्माथीनो मनुष्योऽयं कालं भजतिं कंचन। स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः ।। | 3-30-27a 3-30-27b |
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ।। | 3-30-28a 3-30-28b |
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः। धातुरेवं वशं यान्ति सर्वभूतानि भारत ।। | 3-30-29a 3-30-29b |
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वः। व्याप्य भूतानि चरते न चायमिति लक्ष्यते ।। | 3-30-30a 3-30-30b |
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्। येन कारयते कर्म शुभाशुभफलं विभुः ।। | 3-30-31a 3-30-31b |
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः। यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया ।। | 3-30-32a 3-30-32b |
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ।। | 3-30-33a 3-30-33b |
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च। अन्यथैव प्रभुस्तानि करोति विकरोति च ।। | 3-30-34a 3-30-34b |
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः। अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ।। | 3-30-35a 3-30-35b |
एवं स भगवान्देवः स्वयंभूः प्रपितामहः। निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ।। | 3-30-36a 3-30-36b |
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः। क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ।। | 3-30-37a 3-30-37b |
न मातृपितृवद्राजन्धाता भूतेषु वर्तते। रोषादिव प्रवृत्तो।़यं यथाऽयमितरो जनः ।। | 3-30-38a 3-30-38b |
आर्याञ्शीलवो दृष्ट्वा हीमतो वृत्तिकर्शितान्। अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये ।। | 3-30-39a 3-30-39b |
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने। धातारं गर्हये पार्थ विषमं योऽनुपश्यति ।। | 3-30-40a 3-30-40b |
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि। धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ।। | 3-30-41a 3-30-41b |
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति। कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ।। | 3-30-42a 3-30-42b |
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति। कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ।। | 3-30-43a 3-30-43b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रिंशोऽध्यायः ।। 30 ।। |
टिप्पणी
[सम्पाद्यताम्]3-30-1 धात्रे ईश्वराय। विधात्रे पूर्वकर्मणे ।। 3-30-2 चिन्तितः कल्पितो लोको भोगसाधनम्। गत्यांगत्यां ऊर्ध्वाधोमध्यमोत्तमाधमयोनिषु। नित्यानि अपरिहार्यफलानि। लोभात् मोहात् मोक्षं कर्मफलेभ्यो दुःखेभ्यो मुक्तिं यियासति प्राप्तुमिच्छति ।। 3-30-5 धर्मात्प्रियतरं नहि त अष्यगमन् ज्ञातवन्तः किंतु जीवितादपि प्रियतरं धर्ममेवाध्यगमन् ।। 3-30-10 शृङ्गं प्रभुत्वाभिमानः ।। 3-30-12 ते त्वया ।। 3-30-15 पाकयज्ञा गृह्याग्निसाध्या इष्टयः ।। 3-30-18 परीतया विपरीतया ।। 3-30-19 ऋजोरवक्रस्य। मृदोर्दयालोः ।। 3-30-22 धाता ईश्वरः। तथैव खलु इति क. पाठः। शुक्रं प्राक्कर्मवीजम्। उच्चरन्नुत्कर्षेणानुसरन् ।। 3-30-24 अन्तर्बहिर्व्याप्तौ आकाशदृष्टान्तः। बूतानि जरायुजादीनि ।। 3-30-25 बद्धो वा बद्धइव ।। 3-30-26 नसि नासिकायाम्। नस्यं नासासूत्रं तेन वा ओतः प्रोतः ।। 3-30-37 संप्रयोज्यसंयोगं कृत्वा कामकार इच्छा तयैव करोतीति कामकारकरः। क्रीडनकैः सारीप्रभृतिभिः ।। 3-30-42 कृतं कर्म यदि कर्तारमेव गच्छति नत्वन्यं तर्हि कारयितृतच्वादीश्वरोपि पापेन लिप्येतैवेत्यर्थः ।।
आरण्यकपर्व-029 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-031 |