महाभारतम्-03-आरण्यकपर्व-072
← आरण्यकपर्व-071 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-072 वेदव्यासः |
आरण्यकपर्व-073 → |
दमयन्तीप्रेषितया केशिन्या बाहुकेन संभाष्य दमयन्त्यै संभाषणकालिकबाहुकविकारादिनिवेदनम् ।। 1 ।।
दमयन्त्युवाच।।
गच्छ केशिनि जानीहि क एष रथवाहकः ।
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ।।१।।
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता ।
पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ।।२।।
अत्र मे महती शङ्का भवेदेष नलो नृपः ।
तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ।।३।।
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा ।
प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ।।४।।
बृहदश्व उवाच।।
एवं समाहिता गत्वा दूती बाहुकमब्रवीत् ।
दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ।।५।।
केशिन्युवाच।।
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् ।
दमयन्त्या वचः साधु निबोध पुरुषर्षभ ।।६।।
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः ।
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ।।७।।
बाहुक उवाच।।
श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना ।
द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ।।८।।
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः ।
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ।।९।।
केशिन्युवाच।।
अथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनः ।
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ।।१०।।
बाहुक उवाच।।
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः ।
स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ।।११।।
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः ।
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ।।१२।।
केशिन्युवाच।।
अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः ।
कथञ्चित्त्वयि वैतेन कथितं स्यात्तु बाहुक ।।१३।।
बाहुक उवाच।।
इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः ।
गतस्ततो यथाकामं नैष जानाति नैषधम् ।।१४।।
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि ।
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ।।१५।।
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा ।
न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ।।१६।।
केशिन्युवाच।।
योऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा ।
इमानि नारीवाक्यानि कथयानः पुनः पुनः ।।१७।।
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ।।१८।।
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी ।
दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ।।१९।।
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव ।
प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ।।२०।।
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते ।
तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ।।२१।।
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल ।
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ।।२२।।
बृहदश्व उवाच।।
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन ।
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ।।२३।।
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः ।
बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ।।२४।।
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः ।
आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ।।२५।।
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ।
प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ।।२६।।
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः ।
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ।।२७।।
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् ।
भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ।।२८।।
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः ।
न बाष्पमशकत्सोढुं प्ररुरोद च भारत ।।२९।।
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् ।
तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ।।३०।। 3.74.31
दमयन्त्युवाच। | 3-72-1x |
गच्छ केशिनि जानीहि क एष रथवाहकः। उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ।। | 3-72-1a 3-72-1b |
अभ्येत्य कुशलं भद्रे मृदुपूर्वंसमाहिता। पृच्छेथाः पुरुषे ह्येनं यथातत्त्वमनिन्दिते ।। | 3-72-2a 3-72-2b |
अत्र मे महती शङ्का भवेदेष नलो नृपः। यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः ।। | 3-72-3a 3-72-3b |
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा। प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते ।। | 3-72-4a 3-72-4b |
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्। दमयन्त्यपि कल्याणी प्रासादस्थाऽनव्वैक्षत ।। | 3-72-5a 3-72-5b |
केशिन्युवाच। | 3-72-6x |
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्। दमयन्त्या वचः साधु निबोध पुरुषर्षभ ।। | 3-72-6a 3-72-6b |
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः। तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ।। | 3-72-7a 3-72-7b |
बाहुक उवाच। | 3-72-8x |
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना। द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात् ।। | 3-72-8a 3-72-8b |
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः। हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ।। | 3-72-9a 3-72-9b |
केशिन्युवाच। | 3-72-10x |
अथ योसौ तृतीयो वः स कुतः कस्य वा पुनः। त्वं च कस्य कथं चेदंत्वयि कर्म समाहितम् ।। | 3-72-10a 3-72-10b |
बाहुक उवाच। | 3-72-11x |
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रतः। स नले विद्रुते भद्रेभागस्वरिमुपस्थितः ।। | 3-72-11a 3-72-11b |
अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः। ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ।। | 3-72-12a 3-72-12b |
केशिन्युवाच। | 3-72-13x |
अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः। कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक ।। | 3-72-13a 3-72-13b |
बाहुक उवाच। | 3-72-14x |
इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ। गतस्ततो यथाकामं नैष जानाति नैषधम् ।। | 3-72-14a 3-72-14b |
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ।। | 3-72-15a 3-72-15b |
आत्मैव तु नलं वेद या चास्य तदनन्तरा। न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित् ।। | 3-72-16a 3-72-16b |
केशिन्युवाच। | 3-72-17x |
योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनःपुनः ।। | 3-72-17a 3-72-17b |
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ।। | 3-72-18a 3-72-18b |
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी। दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता ।। | 3-72-19a 3-72-19b |
तस्या रुदनत्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च ।। | 3-72-20a 3-72-20b |
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता ।। | 3-72-21a 3-72-21b |
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ।। | 3-72-22a 3-72-22b |
बृहदश्व उवाच। | 3-72-23x |
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ।। | 3-72-23a 3-72-23b |
स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः। बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ।। | 3-72-24a 3-72-24b |
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ।। | 3-72-25a 3-72-25b |
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन। प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ।। | 3-72-26a 3-72-26b |
विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत्सा तेन परित्यक्ता तत्रन क्रोद्धुमर्हति ।। | 3-72-27a 3-72-27b |
प्राणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ।। | 3-72-28a 3-72-28b |
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथाविधम्। राज्यभ्रष्टं श्रिया हीनं क्षिधितं व्यसनाप्लुतम् ।। | 3-72-29a 3-72-29b |
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः। न बाष्पमशकत्सोढुं प्ररुरोद च भारत ।। | 3-72-30a 3-72-30b |
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। तत्सर्वं कथितं चैव विकारं तस्य चैव तम् ।। | 3-72-31a 3-72-31b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विसप्ततितमोऽध्यायः ।। 72 ।। |
आरण्यकपर्व-071 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-073 |