महाभारतम्-03-आरण्यकपर्व-284
← आरण्यकपर्व-283 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-284 वेदव्यासः |
आरण्यकपर्व-285 → |
महाभारतस्य पर्वाणि |
---|
वानरसनापतिभिः स्वस्वसैन्यैः सहरामसुग्रीवोपासनम् ।। 1 ।। वानरसेनाभिः सह सागरतीरमुपागतेन रामेण सेनानां सागरतरणाय समुद्राराधनार्थं नियमेन दर्भसंस्तरे शयनम् ।। 2 ।। सागरेण रामंप्रति स्वप्ने स्वात्मप्रदर्शनपूर्वकं नलेन सेतुनिर्मापणचोदना ।। 3 ।।
रामेण शरणार्थिनो विभीषणस्य लङ्काराज्येऽभिषेचनपूर्वकं सेतुमार्गेण सैन्यैः सह लङ्कागमनम् ।। 4
मार्कण्डेय उवाच। | 3-284-1x |
ततस्तत्रैवरामस्य समासीनस्य तैः सह। समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा ।। | 3-284-1a 3-284-1b |
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्। श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात् ।। | 3-284-2a 3-284-2b |
कोटीशतवृतोवाऽपिगजो गवय एव च। वानरेन्रौ महावीर्यौ पृथक्पृथगदृश्यताम् ।। | 3-284-3a 3-284-3b |
षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत। गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः ।। | 3-284-4a 3-284-4b |
गन्धमादनवासी तु प्रथितो गन्धमादनः। कोटीशतसहस्राणि हरीणां समकर्षत ।। | 3-284-5a 3-284-5b |
पनसो नाम मेधावी वानरःसुमहाबलः। कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ।। | 3-284-6a 3-284-6b |
श्रीमान्दधिमुखो नाम हरिवृद्धोऽतिवीर्यवान्। प्रचकर्ष महासैनयं हरीणां भीमतेजसाम् ।। | 3-284-7a 3-284-7b |
कृषणानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्। कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति ।। | 3-284-8a 3-284-8b |
एते चान्ये च बहवो हरियूथपयूथपाः। असङ्ख्येया महाराज समीयू रामकारणात् ।। | 3-284-9a 3-284-9b |
गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्। श्रूयते तुमुलः शब्दस्तत्रतत्रप्रधावताम् ।। | 3-284-10a 3-284-10b |
गिरिकूटनिभाः क्नचित्केचिन्महिषसन्निभाः। शरदभ्रप्रतीकाशाः केचिद्धिङ्गुलकाननाः ।। | 3-284-11a 3-284-11b |
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः। उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः ।। | 3-284-12a 3-284-12b |
सवानरमहासैन्यः पूर्णसागरसन्निभः। निवेशमकरोत्तत्रसुग्रीवानुमते तदा ।। | 3-284-13a 3-284-13b |
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः। तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते ।। | 3-284-14a 3-284-14b |
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव। प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा ।। | 3-284-15a 3-284-15b |
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः। जघनं पालयामास सौमित्रिरकुतोभयः ।। | 3-284-16a 3-284-16b |
बद्धगोधाङ्गुलित्रणौ राघवौ तत्रजग्मतुः। वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव ।। | 3-284-17a 3-284-17b |
प्रबभौ हरिसैन्यं तत्सालतालशिलायुधम्। सुमहच्छालिभवनं यथा सूर्योदयं प्रति ।। | 3-284-18a 3-284-18b |
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता। ययौ सुमहती सेना राघवस्यार्थसिद्धये ।। | 3-284-19a 3-284-19b |
विविधेषु प्रशस्तेषु बहुमूलफलेषु च। प्रभूतमधुमांसेषु वारिमत्सु विवेषु च ।। | 3-284-20a 3-284-20b |
निवसन्ती निराबाधा तथैवगिरिसानुषु। उपायाद्धिरिसेना सा क्षारोदमथ मागरम् ।। | 3-284-21a 3-284-21b |
द्वितीयसागरनिमं तद्बलंबहुलध्वजम्। वेलावनं समासाद् निवासमकरोत्तदा ।। | 3-284-22a 3-284-22b |
ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत। मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः ।। | 3-284-23a 3-284-23b |
उपायः कोनु भवतां मतः सागरलङ्घने। इयं हि महती सेना सागरश्चातिदुस्तरः ।। | 3-284-24a 3-284-24b |
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः। समर्था लङ्घने सिन्दोर्न तत्कृत्स्नस्य वानराः ।। | 3-284-25a 3-284-25b |
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः। नेति रामस्तु तानसर्वान्सान्त्वयन्प्रत्यभाषत ।। | 3-284-26a 3-284-26b |
शतयोजनविस्तारं न शक्ताः सर्ववानराः। क्रान्तुं तोयनिधिं वीरानैषा वो नैष्ठिकी मतिः ।। | 3-284-27a 3-284-27b |
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा। वणिजामुपघातं च कथमस्मद्विधश्चरेत् ।। | 3-284-28a 3-284-28b |
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः। प्लवोडुपप्रतारश्चनैवात्रमम रोचते ।। | 3-284-29a 3-284-29b |
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः। प्रतिशेष्याम्युपवसन्दर्शयिष्ति मां ततः ।। | 3-284-30a 3-284-30b |
न चेद्दर्शयिता मार्गं धक्ष्याम्यनमहं ततः। महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ।। | 3-284-31a 3-284-31b |
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः। प्रतिशिस्ये जलनिधं विधिवत्कुशसंस्तरे ।। | 3-284-32a 3-284-32b |
सागरस्तु ततः स्वप्ने दर्शयामास राघवम्। देवो नदनदीमर्ता श्रीमान्यादोगणैर्वृतः ।। | 3-284-33a 3-284-33b |
कौसल्यामातरित्येवमाभाष्य मधुरं वचः। इदमित्याह रत्नानामाकरैः शतशो वृतः ।। | 3-284-34a 3-284-34b |
ब्रूहि किं तेकरोम्यत्रसाहाय्यं पुरुषर्षभ। ऐक्ष्वाको ह्यस्मि ते ज्ञाती राम सत्यपराक्रमः। एवमुक्तः समुद्रेण रामो वाक्यमथाब्रवीत् ।। | 3-284-35a 3-284-35b 3-284-35c |
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते। येन गत्वादशग्रीवं हन्याम कुलपांसनम्। `राक्षसंसानुबन्धं तं मम भार्यापहारिणम्' ।। | 3-284-36a 3-284-36b 3-284-36c |
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्। शरैस्त्वां शोषयिष्यामि दिव्यास्त्रयतिमन्त्रितैः ।। | 3-284-37a 3-284-37b |
इत्येवंब्रुवतः श्रुत्वारामस्य वरुणालयः। उवाचव्यथितोवाक्यमितिबद्धाञ्जलिःस्थितः ।। | 3-284-38a 3-284-38b |
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव। शृणु चेदं वचोराम श्रुत्वा कर्तव्यमाचर ।। | 3-284-39a 3-284-39b |
यदि दास्यामि ते मार्गं सैन्यस् व्रजतोऽऽज्ञया। अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषोबलात् ।। | 3-284-40a 3-284-40b |
अस्तित्वत्रनलो नाम वानरः शिल्पिसंमतः। त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ।। | 3-284-41a 3-284-41b |
स यत्काष्ठं तृणं वाऽपिशिलां वा क्षेप्स्यते मयि। सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ।। | 3-284-42a 3-284-42b |
इत्युक्त्वाऽन्तर्हिते तस्मिन्रामो नलमुवाच ह। कुरु सेतुं समुद्रे त्वंशक्तो ह्यसि मतो मम ।। | 3-284-43a 3-284-43b |
तेनोपायेन काकुत्स्थः सतुबन्धमकारयत्। दशयोजनविस्तारमायतं शतयोजनम् ।। | 3-284-44a 3-284-44b |
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि। रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः ।। | 3-284-45a 3-284-45b |
तत्रस्थं स तु धर्मात्मा समागच्चद्विभीषणः। भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह ।। | 3-284-46a 3-284-46b |
प्रतिजग्राह रामस्तं स्वागतेन महामनाः। सुग्रीवस्य तु शङ्काऽभूत्प्रणिधिः स्यादिति स्मह ।। | 3-284-47a 3-284-47b |
राघवः सत्यचेष्टाभिः सम्यक्व चरितेङ्गितैः। यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत् ।। | 3-284-48a 3-284-48b |
सर्वराक्षसराज्येचाप्यभ्यपिञ्चद्विभीषणम्। चक्रे च मन्त्रसचिवं सहृदंलक्ष्मणस् च ।। | 3-284-49a 3-284-49b |
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्। ससैन्यः सेतुना तेन मार्गेणैव नराधिपः ।। | 3-284-50a 3-284-50b |
ततो गत्वासमासाद्य लङ्कोद्यानान्यनेकशः। भेदयामास कपिभिर्महान्ति च बहूनि च ।। | 3-284-51a 3-284-51b |
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ। चरौ वानररूपेण तौ जग्राह विभीषणः ।। | 3-284-52a 3-284-52b |
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ। दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत् ।। | 3-284-53a 3-284-53b |
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम्। प्रेषयामास दुत्येन रावणस्य ततोऽङ्गदम् ।। | 3-284-54a 3-284-54b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ।। 284 ।। |
3-284-8 मुखे पुण्ड्रस्तिलकं येषां ते. ललाटे ऊर्ध्वपुण्ड्राकारेण चिह्नेन चिह्नितानाम् ।। 3-284-10 शिरीषकुसुमाभानां सिंहानामिति ध. पाठः ।। 3-284-18 शालिभिर्भातीति शालिभं तच्चतद्वनं पक्वजलिभवनं तद्वत्पीतवर्णमित्यर्थः ।। 3-284-29 प्लवः अलाबुघटादिमयं तरणसाधनम्। उडुपं रक्षुद्रनौका ताभ्यां प्रतारस्तरणम् ।। 3-284-30 समारप्स्यामि आराधयिष्यामि ।। 3-284-34 मधुरं वच इदंशृण्वित्याहेति शेषेण योज्यम् ।। 3-284-40 आज्ञायेति च्छेदः। पूर्वरूपमार्षम् ।। 3-284-47 प्रणिधिश्छलकृत गुप्तचारो वा ।। 3-284-50 मासेनैव नराधिप इति झ. पाठ ।।
आरण्यकपर्व-283 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-285 |