महाभारतम्-03-आरण्यकपर्व-013
← आरण्यकपर्व-012 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-013 वेदव्यासः |
आरण्यकपर्व-014 → |
कृष्णेन युधिष्ठिरंप्रति तद्व्यसनस्य द्वारकायां स्वस्यासांनिध्यहेतुकत्वकथनेन समाश्वासनम् ।। 1
वासुदेव उवाच।।
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ।।१।।
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः ।
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ।।२।।
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन् ।
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ।।३।।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ।
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ।।४।।
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः ।
वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ।।५।।
अभक्षितविनाशं च देवनेन विशां पते ।
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ।।६।।
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् ।
व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः ।।७।।
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः ।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ।।८।।
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ।।९।।
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम् ।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ।।१०।।
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।
अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ।।११।।
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ।।१२।।
अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः ।
सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् ।।१३।।
असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ।।१४।।
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन ।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ।।१५।।
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः ।
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ।।१६।।
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ ।
ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ।।१७।। 3.13.17
वासदेव उवाच। | 3-13-1x |
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप। यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ।। | 3-13-1a 3-13-1b |
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः। आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च। वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ।। | 3-13-2a 3-13-2b 3-13-2c |
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च। वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ।। | 3-13-3a 3-13-3b |
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो। तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ।। | 3-13-4a 3-13-4b |
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा। अतर्कितविनाशश्च देवनेन विशांपते ।। | 3-13-5a 3-13-5b |
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ।। | 3-13-6a |
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्। दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः ।। | 3-13-7a 3-13-7b |
तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः। विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ।। | 3-13-8a 3-13-8b |
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च। अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ।। | 3-13-9a 3-13-9b |
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम्। द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ।। | 3-13-10a 3-13-10b |
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम। अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन ।। | 3-13-11a 3-13-11b |
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः। पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ।। | 3-13-12a 3-13-12b |
अथैनमविनीतेन सुहृदो नाम दुर्हृदः। सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान् ।। | 3-13-13a 3-13-13b |
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा। येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ।। | 3-13-14a 3-13-14b |
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन। अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ।। | 3-13-15a 3-13-15b |
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः। तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते ।। | 3-13-16a 3-13-16b |
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ। सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ।। | 3-13-17a 3-13-17b |
।। इति श्रीमन्महाभारते अरण्यपर्वणइ अर्जुनाभिगमनपर्वणि त्रयोदशोऽध्यायः ।। 13 ।। |
टिप्पणी
[सम्पाद्यताम्]3-13-4 अहं तत्र द्यूते दोषान् अचक्षं व्यक्तं कथितवान् स्यामित्यर्तः ।। 3-13-5 वीरसेनसुतः नलः। यैः अक्षैरिति शेषः ।। 3-13-6 सातत्यमविच्छेदम्। प्रसङ्गस्य द्यूतक्रीडायाः हीयमानोऽपि जयाशया पुनःपुनर्दीव्यत्येवेत्यर्थः ।। 3-13-13 अपनीतेनेतिपाठे अन्यायेन। दुरोदरान् द्यूतकारान् ।। 3-13-15 एत्यागत्य। युयुधानात्सात्यकेः ।।
आरण्यकपर्व-012 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-014 |