महाभारतम्-03-आरण्यकपर्व-025
← आरण्यकपर्व-024 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-025 वेदव्यासः |
आरण्यकपर्व-026 → |
मार्कण्डेयेन पाण्डवानुपेत्य धर्मोपदेशपूर्वकमुत्तरदिग्गमनम् ।। 1 ।।
वैशम्पायन उवाच।।
तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम् ।
विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु ।।१।।
यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः ।
द्विजातिमुख्यानृषभः कुरूणां; सन्तर्पयामास महानुभावः ।।२।।
इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम् ।
पुरोहितः सर्वसमृद्धतेजा; श्चकार धौम्यः पितृवत्कुरूणाम् ।।३।।
अपेत्य राष्ट्राद्वसतां तु तेषा; मृषिः पुराणोऽतिथिराजगाम ।
तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् ।।४।।
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च ।
संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः ।।५।।
तं धर्मराजो विमना इवाब्रवी; त्सर्वे ह्रिया सन्ति तपस्विनोऽमी ।
भवानिदं किं स्मयतीव हृष्ट; स्तपस्विनां पश्यतां मामुदीक्ष्य ।।६।।
मार्कण्डेय उवाच।।
न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः ।
तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि ।।७।।
स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात् ।
धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ ।।८।।
सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता ।
पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार ।।९।।
स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः ।
विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् ।।१०।।
नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य ।
सत्येन तेऽप्यजयंस्तात लोका; न्नेशे बलस्येति चरेदधर्मम् ।।११।।
अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम् ।
विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् ।।१२।।
धात्रा विधिर्यो विहितः पुराण; स्तं पूजयन्तो नरवर्य सन्तः ।
सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् ।।१३।।
महाबलान्पर्वतकूटमात्रा; न्विषाणिनः पश्य गजान्नरेन्द्र ।
स्थितान्निदेशे नरवर्य धातु; र्नेशे बलस्येति चरेदधर्मम् ।।१४।।
सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा ।
स्वयोनितस्तत्कुरुते प्रभावा; न्नेशे बलस्येति चरेदधर्मम् ।।१५।।
सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य ।
यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ ।।१६।।
यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य ।
ततः श्रियं तेजसा स्वेन दीप्ता; मादास्यसे पार्थिव कौरवेभ्यः ।।१७।।
वैशम्पायन उवाच।।
तमेवमुक्त्वा वचनं महर्षि; स्तपस्विमध्ये सहितं सुहृद्भिः ।
आमन्त्र्य धौम्यं सहितांश्च पार्थां; स्ततः प्रतस्थे दिशमुत्तरां सः ।।१८।। 3.25.19
वैशंपायन उवाच। | 3-25-1x |
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम्। विजह्रुरिनद्रप्रतिमाः शिवेषु सरस्वतीसालवनेषु तेषु ।। | 3-25-1a 3-25-1b 3-25-1c 3-25-1d |
यतींश्च राजा स मुनींश्च सर्वां स्तस्मिन्वने मूलफलैरुदग्रैः। द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः ।। | 3-25-2a 3-25-2b 3-25-2c 3-25-2d |
इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम्। पुरोहितस्तत्र समृद्धतेजा- श्चकार धौम्यः पितृवन्नृपाणाम् ।। | 3-25-3a 3-25-3b 3-25-3c 3-25-3d |
अपेत्य राष्ट्राद्वसतां तु तेषा- मृषिः पुराणोऽतिथिराजगाम। तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् ।। | 3-25-4a 3-25-4b 3-25-4c 3-25-4d |
तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः। अपूजयत्सुरऋषिमानवार्चितं महामुनिं ह्यनुपमसत्ववीर्यवान् ।। | 3-25-5a 3-25-5b 3-25-5c 3-25-5d |
स सर्वविद्द्रौपदीं वीक्ष्य दीनां युधिष्टिरं भीमसेनार्जुनौ च। संस्मृत्यरामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः ।। | 3-25-6a 3-25-6b 3-25-6c 3-25-6d |
तं धर्मराजो विमना इवाब्रवी- त्सर्वे ह्रिया सन्ति तपस्विनोऽमी। भवानिदं किं स्मयतीव हृष्ट- स्तपस्विनां पश्यतां मामुदीक्ष्य ।। | 3-25-7a 3-25-7b 3-25-7c 3-25-7d |
मार्कण्डेय उवाच। | 3-25-8x |
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजतेन दर्पः। तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि ।। | 3-25-8a 3-25-8b 3-25-8c 3-25-8d |
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात्। धन्वी चरन्पार्थ मयैव दृष्टो गिरे पुरा ऋष्यमूकस्य सानौ ।। | 3-25-9a 3-25-9b 3-25-9c 3-25-9d |
सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता। पितुर्निदेशादनघः स्वधर्मं चरन्वने दाशरथिश्चकार ।। | 3-25-10a 3-25-10b 3-25-10c 3-25-10d |
स चापि शक्रस् समप्रभावो महानुभावः समरेष्वजेयः। विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् ।। | 3-25-11a 3-25-11b 3-25-11c 3-25-11d |
भापाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य। सत्येन तेऽप्यजयस्तात लोका- न्नेशे बलस्येति चरेदधर्मम् ।। | 3-25-12a 3-25-12b 3-25-12c 3-25-12d |
अलर्कमाहुर्नवर्य सन्तं सत्यव्रतं काशिकरूशराजम्। विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम् ।। | 3-25-13a 3-25-13b 3-25-13c 3-25-13d |
धात्रा विधिर्यो विहितः पुराणै- स्तं पूजयन्तो नरवर्य सन्तः। सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् ।। | 3-25-14a 3-25-14b 3-25-14c 3-25-14d |
महाबलान्पर्वतकूटमात्रा- न्विषाणिनः पश्य गजान्नरेन्द्र। स्थितान्निदेशे नरवर्य धातु- र्नेशे बलस्येति चरेदधर्मम् ।। | 3-25-15a 3-25-15b 3-25-15c 3-25-15d |
सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद्विहितं विधात्रा। स्वयोनितः कर्म सदाचरन्ति नेसे बलस्येति चरेदधर्मम् ।। | 3-25-16a 3-25-16b 3-25-16c 3-25-16d |
सत्येनं धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य। यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्त ।। | 3-25-17a 3-25-17b 3-25-17c 3-25-17d |
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरूष्य। ततः श्रियं तेजसा तेन दीप्ता- मादास्वसे पार्थिव कौरेवभ्यः ।। | 3-25-18a 3-25-18b 3-25-18c 3-25-18d |
वैशंपायन उवाच। | 3-25-19x |
तमेवमुक्त्वा वचनं महर्षि- स्तपस्विमध्ये सहितं सुहृद्धिः। आमन्त्र्य धौम्यं सहितांश्च पार्थां- स्ततः प्रतस्थे दिशमुत्तरां सः ।। | 3-25-19a 3-25-19b 3-25-19c 3-25-19d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चविंशोऽध्यायः ।। 25 ।। |
टिप्पणी
[सम्पाद्यताम्]3-25-1 महावनेष्वम्बुफलोचितेषु सरस्वतीति ख. पाठः। भागीरथीसालवनेष्विति क. पाठः ।। 3-25-3 इष्टीः दर्शपौर्णमासाद्याः। पित्र्याणि पिण्डपितृयज्ञदर्सश्राद्धादीनि ।। 3-25-4 राष्ट्रात् अपेत्य निर्गत्य वने वसताम् ।। 3-25-6 अस्मयत विस्मितवान् ।। 3-25-7 ह्रिया प्रागल्भ्यसंकोचेन ।। 3-25-11 बलस्य बहुसामर्थ्यस्य ईशे प्रभवामीति हेतोरधर्मं न चरेत्। शक्तौ सत्यां धर्ममेवाचरेन्नत्वधर्ममित्यर्थः। नेशो बलस्येतीति क. पाठः ।। 3-25-14 धात्रा ईशेन पुराणैर्वेदवाक्यैर्विहितो विधिरग्निहोत्रादिः ।। 3-25-15 पशवोऽपि बलवानस्मीति दर्पेणाधर्मं न चरन्तीत्याह महाबलानिति। विषाणं दन्तः ।। 3-25-17 विभा प्रभा सैव वसु वित्तं यस्य ।। 3-25-18 आदास्यते ग्रहीष्यसि ।।
आरण्यकपर्व-024 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-026 |