महाभारतम्-03-आरण्यकपर्व-119
दिखावट
← आरण्यकपर्व-118 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-119 वेदव्यासः |
आरण्यकपर्व-120 → |
युधिष्ठिरेण यात्राक्रमेण प्रभासतीर्थेप्रति गमनम् ।। 1 ।। तत्रतद्दिदृक्षया कृष्णबलभद्रादीनामागमनम् ।। 2 ।।
वैशंपायन उवाच। | 3-119-1x |
गच्छन्स तीर्थानि महानुभावः। पुण्यानि रम्याणि ददर्श राजा। सर्वाणि वैप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरम्य ।। | 3-119-1a 3-119-1b 3-119-1c 3-119-1d |
स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः। समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः ।। | 3-119-2a 3-119-2b 3-119-2c 3-119-2d |
तत्रापि चाप्लुत्य महानुभाव संतर्पयामास पितृडन्सुरांश्च। द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत् ।। | 3-119-3a 3-119-3b 3-119-3c 3-119-3d |
ततो विपाप्मा द्रविडेषु राज- न्समुद्रमासाद्य च लोकपुण्यम्। अगस्त्यतीर्थं च महापवित्रं- नारीतीर्थान्यथा वीरो ददर्श ।। | 3-119-4a 3-119-4b 3-119-4c 3-119-4d |
तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरशक्यम्। संपूज्यमानः परमर्षिसङ्घैः परां मुदं पाणअडुसुतः स लेभे ।। | 3-119-5a 3-119-5b 3-119-5c 3-119-5d |
स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च। संपूजयन्विक्रममर्जुनस्य रमे महीपालपतिः पृथिव्याम् ।। | 3-119-6a 3-119-6b 3-119-6c 3-119-6d |
ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य। हृष्टः सह भ्रातृभिरर्जुनस्य संकीर्तयामास गवां प्रदानम् ।। | 3-119-7a 3-119-7b 3-119-7c 3-119-7d |
स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन्। क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श ।। | 3-119-8a 3-119-8b 3-119-8c 3-119-8d |
तत्रोदधेः कंचिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद। तप्तं सुरैरत्र तपः पुरस्ता- दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ।। | 3-119-9a 3-119-9b 3-119-9c 3-119-9d |
स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः। ऋचीकपुत्रस्य तपस्विसङ्घैः समावृतां पुण्यकृदर्चनीयाम् ।। | 3-119-10a 3-119-10b 3-119-10c 3-119-10d |
ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च। वैवस्वतादित्यधनेश्वराणा- मिन्द्रस्य विष्णोः सवितुर्विभोश्च ।। | 3-119-11a 3-119-11b 3-119-11c 3-119-11d |
भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव। धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव ।। | 3-119-12a 3-119-12b 3-119-12c 3-119-12d |
सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथाऽन्ये। पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि ।। | 3-119-13a 3-119-13b 3-119-13c 3-119-13d |
तेषूपवासान्विबुधानुपोष्य दुत्त्वा च रत्नानि महान्ति राजा। तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम ।। | 3-119-14a 3-119-14b 3-119-14c 3-119-14d |
स तेन तीरेण तु सागरस्य पुनः प्रयातः सह सोदरीयैः। द्विजैः पृथिव्यां प्रथितं महद्भि- स्तीर्थं प्रभासं समुपाजगाम ।। | 3-119-15a 3-119-15b 3-119-15c 3-119-15d |
तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च। संतर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन ।। | 3-119-16a 3-119-16b 3-119-16c 3-119-16d |
कस द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाऽभिषेकम्। समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतांवरिष्ठः ।। | 3-119-17a 3-119-17b 3-119-17c 3-119-17d |
तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च। तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम् ।। | 3-119-18a 3-119-18b 3-119-18c 3-119-18d |
ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान्। अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादान् ।। | 3-119-19a 3-119-19b 3-119-19c 3-119-19d |
ततः स रामं च जनार्दनं च कार्ष्णि च साम्बं च शिनेश्च पौत्रम्। अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममहीनसत्वः ।। | 3-119-20a 3-119-20b 3-119-20c 3-119-20d |
ते चापि सर्वान्प्रतिपूज्य पार्थां- स्तैः सत्कृताः पाण्डुसुतैस्तथैव। युधिष्ठिरं संपरिवार्य राज- न्नुपाविशन्देवगणा यथेन्द्रम् ।। | 3-119-21a 3-119-21b 3-119-21c 3-119-21d |
तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः। अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजसूनुम् ।। | 3-119-22a 3-119-22b 3-119-22c 3-119-22d |
श्रुत्वा तु ते तस्य वचः प्रतीता- स्तांश्चापि दृष्ट्वा सुकृशनतीव। नेत्रोद्भवं संमुमुचुर्महार्हा दुःखार्तिजं वारि महानुभावाः ।। | 3-119-23a 3-119-23b 3-119-23c 3-119-23b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ।। 119 ।। |
3-119-2 वृत्तवान् सद्वृत्तः। पार्थिवः पृथ्वीपतिः कश्यपस्तस्य पुत्रः सूर्यस्तस्य पौत्रो युधिष्ठिरः तत्पितुर्धर्मस्य सूर्यपुत्रत्वात्। प्रशस्तां नाम नदीम् ।। 3-119-4 नारीतीर्थानि ग्राहरूपाः पञ्चाप्सरसो मुनिशापवशाद्यत्र स्थिता अर्जुनेन च शापान्मोचितास्तानि नारीतीर्थानि ।। 3-119-7 मम्बुधरोत्तमस्य समुद्रस्य ।। 3-119-14 तीर्थेषु। उपवासान् पुमीपवासिनो विबुधान्पणअडितानुपोष्य वस्त्रैरावास् रत्नानि च तेभ्य एव दत्त्वा ।। 3-119-20 कार्ज्जि प्रद्युम्नम्। पौत्रं सात्यकिम् ।।
आरण्यकपर्व-118 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-120 |