महाभारतम्-03-आरण्यकपर्व-224
← आरण्यकपर्व-223 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-224 वेदव्यासः |
आरण्यकपर्व-225 → |
मार्कण्डेयेन युधिष्ठिरंप्रत्यग्निवंशादिकीर्तनम् ।। 1 ।।
मार्कण्डेय उवाच॥
आपस्य मुदिता भार्या सहस्य परमा प्रिया ।
भूपतिर्भुवभर्ता च जनयत्पावकं परम् ॥१॥
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् ।
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ॥२॥
महतां चैव भूतानां सर्वेषामिह यः पतिः ।
भगवान्स महातेजा नित्यं चरति पावकः ॥३॥
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते ।
हुतं वहति यो हव्यमस्य लोकस्य पावकः ॥४॥
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः ।
भूपतिर्भुवभर्ता च महतः पतिरुच्यते ॥५॥
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् ।
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ॥६॥
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् ।
देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ॥७॥
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ।
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ॥८॥
अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥८॥
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् ।
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ॥९॥
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ।
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥१०॥
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः ।
नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ॥११॥
स तच्छरीरं सन्त्यज्य प्रविवेश धरां तदा ।
भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ॥१२॥
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च ।
श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥१३॥
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः ।
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ॥१४॥
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ॥१४॥
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः ।
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ॥१५॥
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी ।
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ॥१६॥
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् ।
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ॥१७॥
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् ।
मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ॥१८॥
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा ।
आहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥१९॥
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् ।
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥२०॥
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती ।
गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ॥२१॥
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा ।
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥२२॥
तमसा नर्मदा चैव नदी गोदावरी तथा ।
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥२३॥
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा ।
कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ॥२४॥
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥२४॥
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः ।
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ॥२५॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः ।
अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥२६॥
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ॥२६॥
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया ।
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ॥२७॥
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् ।
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ॥२८॥
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ।
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥२९॥
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया ।
पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥३०॥ 3.222.32
मार्कण्डेय उवाच। | 3-224-1x |
आपस्य मुदिता भार्या सा चास्य परमाप्रिया। भूपतिं भूतकर्तारं जनयामास पावकम् ।। | 3-224-1a 3-224-1b |
भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम्। आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः ।। | 3-224-2a 3-224-2b |
महतां चैव भूतानां सर्वेषामिह यः पतिः। भगवान्स महातेजा नित्यं चरति पावकः ।। | 3-224-3a 3-224-3b |
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते। आज्यं वहतियो हव्यं सर्वलोकस् पावकः ।। | 3-224-4a 3-224-4b |
अपांगर्भो महाभागः सत्वभुग्यो महाद्भुतः। भूपतिर्भूतकर्ता च महतः पतिरुच्यते ।। | 3-224-5a 3-224-5b |
मता वहन्तो हव्यानि तस्याग्नेरप्रजाऽभवन्। अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत ।। | 3-224-6a 3-224-6b |
[स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः]। आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात् ।। | 3-224-7a 3-224-7b |
देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम्। दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ।। | 3-224-8a 3-224-8b |
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः। अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ।। | 3-224-9a 3-224-9b |
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्। मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्। भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ।। | 3-224-10a 3-224-10b 3-224-10c |
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ।। | 3-224-11a |
अनुनीयमानो हि भृशं देववाक्यान्वितेन सः। नैच्छद्वोढुं हवि सर्वं शरीरं चापि सोऽत्यजत् ।। | 3-224-12a 3-224-12b |
स तच्छरीरं संत्यज्य प्रविवेश धरां तदा। भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि ।। | 3-224-13a 3-224-13b |
आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च। श्लेष्मणः स्फाटिकं तस् पित्तान्मारकतं तथा ।। | 3-224-14a 3-224-14b |
वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः। त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम् ।। | 3-224-15a 3-224-15b |
शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप। एवं कृत्वा शरीरं च परमे तपसि स्थितः ।। | 3-224-16a 3-224-16b |
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा। भृशं जज्वाल तेजस्वी तपसाऽऽप्याधितः शिखी ।। | 3-224-17a 3-224-17b |
दृष्ट्वा ऋषीनभयाच्चापि प्रविवेश महार्णवम्। तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्। अर्चयामासुरेवैनमथर्वाणं सुरादयः ।। | 3-224-18a 3-224-18b 3-224-18c |
अथर्वाणं श्रिताँल्लोकानात्मन्यालोच्य पावकः। मिषतां सर्वभूतानामुन्ममज्ज महार्णवात् ।। | 3-224-19a 3-224-19b |
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा। आहूतः सर्वूतानां हव्यं वहति सर्वदा ।। | 3-224-20a 3-224-20b |
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्। विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ।। | 3-224-21a 3-224-21b |
सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती। गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया ।। | 3-224-22a 3-224-22b |
चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा। इरावती वेत्रवती नद्यतिस्रोऽथ कौशिकी ।। | 3-224-23a 3-224-23b |
तमसा नर्मदा चैव नदी गोदावरी तथा। वेण्णा प्रवेणी भीमा च मरुदा चैव भारत ।। | 3-224-24a 3-224-24b |
भारती सुप्रयोगा च कावेरी मज्जुरा तथा। तुङ्गवेणा कृष्णवेणा कपिला शोण एव च ।। | 3-224-25a 3-224-25b |
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ।। | 3-224-26a |
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः। यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु ।। | 3-224-27a 3-224-27b |
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः। अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ।। | 3-224-28a 3-224-28b |
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः। एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा ।। | 3-224-29a 3-224-29b |
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः। अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम् ।। | 3-224-30a 3-224-30b |
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः। एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ।। | 3-224-31a 3-224-31b |
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्वथा। इत्येष वंशः सुमहानग्नीनां कीर्तितो मया। पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ।। | 3-224-32a 3-224-32b 3-224-32c |
।। इति श्रीन्ममहाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्विंसत्यधिकद्विशततमोऽध्यायः ।। 224 ।। |
3-224-8 अथर्वाणमङ्गिरसं तीव्रतपसं दृष्ट्वा ।।
3-224-9 गच्छ मा द्वेषमिति ध. पाठः. मध्वक्षं पिङ्गाक्षमग्निम्। भावप्रधानो निर्देशः. तथाच निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भवेत्युपक्रमस्योपसंहारेण सहैकवाक्यता भवति ।।
3-224-10 प्रेष्य आदिश्य ।।
3-224-11 तथाचापि तथैव मत्स्यैराख्यातोपि। वचस्त्वं मध्वक्षो भवेति पूर्वोक्तमेव ।।
3-224-13 धातून् मनःशिलादीन् ।।
3-224-15 यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः। नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्। इति झ. पाठः ।।
3-224-16 रीरद्विविधाश्चान्ये=एवं त्यक्त्वा शरीरं इति झ. पाठः। अन्ये स्वर्णपारदादयः ।।
3-224-17 तपसा सामर्थ्येन। उत्धापितः समाधेश्च्यावितः ।।
3-224-19 अथर्वा त्वसृजल्लोकानात्मना लोक्यपावकम्। =अन्ममाथ महार्णवमिति झ. पाठः ।।
3-224-21 एवंत्विति। अग्नेरङ्गिरास्ततो बृहस्पतिस्तः शंय्वादिक्रमेण वेदोक्तान् विष्ण्यान् नानास्थानानि अजनयत् ।।
3-224-27 यावन्तः पावका धिष्ण्याः सन्ति तावन्तः सोमाः सोमयागाः ।।
3-224-32 योर्चितो विविधैः इति झ. पाठः ।।
आरण्यकपर्व-223 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-225 |