महाभारतम्-03-आरण्यकपर्व-012

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← आरण्यकपर्व-011 महाभारतम्
तृतीयपर्व
महाभारतम्-03-आरण्यकपर्व-012
वेदव्यासः
आरण्यकपर्व-013 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103
  104. 104
  105. 105
  106. 106
  107. 107
  108. 108
  109. 109
  110. 110
  111. 111
  112. 112
  113. 113
  114. 114
  115. 115
  116. 116
  117. 117
  118. 118
  119. 119
  120. 120
  121. 121
  122. 122
  123. 123
  124. 124
  125. 125
  126. 126
  127. 127
  128. 128
  129. 129
  130. 130
  131. 131
  132. 132
  133. 133
  134. 134
  135. 135
  136. 136
  137. 137
  138. 138
  139. 139
  140. 140
  141. 141
  142. 142
  143. 143
  144. 144
  145. 145
  146. 146
  147. 147
  148. 148
  149. 149
  150. 150
  151. 151
  152. 152
  153. 153
  154. 154
  155. 155
  156. 156
  157. 157
  158. 158
  159. 159
  160. 160
  161. 161
  162. 162
  163. 163
  164. 164
  165. 165
  166. 166
  167. 167
  168. 168
  169. 169
  170. 170
  171. 171
  172. 172
  173. 173
  174. 174
  175. 175
  176. 176
  177. 177
  178. 178
  179. 179
  180. 180
  181. 181
  182. 182
  183. 183
  184. 184
  185. 185
  186. 186
  187. 187
  188. 188
  189. 189
  190. 190
  191. 191
  192. 192
  193. 193
  194. 194
  195. 195
  196. 196
  197. 197
  198. 198
  199. 199
  200. 200
  201. 201
  202. 202
  203. 203
  204. 204
  205. 205
  206. 206
  207. 207
  208. 208
  209. 209
  210. 210
  211. 211
  212. 212
  213. 213
  214. 214
  215. 215
  216. 216
  217. 217
  218. 218
  219. 219
  220. 220
  221. 221
  222. 222
  223. 223
  224. 224
  225. 225
  226. 226
  227. 227
  228. 228
  229. 229
  230. 230
  231. 231
  232. 232
  233. 233
  234. 234
  235. 235
  236. 236
  237. 237
  238. 238
  239. 239
  240. 240
  241. 241
  242. 242
  243. 243
  244. 244
  245. 245
  246. 246
  247. 247
  248. 248
  249. 249
  250. 250
  251. 251
  252. 252
  253. 253
  254. 254
  255. 255
  256. 256
  257. 257
  258. 258
  259. 259
  260. 260
  261. 261
  262. 262
  263. 263
  264. 264
  265. 265
  266. 266
  267. 267
  268. 268
  269. 269
  270. 270
  271. 271
  272. 272
  273. 273
  274. 274
  275. 275
  276. 276
  277. 277
  278. 278
  279. 279
  280. 280
  281. 281
  282. 282
  283. 283
  284. 284
  285. 285
  286. 286
  287. 287
  288. 288
  289. 289
  290. 290
  291. 291
  292. 292
  293. 293
  294. 294
  295. 295
  296. 296
  297. 297
  298. 298
  299. 299
  300. 300
  301. 301
  302. 302
  303. 303
  304. 304
  305. 305
  306. 306
  307. 307
  308. 308
  309. 309
  310. 310
  311. 311
  312. 312
  313. 313
  314. 314
  315. 315

श्रीकृष्णेन स्वीयैः सह वने पाण्डवसमीपगमनम् ।। 1 ।। अर्जुनेन कृष्णस्तवनम् ।। 2 ।। स्वदुखनिवेदनपूर्वकं रुदन्त्या द्रौपद्याः कृष्णेन समाश्वासनम् ।। 3 ।।

वैशम्पायन उवाच।।
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह ।
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ।।१।।
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः ।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ।।२।।
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः ।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ।।३।।
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः ।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ।।४।।
वासुदेव उवाच।।
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ।।५।।
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् ।
निकृत्योपचरन्वध्य एष धर्मः सनातनः ।।६।।
वैशम्पायन उवाच।।
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् ।
अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ।।७।।
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः ।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ।।८।।
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः ।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ।।९।।
अर्जुन उवाच।।
दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः ।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ।।१०।।
दश वर्षसहस्राणि दश वर्षशतानि च ।
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ।।११।।
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ।।१२।।
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः ।
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ।।१३।।
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम् ।
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।।१४।।
आतिष्ठस्तप एकेन पादेन नियमे स्थितः ।।१४।।
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव ।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ।।१५।।
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ।।१६।।
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् ।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ।।१७।।
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः ।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ।।१८।।
स त्वं नारायणो भूत्वा हरिरासीः परन्तप ।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ।।१९।।
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ।।२०।।
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः ।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ।।२१।।
शतं शतसहस्राणि सुवर्णस्य जनार्दन ।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ।।२२।।
अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ।।२३।।
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप ।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ।।२४।।
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः ।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ।।२५।।
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ।।२६।।
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह ।
भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ।।२७।।
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ।।२८।।
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ।।२९।।
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि ।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ।।३०।।
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ।।३१।।
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ।।३२।।
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा ।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ।।३३।।
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन ।
आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ।।३४।।
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते ।
कर्माणि यानि देव त्वं बाल एव महाद्युते ।।३५।।
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् ।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ।।३६।।
वैशम्पायन उवाच।।
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः ।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ।।३७।।
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते ।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।।३८।।
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् ।
लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ।।३९।।
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत ।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ।।४०।।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ।
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ।।४१।।
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह ।
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ।।४२।।
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् ।
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ।।४३।।
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन ।
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ।।४४।।
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम ।
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ।।४५।।
साध्यानामपि देवानां वसूनामीश्वरेश्वरः ।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ।।४६।।
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो ।
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ।।४७।।
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् ।
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ।।४८।।
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ।।४९।।
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः ।
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ।।५०।।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ।।५०।।
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ।।५१।।
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ।।५२।।
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो ।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ।।५३।।
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता ।
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ।।५४।।
राजमध्ये सभायां तु रजसाभिसमीरिताम् ।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ।।५५।।
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन ।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ।।५६।।
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ।।५७।।
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ।।५८।।
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ।।५९।।
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ।।६०।।
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।।६१।।
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत ।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ।।६२।।
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन ।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ।।६३।।
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः ।
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ।।६४।।
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ।।६५।।
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः ।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ।।६६।।
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः ।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ।।६७।।
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ।।६८।।
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् ।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ।।६९।।
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ।।७०।।
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् ।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ।।७१।।
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् ।
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ।।७२।।
तज्जीर्णमविकारेण सहान्नेन जनार्दन ।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ।।७३।।
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् ।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ।।७४।।
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ।।७५।।
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ।।७६।।
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ।।७७।।
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते ।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ।।७८।।
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् ।
महद्व्यसनमापन्ना शिखिना परिवारिता ।।७९।।
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात् ।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ।।८०।।
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः ।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ।।८१।।
वैनतेयो यथा पक्षी गरुडः पततां वरः ।
तथैवाभिपतिष्यामि भयं वो नेह विद्यते ।।८२।।
आर्यामङ्केन वामेन राजानं दक्षिणेन च ।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ।।८३।।
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् ।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ।।८४।।
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः ।
अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ।।८५।।
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः ।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ।।८६।।
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात् ।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ।।८७।।
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः ।
पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ।।८८।।
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः ।
भीमरूपो महानादान्विसृजन्भीमदर्शनः ।।८९।।
केन सार्धं कथयसि आनयैनं ममान्तिकम् ।
हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ।।९०।।
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी ।
नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ।।९१।।
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः ।
अभ्यद्रवत वेगेन भीमसेनं तदा किल ।।९२।।
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली ।
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ।।९३।।
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् ।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ।।९४।।
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा ।
नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ।।९५।।
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः ।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ।।९६।।
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह ।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ।।९७।।
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः ।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ।।९८।।
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत् ।
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ।।९९।।
तत्राप्यासादयामासुर्बकं नाम महाबलम् ।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ।।१००।।
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः ।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ।।१०१।।
लब्धाहमपि तत्रैव वसता सव्यसाचिना ।
यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ।।१०२।।
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन ।
स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ।।१०३।।
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः ।
निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ।।१०४।।
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः ।
विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ।।१०५।।
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम् ।
दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ।।१०६।।
कुले महति जातास्मि दिव्येन विधिना किल ।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ।।१०७।।
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती ।
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ।।१०८।।
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना ।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ।।१०९।।
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ।।११०।।
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः ।
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ।।१११।।
नैव मे पतयः सन्ति न पुत्रा मधुसूदन ।
न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ।।११२।।
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् ।
न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ।।११३।।
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे ।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ।।११४।।
बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् ।
निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ।।११५।।
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः ।
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ।।११६।।
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत् ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।।११७।।
धृष्टद्युम्न उवाच।।
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् ।
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ।।११८।।
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते ।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ।।११९।।
वैशम्पायन उवाच।।
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता ।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ।।१२०।। 3.12.136

वैशंपायन उवाच। 3-12-1x
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह।
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ।।
3-12-1a
3-12-1b
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ।।
3-12-2a
3-12-2b
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ।।
3-12-3a
3-12-3b
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्।
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ।।
3-12-4a
3-12-4b
3-12-4c
वासुदेव उवाच। 3-12-5x
दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ।।
3-12-5a
3-12-5b
एतान्निहत्य समरे ये च तेषां पदानुगाः।
तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ।।
3-12-6a
3-12-6b
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्।
निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ।।
3-12-7a
3-12-7b
वैशंपायन उवाच। 3-12-8x
पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्।
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ।।
3-12-8a
3-12-8b
संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ।।
3-12-9a
3-12-9b
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ।।
3-12-10a
3-12-10b
अर्जुन उवाच। 3-12-11x
दशवर्षसहस्राणि यत्रसायंगृहो मुनिः।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ।।
3-12-11a
3-12-11b
दशवर्षसहस्राणि दशवर्षशतानि च।
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ।।
3-12-12a
3-12-12b
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ।।
3-12-13a
3-12-13b
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः।
आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके ।।
3-12-14a
3-12-14b
प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम्।
तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ।।
3-12-15a
3-12-15b
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ।।
3-12-16a
3-12-16b
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ।।
3-12-17a
3-12-17b
`योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः।
शीलस्त्वं सर्वयोगानां करणं नियमस्य च' ।।
3-12-18a
3-12-18b
निहत्य नरकं भौममाहृत्य मणिकुण्डले।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ।।
3-12-19a
3-12-19b
कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित्।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ।।
3-12-20a
3-12-20b
ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ।।
3-12-21a
3-12-21b
स त्वं नारायणो भूत्वा हरिरासीः परंतप।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ।।
3-12-22a
3-12-22b
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ।।
3-12-23a
3-12-23b
तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ।।
3-12-24a
3-12-24b
शतं शतसहस्राणि सुवर्णस्य जनार्दन।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ।।
3-12-25a
3-12-25b
अदितेरपि पुत्रत्वमेत्य यादवनन्दन।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ।।
3-12-26a
3-12-26b
शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ।
3-12-27a
3-12-27b
संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ।।
3-12-28a
3-12-28b
प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ।।
3-12-29a
3-12-29b
सादिता मौखाः पाशा निशुम्भनरकौ हतौ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ।।
3-12-30a
3-12-30b
जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ।।
3-12-31a
3-12-31b
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा।
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे ।।
3-12-32a
3-12-32b
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्।
हतः सौभपतिः साल्वस्त्वया सौभं च पातितम्
3-12-33a
3-12-33b
एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ।।
3-12-34a
3-12-34b
3-12-34c
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ।।
3-12-35a
3-12-35b
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ।।
3-12-36a
3-12-36b
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ।।
3-12-37a
3-12-37b
युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन।
आत्मनैवात्मसात्कृत्वा जगदासीः परंतप ।।
3-12-38a
3-12-38b
युगादौ तव वार्ष्णेय नाभिपद्मादजायत।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्।
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ।।
3-12-39a
3-12-39b
3-12-39c
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः।
ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः ।।
3-12-40a
3-12-40b
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ।
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ।।
3-12-41a
3-12-41b
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः।
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ।।
3-12-42a
3-12-42b
नैवं परे नापरे वा करिष्यन्ति कृतानि वा।
यानि कर्माणि देव त्वं बाल एव महाबलः ।।
3-12-43a
3-12-43b
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ।।
3-12-44a
3-12-44b
वैशंपायन उवाच। 3-12-45x
एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ।।
3-12-45a
3-12-45b
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।।
3-12-46a
3-12-46b
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्।
काले लोकमिमं प्राप्तौ नरनारायणावृषी ।।
3-12-47a
3-12-47b
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ।।
3-12-48a
3-12-48b
वैशंपायन उवाच। 3-12-49x
`इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः।
प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ।।'
3-12-49a
3-12-49b
एवमुक्ते तु वचने केशेवेन महात्मना।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ।।
3-12-50a
3-12-50b
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता।
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह।
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ।।
3-12-51a
3-12-51b
3-12-51c
द्रौपद्युवाच। 3-12-52x
`वासुदेव हृषीकेश वासवावरजाच्युत।
देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत्' ।।
3-12-52a
3-12-52b
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम्।
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ।।
3-12-53a
3-12-53b
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन।
यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ।।
3-12-54a
3-12-54b
ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम।
सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत् ।।
3-12-55a
3-12-55b
साध्यानामपि देवानां शिवानामीश्वरेश्वर।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ।।
3-12-56a
3-12-56b
ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ।।
3-12-57a
3-12-57b
द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो।
जठरे खमिमे लोकाः पुरुषोसि सनातनः ।।
3-12-58a
3-12-58b
विद्यातपोभितप्तानां तपसा भावितात्मनाम्।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ।।
3-12-59a
3-12-59b
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ।
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ।।
3-12-60a
3-12-60b
3-12-60c
लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ।।
3-12-61a
3-12-61b
मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम्।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ।।
3-12-62a
3-12-62b
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ।।
3-12-63a
3-12-63b
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ।।
3-12-64a
3-12-64b
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता।
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ।।
3-12-65a
3-12-65b
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ।।
3-12-66a
3-12-66b
दासीभावेन मां भोक्तुमीष्सुते मधुसूदन।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ।।
3-12-67a
3-12-67b
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः।
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ।।
3-12-68a
3-12-68b
गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ।।
3-12-69a
3-12-69b
धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम्।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ।।
3-12-70a
3-12-70b
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ।।
3-12-71a
3-12-71b
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ।।
3-12-72a
3-12-72b
आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ।।
3-12-73a
3-12-73b
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ।।
3-12-74a
3-12-74b
पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः।
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ।।
3-12-75a
3-12-75b
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ।।
3-12-76a
3-12-76b
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ।।
3-12-77a
3-12-77b
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ।।
3-12-78a
3-12-78b
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा।
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ।।
3-12-79a
3-12-79b
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ।।
3-12-80a
3-12-80b
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम्।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ।।
3-12-81a
3-12-81b
य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान्।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ।।
3-12-82a
3-12-82b
भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम्।
कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम् ।।
3-12-83a
3-12-83b
तज्जीर्णमविकारेण सहान्नेन जनार्दन।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ।।
3-12-84a
3-12-84b
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ।।
3-12-85a
3-12-85b
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ।।
3-12-86a
3-12-86b
आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत्।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ।।
3-12-87a
3-12-87b
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ।।
3-12-88a
3-12-88b
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ।।
3-12-89a
3-12-89b
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्।
महद्व्यसनमापन्ना शिखिना परिवारिता ।।
3-12-90a
3-12-90b
हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात्।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ।।
3-12-91a
3-12-91b
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ।।
3-12-92a
3-12-92b
वैनतेयो यथा पक्षी गरुत्मान्पततांवरः।
तथैवाभिपतिष्यामि भयंवो नेह विद्यते ।।
3-12-93a
3-12-93b
आर्यामङ्केन वामेन राजानं दक्षिणेन च।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ।।
3-12-94a
3-12-94b
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ।।
3-12-95a
3-12-95b
ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ।।
3-12-96a
3-12-96b
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ।।
3-12-97a
3-12-97b
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ।
हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ।।
3-12-98a
3-12-98b
भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ।।
3-12-99a
3-12-99b
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ।।
3-12-100a
3-12-100b
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी।
भीमसेनं महात्मानमाह चैवमनिन्दिता ।।
3-12-101a
3-12-101b
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान्।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ।।
3-12-102a
3-12-102b
अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः।
नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ।।
3-12-103a
3-12-103b
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः।
भीमरूपो महानादान्विसृजन्भीमदर्शनः ।।
3-12-104a
3-12-104b
राक्षस उवाच। 3-12-105x
केन सार्धं कथयसि आनयैनं ममान्तिकम्।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ।।
3-12-105a
3-12-105b
सा कृपासंगृहीतेन हृदयेन मनस्विनी।
नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ।।
3-12-106a
3-12-106b
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः।
अभ्यद्रवत वेगेन भीमसेनं तदा किल ।।
3-12-107a
3-12-107b
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली।
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ।।
3-12-108a
3-12-108b
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ।।
3-12-109a
3-12-109b
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा।
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ।।
3-12-110a
3-12-110b
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ।।
3-12-111a
3-12-111b
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ।
निजघान महावीर्यस्तं तदा निर्बलं बली ।।
3-12-112a
3-12-112b
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ।।
3-12-113a
3-12-113b
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ।।
3-12-114a
3-12-114b
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः।
ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः ।।
3-12-115a
3-12-115b
तत्राप्यासादयामासुर्बकं नाम महाबलम्।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ।।
3-12-116a
3-12-116b
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ।।
3-12-117a
3-12-117b
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना।
यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ।।
3-12-118a
3-12-118b
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ।।
3-12-119a
3-12-119b
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ।।
3-12-120a
3-12-120b
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः।
निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं।
3-12-121a
3-12-121b
एतादृशानि दुःखानि महन्ती दुर्बलीयसाम्।
दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ।।
3-12-122a
3-12-122b
कुले महतिजाताऽस्मि दिव्येन विधिना किल।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ।।
3-12-123a
3-12-123b
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी।
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ।।
3-12-124a
3-12-124b
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ।।
3-12-125a
3-12-125b
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ।।
3-12-126a
3-12-126b
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः।
बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत् ।।
3-12-127a
3-12-127b
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः।
न भ्रातरो न च पिता नैव त्वं मधुसूदन ।।
3-12-128a
3-12-128b
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ।।
3-12-129a
3-12-129b
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ।।
3-12-130a
3-12-130b
वैशंपायन उवाच। 3-12-131x
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि ।।
3-12-131a
3-12-131b
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्।
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ।।
3-12-132a
3-12-132b
यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः।
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ।।
3-12-133a
3-12-133b
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत्।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।।
3-12-134a
3-12-134b
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्।
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ।।
3-12-135a
3-12-135b
आबभाषे महाराज द्रौपदीमर्जुनस्तदा।
मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः।
तथा तद्भविता देवि नान्यथा वरवर्णिनि ।।
3-12-136a
3-12-136b
3-12-136c
धृष्टद्युम्न उवाच। 3-12-137x
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्।
दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः ।।
3-12-137a
3-12-137b
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ।।
3-12-138a
3-12-138b
वैशंपायन उवाच। 3-12-139x
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ।।
3-12-139a
3-12-139b

।। इति श्रीमन्महाभारते अरण्यपर्वणि
अर्जुनाभिगमनपर्वणि द्वादशोऽध्यायः ।। 12 ।।

[सम्पाद्यताम्]

3-12-7 निकृत्या छलेन ।। 3-12-8 अभिषङ्गेण दुःखेन पराभवेन वा ।। 3-12-11 यत्र सायंकालस्तत्रैव गृहं यस्य स यत्रसायंगृहः ।। 3-12-14 उत्तरासङ्ग उत्तरीयवस्त्रम् ।। 3-12-17 क्षेत्रज्ञः अन्तरात्मेत्य्रथः ।। 3-12-19 भौमं भूमिपुत्रम्। मेध्यं यज्ञियम् ।। 3-12-20 तत्कर्म अश्वोत्सर्गाख्यम् ।। 3-12-28 संप्राप्य सम्यक्व्याप्य। आदित्यस्यन्दने सूर्यदेहे भास्करमण्डलाभिमानिनं जीवम् ।। 3-12-30 सादिताः छिन्नाः मौरवाः आन्त्रतन्तिमयाः। मुर वेष्टने अस्मादौणादिके उक्रप्रत्यये तद्धितः ।। 3-12-31 जारूथ्यां नगर्याम् ।। 3-12-32 सौभं खेचरं पुरम् ।। 3-12-36 नृशंस्यं निर्दयत्वम् ।। 3-12-37 चैत्यं आयतनं आध्यात्मिकं हृदयपुण्डरीकं। बाह्यं देवालयादि ।। 3-12-38 आत्मनैव निमित्तान्तरं विना ।। 3-12-50 समावाये समूहे। संरब्धेषु कुपितेषु ।। 3-12-65 स्त्रीधर्मिणी रजस्वला ।। 3-12-67 ईषुः ऐच्छन् ।। 3-12-68 स्नुषा वधूः ।। 3-12-69 धर्मपत्नीं यज्ञसंयोगिनीम् ।। 3-12-70 विप्रकृतां दुःखंप्रापिताम्। मर्षयेतां क्षमेताम् ।। 3-12-74 नान्वपद्यन्त नानुगृहीतवन्तः ।। 3-12-78 राष्ट्राणमपराधम्। दुर्बलीयसां दुर्बलतराणाम् ।। 3-12-80 अधिज्यमारोपितगुणम् ।। 3-12-84 सशेषत्वात्। आयुष इति शेषः ।। 3-12-85 प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ।। 3-12-88 अपोथयत् प्रहृतवान्। अपहस्तेन हस्तपृष्ठेन ।। 3-12-89 उपाधाक्षीत् दाहार्थं उपहृतवान्। आर्या श्वश्रूः ।। 3-12-93 वैनतेयः विनतापुत्रः ।। 3-12-106 कृपासंगृहीतेन श्नेहवशेन ।। 3-12-109 संहृत्य मुष्टीकृत्य ।। 3-12-119 एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः। निवसामार्यया हीनाः कृष्ण धौम्यपुरस्सरा इति क. ट. द. पाठः ।। 3-12-129 विशोकवद्विशोका इव ।। 3-12-130 संबन्धात् पितृष्वस्रीयभार्यात्वात्। गौरवादग्निकुण्डोद्भवत्वात्। सख्यात् भक्तिमत्त्वात्। प्रभुत्वेन सामर्थ्यवत्त्वेन त्वदीयेन ।। 3-12-138 स्वसः हे भगिनि ।।

आरण्यकपर्व-011 पुटाग्रे अल्लिखितम्। आरण्यकपर्व-013