महाभारतम्-03-आरण्यकपर्व-285
← आरण्यकपर्व-284 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-285 वेदव्यासः |
आरण्यकपर्व-286 → |
महाभारतस्य पर्वाणि |
---|
अङ्गदेन रावणाय रामसंदंशनिवेदनपूर्वकंपुना रामसमीपागमनम् ।। 1 ।। वानरै रामाज्ञया लङ्काप्राकारादिविभेदनपूर्वकं राक्षसैः सह योधनम् ।। 2 ।। ततो रामेण स्वसेनानामवहारः ।। 3 ।।
मार्कण्डेय उवाच। | 3-285-1x |
प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने। सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ।। | 3-285-1a 3-285-1b |
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम्। प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा ।। | 3-285-2a 3-285-2b |
अगाधतोयाः परिखा मीननक्रसमाकुलाः। बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः ।। | 3-285-3a 3-285-3b |
कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः। साशीविषघटायोधाः ससर्जरसपांसवः ।। | 3-285-4a 3-285-4b |
मुसलालातनाराचतोमरासिपरश्वथैः। अन्विताश्चशतघ्नीभिः समधूच्छिष्टमुद्गराः ।। | 3-285-5a 3-285-5b |
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः। बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ।। | 3-285-6a 3-285-6b |
अङ्गदस्त्वथ लङ्कायां द्वारदेशमुपागतः। विदितो रराक्षसेन्द्रस्य प्रविवेशगतव्यथः ।। | 3-285-7a 3-285-7b |
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः। शुशुभे मेघमालाभिरादित्य इव संवृतः ।। | 3-285-8a 3-285-8b |
ससमासाद्य पौलस्त्यममात्यैरभिसंवृतम्। रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ।। | 3-285-9a 3-285-9b |
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः। प्राप्तकालमिदं वाक्यं तदादत्स्व सुदुर्मते। | 3-285-10a 3-285-10b |
अकृतात्मानमासाद्य राजानमनये रतम्। विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ।। | 3-285-11a 3-285-11b |
त्वयैकेनापराद्धं मे सीतामाहरता बलात्। वधायानपराद्धानामन्येषां तद्भविष्यति ।। | 3-285-12a 3-285-12b |
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः। ऋषयोहिंसिताः पूर्वंदेवाश्चाप्यवमानिताः ।। | 3-285-13a 3-285-13b |
राजर्षयश्च निहता रुदत्यश्चाहृताः स्त्रियः। तदिदं समनुप्राप्तं फलंतस्यानयस्य ते ।। | 3-285-14a 3-285-14b |
हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव। पश्य मे धनुषो वीर्यं मानुषस् निशाचर ।। | 3-285-15a 3-285-15b |
मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित्। अराक्षसमिमं लोकंकर्ताऽस्मि निशितैः शरैः ।। | 3-285-16a 3-285-16b |
इतितस् ब्रुवाणस् दूतस् परुषं वचः। श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः ।। | 3-285-17a 3-285-17b |
हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः। चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ।। | 3-285-18a 3-285-18b |
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान्। आदायैव खमुत्पत्य प्रासादतलमाविशत् ।। | 3-285-19a 3-285-19b |
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः। भुवि संभिन्नहृदयाः प्रहारवरपीडिताः ।। | 3-285-20a 3-285-20b |
संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत्। लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः ।। | 3-285-21a 3-285-21b |
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः। विशश्राम स तेजस्वी राघवेणाभिनन्दितः ।। | 3-285-22a 3-285-22b |
ततः सर्वाभिसारेण हरीणां वातरंहसाम्। भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः ।। | 3-285-23a 3-285-23b |
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः। दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम् ।। | 3-285-24a 3-285-24b |
करभारुणगात्राणां हरीणां युद्धशालिनाम्। कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ।। | 3-285-25a 3-285-25b |
प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम्। ऋक्षाणआं धूम्रवर्णानां तिस्रः कोठ्यो व्यवस्थिताः ।। | 3-285-26a 3-285-26b |
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः। नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ।। | 3-285-27a 3-285-27b |
शालिप्रसूनसदृशैः शिरीपकुसुमप्रभैः। तरुणादित्यसदृशैः शणगौरैश्च वैनरैः ।। | 3-285-28a 3-285-28b |
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम्। राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ।। | 3-285-29a 3-285-29b |
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च। भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः ।। | 3-285-30a 3-285-30b |
परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः। चिक्षिपुर्भुजवेगेन लङ्कामध्येमहास्वनाः ।। | 3-285-31a 3-285-31b |
प्राकारस्थाश्चये केचिन्निशाचरगणास्तथा। प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ।। | 3-285-32a 3-285-32b |
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः। निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ।। | 3-285-33a 3-285-33b |
शखवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः। प्राकारं शोभयन्तस्ते परं विस्मयमास्थिताः ।। | 3-285-34a 3-285-34b |
स मापराशिसदृशैर्बभूव क्षणादाचरैः। कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ।। | 3-285-35a 3-285-35b |
पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः। स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः ।। | 3-285-36a 3-285-36b |
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह। नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ।। | 3-285-37a 3-285-37b |
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः। हतानिपतिता भूमौ न मुञ्चन्ति परस्परम् ।। | 3-285-38a 3-285-38b |
रामस्तु शरजालानिववर्ष जलदो यथा। तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान् ।। | 3-285-39a 3-285-39b |
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः। आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ।। | 3-285-40a 3-285-40b |
ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया। कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः ।। | 3-285-41a 3-285-41b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि पञ्चाशीत्यधिकाद्विशततमोऽध्यायः ।। 285 ।। |
3-285-2 संविधं सम्यग्विद्ध्यान्त्यनया तां यात्रादिसंपत्तिम् ।। 3-285-4 सहुडाः सोपलाश्च। हुढं मूत्राद्युत्सर्जनार्थं शृङ्गम्। उपलाः प्रक्षेप्या गोलकाः. कपाटयन्त्रदुर्धर्षा इति झ. पाठः ।। 3-285-5 समधूच्छिष्टमुद्गराः। मधूच्छिष्टं क्षौद्रं मधु ।। 3-285-6 गुल्माः गुप्तोपवेशनस्थानानि ।। 3-285-7 गतव्यथो निर्भयः ।। 3-285-9 आमन्त्र्य हेरावण इति संबोध्य ।। 3-285-10 तदादत्स्व कुरुष्व चेति झ.पाठः ।। 3-285-23 सर्वाभिसारः युपगत्सर्वेषामभिसारो यत्नस्तेन ।। 3-285-24 ऋक्षाधिपतिर्जाम्बवान् ।। 3-285-25 करभो मणिबन्धादिकनिष्ठान्तं हस्तप्रदेशस्तद्वदरुणाः ।। 3-285-28 शणो गोणीसूत्रोपादानवीरुत् ।। 3-285-30 कर्णस्तिर्यग्यानं तेन प्रकारेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं कर्णाट्टमिति वदन्ति ।। 3-285-36 स्तम्भतः स्तम्भैर्वानरोपात्तैः। रणे भग्ना रणभग्नाः ।। 3-285-37 केशाकेशि अन्योन्यं केशेषु गृहीत्वा प्रवृत्तम् ।। 3-285-38 निष्टनन्तःशब्दं कुर्वन्तः ।। 3-285-40 आदिश्य संमुखीकृत्येत्यर्थः ।। 3-285-41 प्रत्यवहारः शिविरंप्रति गमनम्। लब्धा आयुधैः प्राप्ता लक्ष्या वेध्यायस्मिन्नवन्ध्यप्रहार इतियावत्। जयोत्तरो जयोत्कर्षवान् ।।
आरण्यकपर्व-284 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-286 |