महाभारतम्-03-आरण्यकपर्व-155
दिखावट
← आरण्यकपर्व-154 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-155 वेदव्यासः |
आरण्यकपर्व-156 → |
भीमेन सौगन्धिकसरोरक्षकान्प्रति स्वचिकीर्षितकथनपूर्वकं सौगन्धिकाहरणए प्रवर्तनम् ।। 1 ।। तथा सप्रतिषेधं स्वजिघांसूनां तेषां गदया ताडनम् ।। 2 ।। भीमगदाप्रहारमशक्नुवद्भिस्तैर्बीमवृत्तं निवेदितेन कुबेरेण तदनुमोदनम् ।। 3 ।।
भीम उवाच। | 3-155-1x |
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः। विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ।। | 3-155-1a 3-155-1b |
अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम्। अनिलोढमितो नूनं सा बहूनि परीप्सति ।। | 3-155-2a 3-155-2b |
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्। पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ।। | 3-155-3a 3-155-3b |
राक्षसा ऊचुः। | 3-155-4x |
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ। नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ।। | 3-155-4a 3-155-4b |
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर। आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ।। | 3-155-5a 3-155-5b |
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव। `यक्षाधिपस्यानुमते कुबेरस् महात्मनः' ।। | 3-155-6a 3-155-6b |
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्। विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ।। | 3-155-7a 3-155-7b |
तमनादृत्य पद्मानि जिहीर्षसि बलादिह। धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ।। | 3-155-8a 3-155-8b |
[आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च। नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुं ।। | 3-155-9a 3-155-9b |
भीमसेन उवाच। | 3-155-10x |
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके। दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे ।। | 3-155-10a 3-155-10b |
न हि याचन्ति राजान एष धर्मः सनातनः। न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ।। | 3-155-11a 3-155-11b |
इयं च नलिनी रम्या जाता पर्वतनिर्झरे। नेयं भवनमासाद्यकुबेरस्य महात्मनः ।। | 3-155-12a 3-155-12b |
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च। एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ।। | 3-155-13a 3-155-13b |
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत। तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ।। | 3-155-14a 3-155-14b |
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्। मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ।। | 3-155-15a 3-155-15b |
कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः। व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ।। | 3-155-16a 3-155-16b |
गृह्णीत बध्नीत विकर्ततेमं पचाम खादाम च भीमसेनम्। क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः ।। | 3-155-17a 3-155-17b 3-155-17c 3-155-17d |
प्रगृह्यतानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति ।। ते तं तदा तोमरपट्टसाद्यै- र्व्याविद्धशस्त्रैः सहसा निपेतुः। | 3-155-18a 3-155-18b 3-155-18c 3-155-18d |
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः। जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवब्रुरुग्राः ।। | 3-155-19a 3-155-19b 3-155-19c 3-155-19d |
वातेन कुन्त्यां बलवान्सुजातः शूरस्तरस्वी द्विषतां निहन्ता। सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ।। | 3-155-20a 3-155-20b 3-155-20c 3-155-20d |
तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शास्त्रवाणाम्। यथा प्रवीरान्निजघान भीमः परश्शतान्पुष्करिणीसमीपे ।। | 3-155-21a 3-155-21b 3-155-21c 3-155-21d |
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलंबाहुबलं तथैव। अशक्नुवन्तः सहितं समन्ता- द्द्रुतं प्रवीरा सहसा निवृत्ताः ।। | 3-155-22a 3-155-22b 3-155-22c 3-155-22d |
विदीर्यमाणास्तत एव तूर्ण- माकाशमास्थाय विमूढसंज्ञाः। कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः ।। | 3-155-23a 3-155-23b 3-155-23c 3-155-23d |
स शक्रवद्दानवदैत्यसङ्घान् विक्रम्य जित्वा च रणेऽरिसङ्घान्। विगाह्यतां पुष्करीणीं जितारिः कामं स जग्राह ततोऽम्बुजानि ।। | 3-155-24a 3-155-24b 3-155-24c 3-155-24d |
ततः स पीत्वाऽमृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः। उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति ।। | 3-155-25a 3-155-25b 3-155-25c 3-155-25d |
ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः। भीमस्य वीर्यं च बलं च संख्ये यथावदाचख्युरतीव दीनाः ।। | 3-155-26a 3-155-26b 3-155-26c 3-155-26d |
तेषां वचस्तत्तु निशाम्य देवः प्रहस्य रक्षांसि ततोऽभ्युवाच। गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत् ।। | 3-155-27a 3-155-27b 3-155-27c 3-155-27d |
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः। भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् ।। | 3-155-28a 3-155-28b 3-155-28c 3-155-28d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ।। 155 ।। |
3-155-1 प्राप्तं मां निबोधत राक्षसाः इति ध. पाठः ।। 3-155-2 अनिलोढं वायुना आनीतम् ।। 3-155-22 सहितमेकीभूयाप्यशक्नुवन्तः ।।
आरण्यकपर्व-154 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-156 |