महाभारतम्-03-आरण्यकपर्व-018
← आरण्यकपर्व-017 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-018 वेदव्यासः |
आरण्यकपर्व-019 → |
प्रद्युम्ने साल्वबाणाभिहत्या मूर्च्छिते सारथिना रणाङ्गणादन्यतो रथयापनम् ।। 1 ।।
ततः प्रतिबुद्धेन प्रद्युम्नेन सारधिं प्रति सविषादोक्तिः ।। 2 ।।
वासुदेव उवाच।।
शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे ।
वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः ।।१।।
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा ।
प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ।।२।।
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः ।
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ।।३।।
नातिदूरापयाते तु रथे रथवरप्रणुत् ।
धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् ।।४।।
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः ।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ।।५।।
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे ।
विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ।।६।।
सूत उवाच।।
जानार्दने न मे मोहो नापि मे भयमाविशत् ।
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ।।७।।
सोऽपयामि शनैर्वीर बलवानेष पापकृत् ।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ।।८।।
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम् ।
रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ।।९।।
एकश्चासि महाबाहो बहवश्चापि दानवाः ।
नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ।।१०।।
वासुदेव उवाच।।
एवं ब्रुवति सूते तु तदा मकरकेतुमान् ।
उवाच सूतं कौरव्य निवर्तय रथं पुनः ।।११।।
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन ।
व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ।।१२।।
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् ।
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ।।१३।।
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च ।
विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ।।१४।।
त्वं च सूतकुले जातो विनीतः सूतकर्मणि ।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ।।१५।।
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे ।
अपयानं पुनः सौते मैवं कार्षीः कथञ्चन ।।१६।।
अपयातं हतं पृष्ठे भीतं रणपलायिनम् ।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ।।१७।।
केशवस्याग्रजो वापि नीलवासा मदोत्कटः ।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ।।१८।।
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः ।
अपयातं रणात्सौते साम्बश्च समितिञ्जयः ।।१९।।
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ।।२०।।
शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम् ।
स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति सङ्गताः ।।२१।।
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ।।२२।।
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा ।
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ।।२३।।
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः ।
यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ।।२४।।
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः ।
शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ।।२५।।
स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः ।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ।।२६।।
उपयातं दुराधर्षं शङ्खचक्रगदाधरम् ।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ।।२७।।
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः ।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ।।२८।।
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः ।
त्वयापनीतो विवशो न जीवेयं कथञ्चन ।।२९।।
स निवर्त रथेनाशु पुनर्दारुकनन्दन ।
न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ।।३०।।
न जीवितमहं सौते बहु मन्ये कदाचन ।
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ।।३१।।
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम् ।
अपयातं रणं हित्वा यथा कापुरुषं तथा ।।३२।।
न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज ।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ।।३३।। 3.19.33
वासुदेव उवाच। | 3-18-1x |
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे। वृष्णयो भग्नसंकल्पा विव्यथुः पृतनामुखे ।। | 3-18-1a 3-18-1b |
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः। प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत् ।। | 3-18-2a 3-18-2b |
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः। रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा ।। | 3-18-3a 3-18-3b |
नातिदूरापयाते तु रथे रथवरप्रणुत्। धनुर्गृहीत्वा यन्तारं लब्धसज्ञोऽब्रवीदिदम् ।। | 3-18-4a 3-18-4b |
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः। नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ।। | 3-18-5a 3-18-5b |
कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे। विषादो वा रणँ दृष्ट्वा ब्रूहि मे त्वं यथातथम् ।। | 3-18-6a 3-18-6b |
सौतिरुवाच। | 3-18-7x |
जानार्दने न मे मोहो नापि मां भयमाविशत्। अतिभारं तु ते मन्ये साल्वं केशवनन्दन ।। | 3-18-7a 3-18-7b |
सोभियाति शनैर्वीर बलवानेष पापकृत्। मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ।। | 3-18-8a 3-18-8b |
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम्। रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम् ।। | 3-18-9a 3-18-9b |
एकश्चासि महाबाहो बहवश्चापि दानवाः। न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा ।। | 3-18-10a 3-18-10b |
वासुदेव उवाच। | 3-18-11x |
एवं ब्रुवति सूते तु तदा मकरकेतुमान्। उवाच सूतं कौरव्य संनिवर्त्य रथं पुनः ।। | 3-18-11a 3-18-11b |
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन। न्यपयानं रणात्सौते जीवतो मम कर्हिचित् ।। | 3-18-12a 3-18-12b |
न स वृष्णिकुले जातो यो वै त्यजति संगरम्। यो वा निपतितं हन्ति तवास्मीति च वादिनम् ।। | 3-18-13a 3-18-13b |
तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च। विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा ।। | 3-18-14a 3-18-14b |
त्वं च सूतकुले जातो विदितः सूतकर्मणि। धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ।। | 3-18-15a 3-18-15b |
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे। अपयानं पुन सौते मैवं कार्षीः कथंचन ।। | 3-18-16a 3-18-16b |
अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम्। गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ।। | 3-18-17a 3-18-17b |
केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः। किं वक्ष्यति महाबाहुर्बलदेवः समागतः ।। | 3-18-18a 3-18-18b |
किं वक्ष्यतिशिनेर्नप्ता रणसिंहो महारथः। अपयातं रणात्सूत साम्बश्च समितिंजयः ।। | 3-18-19a 3-18-19b |
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ। अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ।। | 3-18-20a 3-18-20b |
शूरं संभावितं शान्तं नित्यं पुरुषमानिनम्। स्त्रियश्च वृष्णिवीराणां किं मांवक्ष्यन्ति संगताः ।। | 3-18-21a 3-18-21b |
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्। धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ।। | 3-18-22a 3-18-22b |
धिग्वाचा परिहासोपि मम वा मद्विधस्य वा। मृत्युनाऽभ्यधिकः सौते स त्वं माव्यपयाः पुनः ।। | 3-18-23a 3-18-23b |
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः। यज्ञं बारतसिंहस्य न हि शक्योऽद्यमर्षितुम् । | 3-18-24a 3-18-24b |
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः। साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ।। | 3-18-25a 3-18-25b |
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः। तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथं ।। | 3-18-26a 3-18-26b |
उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम्। पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ।। | 3-18-27a 3-18-27b |
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः। मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहं ।। | 3-18-28a 3-18-28b |
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः। त्वयाऽपनीती विवशो न जीवेयं कथंचन ।। | 3-18-29a 3-18-29b |
संनिवर्त रथेनाशु पुनर्दारुकनन्दन। न चैतदेवं कर्तव्यमथापत्सु कथंचन ।। | 3-18-30a 3-18-30b |
न जीवितमहं सौते बहु मन्ये कथंचन। अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ।। | 3-18-31a 3-18-31b |
कदाऽपि सूतपुत्र त्वं जानीषे मां भयार्दितम्। अपयातं रणं हित्वा यथा कापुरुषं तथा ।। | 3-18-32a 3-18-32b |
अयुक्तं तु मया त्यक्तुं संग्रामं दारुकात्मज। मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ।। | 3-18-33a 3-18-33b |
।। इति श्रीमन्महाभारते अरण्यपर्णणि अर्जुनाभिगमनपर्वणि अष्टादशोऽध्यायः ।। 19 ।। |
टिप्पणी
[सम्पाद्यताम्]3-18-2 परे च मुदिता भृशम्। इति झ. पाठः ।। 3-18-11 रथं पुनः इति झ. पाठः ।। 3-18-19 शिनेर्नप्ता सात्यकिः ।।
आरण्यकपर्व-017 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-019 |