महाभारतम्-03-आरण्यकपर्व-036
← आरण्यकपर्व-035 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-036 वेदव्यासः |
आरण्यकपर्व-037 → |
भीमयुधिष्ठिरसंवादसमयसंनिहितेन व्यासेन युधिष्ठिराय प्रतिस्मृतिविद्योपदेशः ।। 1 ।।
युधिष्ठिरेण व्यासवचनात्परिजनैः सह द्वैतवनात्काम्यककवनगमनम् ।। 2 ।।
वैशम्पायन उवाच।।
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ।।१।।
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् ।
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ।।२।।
एवमेतन्महाबाहो यथा वदसि भारत ।
इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद ।।३।।
महापापानि कर्माणि यानि केवलसाहसात् ।
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ।।४।।
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ।।५।।
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् ।
आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ।।६।।
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् ।
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ।।७।।
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः ।
सर्व एव कृतास्त्राश्च सततं चाततायिनः ।।८।।
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः ।
संश्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ।।९।।
दुर्योधनहिते युक्ता न तथास्मासु भारत ।
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ।।१०।।
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः ।
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ।।११।।
दुर्योधनेन ते वीरा मानिताश्च विशेषतः ।
प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः ।।१२।।
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च ।
द्रोणस्य च महाबाहो कृपस्य च महात्मनः ।।१३।।
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः ।
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् ।।१४।।
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः ।
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ।।१५।।
अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः ।
सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ।।१६।।
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् ।
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ।।१७।।
न निद्रामधिगच्छामि चिन्तयानो वृकोदर ।
अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ।।१८।।
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः ।
बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन ।।१९।।
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः ।
आजगाम महायोगी व्यासः सत्यवतीसुतः ।।२०।।
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः ।
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः ।।२१।।
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् ।
मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ ।।२२।।
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत ।
यत्ते भयममित्रघ्न हृदि सम्परिवर्तते ।।२३।।
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ।
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ।।२४।।
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् ।
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ।।२५।।
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम ।
येनाभिभविता शत्रून्रणे पार्थो धनञ्जयः ।।२६।।
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव ।
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ।।२७।।
यामवाप्य महाबाहुरर्जुनः साधयिष्यति ।।२७।।
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ।
वरुणं च धनेशं च धर्मराजं च पाण्डव ।।२८।।
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ।।२८।।
ऋषिरेष महातेजा नारायणसहायवान् ।
पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ।।२९।।
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च ।
समादाय महाबाहुर्महत्कर्म करिष्यति ।।३०।।
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ।
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ।।३१।।
एकत्र चिरवासो हि न प्रीतिजननो भवेत् ।
तापसानां च शान्तानां भवेदुद्वेगकारकः ।।३२।।
मृगाणामुपयोगश्च वीरुदोषधिसङ्क्षयः ।
बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ।।३३।।
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः ।
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ।।३४।।
धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः ।
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ।।३५।।
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः ।
धारयामास मेधावी काले काले समभ्यसन् ।।३६।।
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः ।
ययौ सरस्वतीतीरे काम्यकं नाम काननम् ।।३७।।
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा ।
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ।।३८।।
ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः ।
न्यविशन्त महात्मानः सामात्याः सपदानुगाः ।।३९।।
तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः ।
धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ।।४०।।
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः ।
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ।।४१।। 3.36.45
वैशंपायन उवाच। | 3-36-1x |
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः ।। | 3-36-1a 3-36-1b |
श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक्। आयत्यां च तदात्वे च यः पश्यति स पश्यति ।। | 3-36-2a 3-36-2b |
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम्। कथं बलात्करिष्यामि मेरोरिव विवर्तनम् ।। | 3-36-3a 3-36-3b |
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्। भीमसेनमिद वाक्यमपदान्तरमब्रवीत् ।। | 3-36-4a 3-36-4b |
एवमेतन्महाबाहो यथा वदसि भारत। इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद ।। | 3-36-5a 3-36-5b |
महापापानि कर्माणि यानि केवलसाहसात्। आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ।। | 3-36-6a 3-36-6b |
सुमन्त्रिते सुविक्रान्ते सुकृतेसुविचारिते। सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ।। | 3-36-7a 3-36-7b |
यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम्। आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्रमे ।। | 3-36-8a 3-36-8b |
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान्। भीष्मो द्रोणश्च कर्णशच् द्रोणपुत्रश्च वीर्यवान् ।। | 3-36-9a 3-36-9b |
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः। सर्व एव कृताशस्त्राश्च सततं चाततायिनः ।। | 3-36-10a 3-36-10b |
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः। ते श्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् ।। | 3-36-11a 3-36-11b |
दुर्योधनहिते युक्ता न तथाऽस्मासु भारत। पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ।। | 3-36-12a 3-36-12b |
सर्वे कौरवसैन्यस् सपुत्रामात्यसैनिकाः। संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ।। | 3-36-13a 3-36-13b |
दुर्योधनेन ते वीरा मानिताश्च विशेषतः। प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः ।। | 3-36-14a 3-36-14b |
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च। द्रोणस् च महाबाहो कृषस्य च महात्मनः ।। | 3-36-15a 3-36-15b |
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः। तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् ।। | 3-36-16a 3-36-16b |
सर्वेदिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः। अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ।। | 3-36-17a 3-36-17b |
अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः। सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः ।। | 3-36-18a 3-36-18b |
अनिर्जित्यरणे सर्वानेतान्पुरुषसत्तमान्। अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ।। | 3-36-19a 3-36-19b |
न निद्रामधिगच्छामि चिन्तयानो वृकोदर। अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ।। | 3-36-20a 3-36-20b |
वैशंपायन उवाच। | 3-36-21x |
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः। बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः ।। | 3-36-21a 3-36-21b |
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः। आजगाम महायोगी व्यासः सत्यवतीसुतः ।। | 3-36-22a 3-36-22b |
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः। युधिष्ठिरमिदं वाक्यमुवाच वदतांवरः ।। | 3-36-23a 3-36-23b |
युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्। मनीषया तत क्षिप्रमागतोस्मि नरर्षभ ।। | 3-36-24a 3-36-24b |
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत। दुर्योधनान्नृपसुतात्तथा दुःशासनादपि ।। | 3-36-25a 3-36-25b |
त्ते भयममित्रघ्न हृदि संपरिवर्तते। तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ।। | 3-36-26a 3-36-26b |
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय। प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि ।। | 3-36-27a 3-36-27b |
तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम्। अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ।। | 3-36-28a 3-36-28b |
श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम। येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः ।। | 3-36-29a 3-36-29b |
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमर्तामिव। विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ।। | 3-36-30a 3-36-30b |
यामवाप्यमहाबाहुरर्जुनः साधयिष्यति। अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ।। | 3-36-31a 3-36-31b |
वरुणं च कुबेरं च धर्मराजं च पाण्डव। शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ।। | 3-36-32a 3-36-32b |
ऋषिरेष मेहातेजा नारायणसहायवान्। पुराणः शास्वतो देवस्त्वजेयो जिष्णुरच्युतः ।। | 3-36-33a 3-36-33b |
अस्त्राणीनद्राच्च रुद्राच्च लोकपालेभ्य एव च। समादाय महाबाहुर्महत्कर्म करिष्यति ।। | 3-36-34a 3-36-34b |
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्। निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ।। | 3-36-35a 3-36-35b |
एकत्रचिरवासो हि न प्रीतिजननो भवेत्। तापसानां च शान्तानां भवेदुद्वेगकारकः ।। | 3-36-36a 3-36-36b |
मृगाणामुपरोधश्च वीरुदोषधिसंक्षयः। बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान् ।। | 3-36-37a 3-36-37b |
वैशंपायन उवाच। | 3-36-38x |
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः। प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ।। | 3-36-38a 3-36-38b |
धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः। अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ।। | 3-36-39a 3-36-39b |
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः। धारयामास मेधावी कालेकाले सदाऽभ्यसन् ।। | 3-36-40a 3-36-40b |
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः। ययौ सरस्वतीकूले काम्यकं नाम काननम् ।। | 3-36-41a 3-36-41b |
तमन्वयुर्महाराज शिक्षाक्षरविशारदाः। ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ।। | 3-36-42a 3-36-42b |
ततः काम्यकमासाद्य पुनस्ते भरतर्षभ। न्यविशन्त महात्मानः सामान्याः सपदानुगाः ।। | 3-36-43a 3-36-43b |
तत्रते न्यवसन्राजन्कंचित्कालं मनस्विनः। धनुर्वेदपरा वीरा गृणाना वेदमुत्तमम् ।। | 3-36-44a 3-36-44b |
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः। पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ।। | 3-36-45a 3-36-45b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षट्त्रिंशोऽध्यायः ।। 36 ।। |
टिप्पणी
[सम्पाद्यताम्]3-36-2 आयत्यामुत्तरकाले तदात्वे वर्तमानकाले। यस्तान्पश्यति ।। 3-36-4 इति कृत्यतामितिकर्तव्यताम्। अपदान्तरमविलम्बितम् ।। 3-36-6 व्यथन्ते व्यथयन्ति ।। 3-36-7 सुविचारिते निश्चिते सति ।। 3-36-13 सैन्यस् सैन्यसंबन्धिनः सर्वे। मात्राभिरंशपरिच्छेदैः ।। 3-36-16 राजपिण्डो राजदत्तो ग्रासो निर्वेश्य आनृण्यार्थं शोधनीयः ।। 3-36-20 लाघवं शीघ्रताम् ।। 3-36-31 साधयिष्यति राज्यम् ।। 3-36-33 शाश्वतो देवो विष्णोरंशः सनातन इति क. ठ. ध. पाठः ।। 3-36-39 अनुज्ञाय पृष्ट्वा ।। 3-36-40 ब्रह्म मन्त्रम् ।। 3-36-43 सामात्याः सपरिच्छदा इति झ. पाठः ।।
आरण्यकपर्व-035 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-037 |