महाभारतम्-03-आरण्यकपर्व-020
← आरण्यकपर्व-019 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-020 वेदव्यासः |
आरण्यकपर्व-021 → |
कृष्णेन युधिष्ठिरंप्रति संवस्य साल्वेन सह युद्धप्रकारकथनम् ।। 1 ।।
वासुदेव उवाच।।
आनर्तनगरं मुक्तं ततोऽहमगमं तदा ।
महाक्रतौ राजसूये निवृत्ते नृपते तव ।।१।।
अपश्यं द्वारकां चाहं महाराज हतत्विषम् ।
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ।।२।।
अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ।।३।।
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम् ।
किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ।।४।।
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् ।
रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ।।५।।
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः ।
विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ।।६।।
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।
राजानमाहुकं चैव तथैवानकदुन्दुभिम् ।।७।।
सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ।।७।।
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ।
शाल्वराजविनाशाय प्रयातं मां निबोधत ।।८।।
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ।
सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ।।९।।
त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ।।९।।
ते मयाश्वासिता वीरा यथावद्भरतर्षभ ।
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ।।१०।।
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ।।११।।
सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः ।
प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ।।१२।।
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः ।
कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ।।१३।।
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् ।
सरांसि सरितश्चैव मार्त्तिकावतमासदम् ।।१४।।
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् ।
प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ।।१५।।
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः ।
समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ।।१६।।
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर ।
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ।।१७।।
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ।।१८।।
स चापि पापप्रकृतिर्दैतेयापसदो नृप ।
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ।।१९।।
सैनिकान्मम सूतं च हयांश्च समवाकिरत् ।
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ।।२०।।
ततः शतसहस्राणि शराणां नतपर्वणाम् ।
चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ।।२१।।
ते हयान्मे रथं चैव तदा दारुकमेव च ।
छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ।।२२।।
न हया न रथो वीर न यन्ता मम दारुकः ।
अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ।।२३।।
ततोऽहमपि कौरव्य शराणामयुतान्बहून् ।
अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ।।२४।।
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत ।
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ।।२५।।
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः ।
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ।।२६।।
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे ।
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ।।२७।।
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत ।
वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ।।२८।।
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः ।
नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ।।२९।।
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ।
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ।।३०।।
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा ।
मायायुद्धेन महता योधयामास मां युधि ।।३१।।
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः ।
पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ।।३२।।
तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् ।
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ।।३३।।
ततोऽभवत्तम इव प्रभातमिव चाभवत् ।
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ।।३४।।
एवं मायां विकुर्वाणो योधयामास मां रिपुः ।
विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ।।३५।।
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ।।३५।।
ततो व्योम महाराज शतसूर्यमिवाभवत् ।
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ।।३६।।
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः ।
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ।।३७।।
ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ।।३७।।
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् ।
लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ।।३८।। 3.20.41
वासुदेव उवाच। | 3-20-1x |
आनर्तनगरं मुक्तं ततोऽहमगमं तदा। महाक्रतौ राजसूये निवृत्ते नृपते तव ।। | 3-20-1a 3-20-1b |
अपश्यं द्वारकां चाहं महाराज हतत्विषम्। निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ।। | 3-20-2a 3-20-2b |
अनभिज्ञेयरूपाणि द्वारकोपवनानि च। दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ।। | 3-20-3a 3-20-3b |
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम्। किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः ।। | 3-20-4a 3-20-4b |
एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्। रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम ।। | 3-20-5a 3-20-5b |
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः। विनाशे साल्वराजस्य तदैवाकरवं मतिम् ।। | 3-20-6a 3-20-6b |
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।। राजानमाहुकं चैव तथैवाकनदुन्दुभिम् ।। | 3-20-7a 3-20-7b |
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा। अप्रमादः सदा कार्यो नगरे यादवर्षभाः ।। | 3-20-8a 3-20-8b |
साल्वराजविनाशाय प्रयातं मां निबोधत। नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ।। | 3-20-9a 3-20-9b |
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः। त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा ।। | 3-20-10a 3-20-10b |
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ। सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहिशात्रवान् ।। | 3-20-11a 3-20-11b |
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः। वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम् ।। | 3-20-12a 3-20-12b |
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः। प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप ।। | 3-20-13a 3-20-13b |
प्रयातोस्मि नरव्याघ्र बलेन महता वृतः। क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना ।। | 3-20-14a 3-20-14b |
समतीत्य बहून्देशान्गिरींश्च बहुपादपान्। सरांसि सरितश्चैव मार्तिकावतमासदम् ।। | 3-20-15a 3-20-15b |
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात्। प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम् ।। | 3-20-16a 3-20-16b |
`दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके।' ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः। समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन् ।। | 3-20-17a 3-20-17b 3-20-17c |
`स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे। मद्बाहुना च सेनायां शिष्टायां किंचिदेव च' | 3-20-18a 3-20-18b |
स समालोक्य सहसा स्मयन्निव युधिष्ठिर। आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ।। | 3-20-19a 3-20-19b |
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः। पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ।। | 3-20-20a 3-20-20b |
स चापि पापप्रकृतिर्दैतेयापशदो नृप। मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ।। | 3-20-21a 3-20-21b |
सैनिकान्मम सूतं च हयांश्च स समाकिरत्। अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ।। | 3-20-22a 3-20-22b |
ततः शतसहस्राणि शराणां नतपर्वणाम्। चिक्षिपुः समरे वीरा मयि साल्वपदानुगाः ।। | 3-20-23a 3-20-23b |
ते हयांश्च रथं चैव ध्वजं दारुकमेव च। छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः ।। | 3-20-24a 3-20-24b |
न हया न रथो वीर न ध्वजो न च दारुकः। अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे ।। | 3-20-25a 3-20-25b |
ततोऽहमपि कौन्तेय शराणामयुतान्बहून्। आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम् ।। | 3-20-26a 3-20-26b |
न तत्रविषयस्त्वासीन्मम सैन्यस्य भारत। खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ।। | 3-20-27a 3-20-27b |
ततस्ते प्रेक्षकाः सर्वे देवा वै दिवमास्थिताः। हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ।। | 3-20-28a 3-20-28b |
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे। अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ।। | 3-20-29a 3-20-29b |
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत। वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ।। | 3-20-30a 3-20-30b |
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः। नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः। पतितास्तेऽपि भक्ष्यन्ते समुद्रांभोनिवासिभिः ।। | 3-20-31a 3-20-31b 3-20-31c |
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्। जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ।। | 3-20-32a 3-20-32b |
तान्दृष्ट्वा पतितांस्तत्र साल्वः सौभपतिस्ततः। मायायुद्धेन महता योधयामास मां युधि ।। | 3-20-33a 3-20-33b |
ततो गदा हलाः प्रासाः शूलशक्तिपरश्चथाः। असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः। पट्टसाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि ।। | 3-20-34a 3-20-34b 3-20-34c |
तामहं माययैवाशु प्रतिगृह्य व्यनाशयम्। तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ।। | 3-20-35a 3-20-35b |
ततोऽभवत्तम इव प्रकाश इव चाभवत्। दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ।। | 3-20-36a 3-20-36b |
अङ्गारपांसुवर्षं च शस्त्रवर्षं च भारत। एवं मायां प्रकुर्वाणो योधयामास मां रिपुः ।। | 3-20-37a 3-20-37b |
विज्ञाय तदहं सर्वं माययैव व्यनाशयम्। यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ।। | 3-20-38a 3-20-38b |
`ततो हतायां च मया मायायां युधि दानवः। मायामन्यां महाराज चकार मतिमोहिनीम् ।।' | 3-20-39a 3-20-39b |
ततो व्योम महाराज शतसूर्यमिवाभवत्। शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ।। | 3-20-40a 3-20-40b |
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः। ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ।। | 3-20-41a 3-20-41b |
तदस्त्रमस्तमस्त्रेण विधूतं शरतूलवत्। तथा तदभवद्युद्धं तुमुलं रोमहर्षणम्। लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम् ।। | 3-20-42a 3-20-42b 3-20-42c |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि विंशोऽध्यायः ।। 20 ।। |
टिप्पणी
[सम्पाद्यताम्]3-20-3 हृदिकात्मजं कृतकर्माणम् ।। 3-20-10 त्रिःसामा त्रिस्वरा नीचमन्द्रतारभावेन ।। 3-20-12 वाचयित्वा स्वस्तिवादानिति शेषः। शिरसा हरमिति ट. पाठः। शिरसाहुकमिति क. पाठः ।। 3-20-14 जितकाशिना जयशोभिना ।। 3-20-15 मार्तिकावतं देशविशेषम्। आसदं प्राप्तः ।। 3-20-16 सागरमन्तिकात् सागरसमीपे। अन्वगां अनुगतवानस्मि ।। 3-20-17 महोर्मिणः महोर्मिमतः। व्रीह्यादित्वादिनिः। नाभ्यां गर्भे गुप्त इत्यर्थः ।। 3-20-20 तस्य पुरं मदीयैः शरैर्नासाद्यतेति संबन्धः ।। 3-20-26 आमन्त्रितानां अभिमन्त्रितानाम्। दिव्येन विधिना अलौकिकया अस्त्रिविद्यया ।। 3-20-30 वध्यतां वध्यमानानाम् ।। 3-20-32 प्राणएन बलेन ।। 3-20-34 शक्त्यादीनां कनो दीप्तिर्गतिः शोभा वा तां पान्ति ते। कार्तिकेयेन्द्रवरुणयमायुधतुल्या इत्यर्थः ।।
आरण्यकपर्व-019 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-021 |