महाभारतम्-03-आरण्यकपर्व-026
← आरण्यकपर्व-025 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-026 वेदव्यासः |
आरण्यकपर्व-027 → |
दाल्भ्येन युधिष्ठिरंप्रति ब्राह्मणस्य क्षत्रवृद्धिकारणत्वकधनम् ।। 1 ।।
महर्षीणां युधिष्ठिराभिगमनम् ।। 2 ।।
वैशम्पायन उवाच।।
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु ।
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ।।१।।
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः ।
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ।।२।।
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः ।
आसीदुच्चार्यमाणानां निस्वनो हृदयङ्गमः ।।३।।
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् ।
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ।।४।।
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ।।५।।
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ।।६।।
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ।।७।।
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया ।।८।।
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ।।९।।
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ।।१०।।
नाब्राह्मणस्तात चिरं बुभूषे; दिच्छन्निमं लोकममुं च जेतुम् ।
विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् ।।११।।
चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् ।
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ।।१२।।
अनूनमासीदसुरस्य कामै; र्वैरोचनेः श्रीरपि चाक्षयासीत् ।
लब्ध्वा महीं ब्राह्मणसम्प्रयोगा; त्तेष्वाचरन्दुष्टमतो व्यनश्यत् ।।१३।।
नाब्राह्मणं भूमिरियं सभूति; र्वर्णं द्वितीयं भजते चिराय ।
समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः ।।१४।।
कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम् ।
ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ।।१५।।
ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।
तौ यदा चरतः सार्धमथ लोकः प्रसीदति ।।१६।।
यथा हि सुमहानग्निः कक्षं दहति सानिलः ।
तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ।।१७।।
ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् ।
अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ।।१८।।
अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय ।
यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय ।।१९।।
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर ।
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ।।२०।।
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् ।
युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ।।२१।।
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ।।२२।।
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ।।२३।।
ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः ।
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ।।२४।।
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।
अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ।।२५।। 3.26.25
वैशंपायन उवाच। | 3-11-1x |
वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु। अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ।। | 3-11-1a 3-11-1b |
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः। ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ।। | 3-11-2a 3-11-2b |
यजुषामृचां साम्नां च गद्यानां चैव सर्वशः। आसीदुच्चार्यमाणानां निःस्वनो हृदयंगमः ।। | 3-11-3a 3-11-3b |
ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम्। संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ।। | 3-11-4a 3-11-4b |
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम्। सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ।। | 3-11-5a 3-11-5b |
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्। होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् ।। | 3-11-6a 3-11-6b |
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः। भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ।। | 3-11-7a 3-11-7b |
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः। सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया ।। | 3-11-8a 3-11-8b |
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम। भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ।। | 3-11-9a 3-11-9b |
ब्राह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह। उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ ।। | 3-11-10a 3-11-10b |
नाब्राह्मणस्तात चिरं बुभूषे- दिच्छन्नमं लोकममुं च जेतुम्। विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं हन्ति नृपः सपत्नान् ।। | 3-11-11a 3-11-11b 3-11-11c 3-11-11d |
चरन्नैश्रेयसं धर्मं प्रजापालनकारितम्। नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ।। | 3-11-12a 3-11-12b |
अनूनमासीदसुरस्य कामै- वैरोचनेः श्रीरपि चाक्षयाऽऽसीत्। लब्ध्वा महीं ब्राह्मणसंप्रयोगा- त्तेष्वाचरन्दुष्टमयथो व्यनश्यत् ।। | 3-11-13a 3-11-13b 3-11-13c 3-11-13d |
नाब्राह्मणं भूमिरियं सभूति- र्वर्णं द्वितीयं भजते चिराय। समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम् ।। | 3-11-14a 3-11-14b 3-11-14c 3-11-14d |
कुञ्चरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्। ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम् ।। | 3-11-15a 3-11-15b |
ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्। तौ यदा चरतः सार्धं तदा लोकः प्रसीदती ।। | 3-11-16a 3-11-16b |
यथा हि सुमहानग्निः कक्षं दहति सानिलः। तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ।। | 3-11-17a 3-11-17b |
ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत्। अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ।। | 3-11-18a 3-11-18b |
अलब्धलाभाय च लब्धवृद्धये। यथार्हतीर्थप्रतिपादनाय। यशस्विनं वेदविदं विपश्चितं बहुश्रुं ब्राह्मणमेव वासयेत् ।। | 3-11-19a 3-11-19b 3-11-19c 3-11-19d |
ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर। तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ।। | 3-11-20a 3-11-20b |
वैशंपायन उवाच। | 3-11-21x |
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमंपूजयन्। युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन् ।। | 3-11-21a 3-11-21b |
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः। इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ।। | 3-11-22a 3-11-22b |
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः। हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ।। | 3-11-23a 3-11-23b |
कृतवाक्च सुवाश्चैव बृहदश्चो विभावसुः। ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ।। | 3-11-24a 3-11-24b |
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः। अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ।। | 3-11-25a 3-11-25b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाबिगमनपर्वणि षड्विंशोऽध्यायः ।। 26 ।। |
टिप्पणी
[सम्पाद्यताम्]3-11-1 अनुकीर्णं व्याप्तम् ।। 3-11-3 गद्यानां ब्राह्मणवाक्यानां पादाक्षरादिनियमहीनानाम्। साम्नां च निगमानां च भारतेति क. पाटः। भाष्याणां चैव सर्वश इति ख. पाठः. ।। 3-11-5 संध्यामुपास्येति शेषः ।। 3-11-11 नृपः अब्राह्मणो ब्राह्मणहीनो न बुभूषेत् न भवितुमिच्छेत्। तस्येच्छतोपि जयो दुर्लभ इत्यर्थः। विनीतौ सम्यक् शिक्षितौ धर्मार्थौ येन ।। 3-11-12 तीर्थमुपायम् ।। 3-11-13 वैरोचनेर्बलेः ।। 3-11-15 अङ्कुशग्रहमङ्कुशेन निगृह्णाति तम्। परिगृह्य वर्जयित्वा। परिर्वर्जने ।। 3-11-18 बुद्धिपर्येषणं बुद्धेः साकल्येन संग्रहणम् ।। 3-11-19 यथार्हतीर्थे यथायोग्यपात्रे। प्रतिपादनाय दानाय ।।
आरण्यकपर्व-025 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-027 |