महाभारतम्-03-आरण्यकपर्व-016
← आरण्यकपर्व-015 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-016 वेदव्यासः |
आरण्यकपर्व-017 → |
कृष्णेन युधिष्ठिरंप्रति साल्वयादवयुद्धवर्णनम् ।। 1 ।।
वासुदेव उवाच।।
तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा ।
प्रभूतनरनागेन बलेनोपविवेश ह ।।१।।
समे निविष्टा सा सेना प्रभूतसलिलाशये ।
चतुरङ्गबलोपेता शाल्वराजाभिपालिता ।।२।।
वर्जयित्वा श्मशानानि देवतायतनानि च ।
वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ।।३।।
अनीकानां विभागेन पन्थानः षट्कृताभवन् ।
प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ।।४।।
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् ।
रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् ।।५।।
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् ।
विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ।।६।।
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ ।
अभिसारयामास तदा वेगेन पतगेन्द्रवत् ।।७।।
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा ।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ।।८।।
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव ।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ।।९।।
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः ।
संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः ।।१०।।
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे ।
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ।।११।।
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ।।१२।।
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ।।१३।।
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह ।
मुमोच मायाविहितं शरजालं महत्तरम् ।।१४।।
ततो मायामयं जालं माययैव विदार्य सः ।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ।।१५।।
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः ।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ।।१६।।
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ ।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ।।१७।।
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ।।१८।।
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।
चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ।।१९।।
तया त्वभिहतो राजन्वेगवानपतद्भुवि ।
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ।।२०।।
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे ।
प्रविश्य महतीं सेनां योधयामास मे सुतः ।।२१।।
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।
महारथः समाज्ञातो महाराज महाधनुः ।।२२।।
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ।।२३।।
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः ।
विनदन्तौ महाराज सिंहाविव महाबलौ ।।२४।।
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ।।२५।।
स विविन्ध्याय सक्रोधः समाहूय महारथः ।
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ।।२६।।
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् ।
कामगेन स सौभेन शाल्वः पुनरुपागमत् ।।२७।।
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।
दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ।।२८।।
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् ।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ।।२९।।
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि ।
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् ।।३०।।
अहं सौभपतेः सेनामायसैर्भुजगैरिव ।
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ।।३१।।
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ।।३२।।
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन ।
विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ।।३३।। 3.16.33
वासुदेव उवाच। | 3-16-1x |
तां तूपयातो राजेन्द्र साल्वः सौभपतिस्तदा। प्रभूतनरनागेन बलेनोपविवेश ह ।। | 3-16-1a 3-16-1b |
समे निविष्टां सा सेना प्रभूतसलिलाशये। चतुरङ्गबलोपेता साल्वराजाभिपालिता ।। | 3-16-2a 3-16-2b |
वर्जयित्वा श्मशानानि देवतायतनानि च। वल्मीकांश्चैव चैत्यांश्च संनिविष्टमभूद्बलम् ।। | 3-16-3a 3-16-3b |
अनीकानां विभागेन पन्थानः सुकृतास्तथा। प्रथमा नवमाश्चैव साल्वस्य शिबिरे नृप ।। | 3-16-4a 3-16-4b |
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्। रथनागाश्वकलिलं पदातिजनसंकुलम् ।। | 3-16-5a 3-16-5b |
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम्। विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम् ।। | 3-16-6a 3-16-6b |
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ। अभिसारयामास तदा वेगैन पतगेन्द्रवत् ।। | 3-16-7a 3-16-7b |
तदापतन्तं संदृश्य बलं साल्वपतेस्तदा। निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ।। | 3-16-8a 3-16-8b |
असहन्तोऽभियानं तत्साल्वराजस्य कौरव। चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च रमहारथः ।। | 3-16-9a 3-16-9b |
ते रथैर्दंशिताः सर्वेविचित्राभरणध्वजाः। संसक्ताः साल्वराजस्य बहुभिर्योधपुङ्गवैः ।। | 3-16-10a 3-16-10b |
गृहीत्वा कार्मुकं साम्बः साल्वस्य सचिवं रणे। यीधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम् ।। | 3-16-11a 3-16-11b |
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत्। मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक् ।। | 3-16-12a 3-16-12b |
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः। क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः ।। | 3-16-13a 3-16-13b |
ततः साम्बाय राजेन्द्र क्षेमधूर्तिरपि स्वयम्। मुमोच मायाविहितं शरजालं महत्तरम् ।। | 3-16-14a 3-16-14b |
ततो मायामयं जालं माययैव विदार्यसः। साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ।। | 3-16-15a 3-16-15b |
ततः स विद्धः साम्बेन क्षेमधूर्तिश्चमूपतिः। अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ।। | 3-16-16a 3-16-16b |
तस्मिन्विप्रद्रुते शरे साल्वस्याथ चमूपतौ। वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ।। | 3-16-17a 3-16-17b |
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः। वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ।। | 3-16-18a 3-16-18b |
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्। चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः ।। | 3-16-19a 3-16-19b |
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि। वातरुग्णं इव क्षुण्णो जीर्णमूलोवनस्पतिः ।। | 3-16-20a 3-16-20b |
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे। प्रविश्य महतीं सेनां योधयामास मे सुतः ।। | 3-16-21a 3-16-21b |
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः। महारथः समाज्ञातो महाराज महाधनुः ।। | 3-16-22a 3-16-22b |
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः। वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत् ।। | 3-16-23a 3-16-23b |
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः। विनदन्तौ महाराज सिंहाविव महाबलौ ।। | 3-16-24a 3-16-24b |
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्। अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ।। | 3-16-25a 3-16-25b |
स विविन्ध्याय सक्रोधः समाहूय महारथः। चिक्षेप मे सुतो राजन्स गतासुरथापतत् ।। | 3-16-26a 3-16-26b |
विविन्ध्यं निहृतं दृष्ट्वा तां च विक्षोभितां चमूम्। कामगेन स सौभेन साल्वः पुनरुपागमत् ।। | 3-16-27a 3-16-27b |
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्। दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम् ।। | 3-16-28a 3-16-28b |
ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम्। आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ।। | 3-16-29a 3-16-29b |
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि। निवारयन्तं संग्रामे बलात्सौभं सराजकम् ।। | 3-16-30a 3-16-30b |
अयं सौभपतेः सेनामायसैर्भुजगैरिव। धनुर्भुजविनिर्मुक्तैर्नाशयम्यद्य यादवाः ।। | 3-16-31a 3-16-31b |
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति। मयाऽभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ।। | 3-16-32a 3-16-32b |
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन। धिष्टितं तद्बलं द्वारि युयुधे च यथासुखम् ।। | 3-16-33a 3-16-33b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षोडशोऽध्यायः ।। 16 ।। |
टिप्पणी
[सम्पाद्यताम्]3-16-2 समे देशे ।। 3-16-4 प्रवणाय च नैवासन्निति झ. पाठः ।। 3-16-5 कलिलं संकटम्। पदातिध्वजसंकुलमिति झ. पाठः ।। 3-16-7 अभिसारयामास नगरसमीपं गमयामास। सैन्यं पतगेन्द्रवत्सौभं चोपरितः अभिसारयामास ।। 3-16-8 आपतन्समापतत् ।। 3-16-16 क्षेमधूर्तिः स्मयन्निवेति क. ट. पाठः। अपायात्पलायितः ।। 3-16-18 अभिपन्नः आभिमुख्येनासादितः ।। 3-16-19 व्याविध्य सत्यविक्रमः इति झ. पाठः। तत्र व्याविध्य भ्रामयित्वेत्यर्थः ।। 3-16-20 रुग्णः क्षुण्णश्च गजादिपदाघातैः ।। 3-16-27 सौभेन खेचरेण पुरेण ।। 3-16-29 निर्याय निर्गत्य। अवस्थाप्य आश्वास्य। आनर्तानां द्वारकावासिनाम् ।। 3-16-31 धनुर्भुजविनिर्मुक्तैः धनुषः भुजेन कौटिल्येन अत्याकर्षणजेन निर्मुक्तैः. भुज कौटिल्ये तुदादिः ।। 3-16-33 धिष्ठितं अधिष्ठितम् ।।
आरण्यकपर्व-015 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-017 |