महाभारतम्-03-आरण्यकपर्व-077
← आरण्यकपर्व-076 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-077 वेदव्यासः |
आरण्यकपर्व-078 → |
पुष्करं निष्कासितवता नलेन कुण्डिनपुरात्सपुत्राया दमयन्त्या आनयनपूर्वकं प्रजापालनेन सुखवासः ।। 1 ।। बृहदश्वेन द्युधिष्ठिरायाक्षहृदयविद्योपदेशपूर्वकं संक्षेपेण हरिश्चन्द्रोपाख्यानकथनम् ।। 2 ।।
बृहदश्व उवाच।।
प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे ।
महत्या सेनया राजा दमयन्तीमुपानयत् ।।१।।
दमयन्तीमपि पिता सत्कृत्य परवीरहा ।
प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ।।२।।
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः ।
वर्तयामास मुदितो देवराडिव नन्दने ।।३।।
तथा प्रकाशतां यातो जम्बूद्वीपेऽथ राजसु ।
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ।।४।।
ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः ।
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ।।५।।
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः ।
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ।।६।।
एकाकिनैव सुमहन्नलेन पृथिवीपते ।
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ।।७।।
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव ।
रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ।।८।।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ।।९।।
इतिहासमिमं चापि कलिनाशनमुच्यते ।
शक्यमाश्वासितुं श्रुत्वा त्वद्विधेन विशां पते ।।१०।।
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा ।
तस्याये च व्यये चैव समाश्वसिहि मा शुचः ।।११।।
ये चेदं कथयिष्यन्ति नलस्य चरितं महत् ।
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ।।१२।।
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ।।१२।।
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ।
पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ।।१३।।
अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ।।१३।।
भयं पश्यसि यच्च त्वमाह्वयिष्यति मां पुनः ।
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ।।१४।।
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम ।
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ।।१५।।
वैशम्पायन उवाच।।
ततो हृष्टमना राजा बृहदश्वमुवाच ह ।
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ।।१६।।
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने ।
दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ।।१७।।
बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् ।
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ।।१८।।
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः ।
तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ।।१९।।
इति पार्थो महाबाहुर्दुरापं तप आस्थितः ।
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ।।२०।।
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः ।
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ।।२१।।
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने ।
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ।।२२।।
दह्यमानेन तु हृदा शरणार्थी महावने ।
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ।।२३।। 3.79
बृहदश्व उवाच। | 3-77-1x |
प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे। महत्या सेनया राजा दमयन्तीमुपानयत् ।। | 3-77-1a 3-77-1b |
`पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः। मुदा परमया युक्तो बभूव भरतर्षभ ।। | 3-77-2a 3-77-2b |
अथ हृष्टमना राजा महत्या सेनया सह। सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते' ।। | 3-77-3a 3-77-3b |
दमयन्तीमपि पिता सत्कृत्यपरवीरहा। प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः ।। | 3-77-4a 3-77-4b |
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः। वर्तयामास मुदितो दोवराडिव नन्दने ।। | 3-77-5a 3-77-5b |
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु। पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ।। | 3-77-6a 3-77-6b |
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः। तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात् ।। | 3-77-7a 3-77-7b |
दुःखमेतादृशंप्राप्तो नलः परपुरंजयः। देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ।। | 3-77-8a 3-77-8b |
एकाकिनैव सुमहन्नलेन पृथिवीपते। दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ।। | 3-77-9a 3-77-9b |
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव। कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन् ।। | 3-77-10a 3-77-10b |
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः। नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ।। | 3-77-11a 3-77-11b |
कर्कोटकस्य नागस् दमयन्त्या नलस्य च। ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ।। | 3-77-12a 3-77-12b |
इतिहासमिमं चापि कलिनाशनमच्युत। शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशांपते ।। | 3-77-13a 3-77-13b |
अस्थिरत्वं च संचिन्त्य पुरुषार्थस् नित्यदा। तस्योदये व्यये चापि न चिन्तयितुमर्हसि ।। | 3-77-14a 3-77-14b |
श्रुत्वेतिहासं नृषते समाश्वसिहि मा शुचः। व्यसने त्वं महाराज न विषीदितुमर्हसि ।। | 3-77-15a 3-77-15b |
विषमावस्थिते दैवे पौरुषेऽफलतां गते। विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः ।। | 3-77-16a 3-77-16b |
ये चेदं कथयिष्यन्ति नलस् चरितं महत्। श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ।। | 3-77-17a 3-77-17b |
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति। इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ।। | 3-77-18a 3-77-18b |
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम्। आरोग्यप्रीतिमांश्चैव भविष्ति न संशयः ।। | 3-77-19a 3-77-19b |
भयात्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः। अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ।। | 3-77-20a 3-77-20b |
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम। उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ।। | 3-77-21a 3-77-21b |
वैशंपायन उवाच। | 3-77-22x |
ततो हृष्टमना राजा बृहदश्वमुवाच ह। भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ।। | 3-77-22a 3-77-22b |
`कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः'। ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने। `लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत ।। | 3-77-23a 3-77-23b 3-77-23c |
बृहदश्व उवाच। | 3-77-24x |
पुनरेव तु वक्ष्यामि यस्त्वत्तो दुःखितो नृपः। तं शृणुष्व महाराज सर्वदुःखापनुत्तये ।। | 3-77-24a 3-77-24b |
इक्ष्वाकूणां कुले जातो महात्मा पृथिवीपतिः। त्रिशङ्कुरिति विख्यातोराजराजो महाद्युतिः ।। | 3-77-25a 3-77-25b |
हरिश्चन्द्रस्ततो जज्ञे गुणरत्नाकरो नृपात्। ततो विशेषैर्विविधैर्यज्ञैर्विपुलदक्षिणैः ।। | 3-77-26a 3-77-26b |
स तु लोके वरः पुंसां पुण्यश्लोको महायशाः। सत्यवादी मधुरवाक्सत्येन बहुभाषिता ।। | 3-77-27a 3-77-27b |
तस्य भार्याऽभवद्भूमौ सौशील्यसमलंकृता। उशीनरस्य राजर्षेर्दुहिता पुण्यलक्षणा ।। | 3-77-28a 3-77-28b |
स्वयंवरे महाभागं वरयामास भामिनी। हरिश्चन्द्रं समेतानां राज्ञां मद्ये पतिं विभुम् ।। | 3-77-29a 3-77-29b |
तया सह महीपालः सत्यवत्या मनोज्ञया। रेमे च सुचिरं कालं राजा राज्यमवाप्य च ।। | 3-77-30a 3-77-30b |
तस्यां देव्यां हरिश्चन्द्राज्जज्ञे राजीवलोचनः। पुत्रः पुण्यवतां श्रेष्ठो लोहिताश्व इति श्रुतः ।। | 3-77-31a 3-77-31b |
देव्या पुत्रेण सहितः पुण्यश्लोको महायशाः। वसिष्ठयाज्यो नृपतिरीजे शुण्यैर्महाध्वरैः ।। | 3-77-32a 3-77-32b |
एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः। पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया ।। | 3-77-33a 3-77-33b |
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः। आजगाम वसिष्ठोऽपि वामदेवसहायवान् ।। | 3-77-34a 3-77-34b |
उपस्थाने च संवृत्ते सुखासीने पुरंदरे। वर्ण्यमानेषु च तदा सत्यवादिषु राजसु ।। | 3-77-35a 3-77-35b |
तस्यां संसदिसर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे। यज्ञदानतपःशीलसत्यवाक्यदृझव्रतैः ।। | 3-77-36a 3-77-36b |
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात्। तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम् ।। | 3-77-37a 3-77-37b |
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः। पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः ।। | 3-77-38a 3-77-38b |
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः। अवाप परमं दुःखं मरणादमनोहरम् ।। | 3-77-39a 3-77-39b |
वैशंपायन उवाच। | 3-77-40x |
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः। भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः। विस्मयं परमं गत्वा साधुसाध्वित्यभाषत ।। | 3-77-40a 3-77-40b 3-77-40c |
ततो हरिश्चन्द्रकथां च सर्वे श्रुत्वा तु राजा मनुजेन्द्रकेतुः। विहाय शोकं विजहार भूयः स्मरन्हरिश्चन्द्रमनन्तकीर्तिम् ।। | 3-77-41a 3-77-41b 3-77-41c 3-77-41d |
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम्। आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह'। उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः ।। | 3-77-42a 3-77-42b 3-77-42c |
बृहदश्व गते पार्थमश्रौषीत्सव्यसाचिनम्। वर्तमनं तपस्युग्रे वायुभक्षं मनीषिणम् ।। | 3-77-43a 3-77-43b |
ब्राह्मणएभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः। तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः ।। | 3-77-44a 3-77-44b |
इतिपार्थो महाबाहुर्दुरापं तप आस्थितः। न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ।। | 3-77-45a 3-77-45b |
यथा धनंजयः पार्थस्तपस्वी नियतव्रतः। मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ।। | 3-77-46a 3-77-46b |
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने। अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ।। | 3-77-47a 3-77-47b |
दह्यमानेन तु हृदा शरणार्थी महावने। ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ।। | 3-77-48a 3-77-48b |
`प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः। आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः ।। | 3-77-49a 3-77-49b |
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः। अपश्यन्नर्जुनं तत्रबभूवाश्रुपरिप्लुतः ।। | 3-77-50a 3-77-50b |
संतप्यमानः कौन्तेयो भीमसेनमुवाच ह। कदा द्रक्ष्यामि वै भीम पार्तमत्र तवानुजम् ।। | 3-77-51a 3-77-51b |
मत्कृते हि कुरुश्रेष्ठ तष्यते परमं तपः। तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्बहम् ।। | 3-77-52a 3-77-52b |
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो। प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः' ।। | 3-77-53a 3-77-53b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तसप्ततितमोऽध्यायः ।। 77 ।। |
3-77-1 प्रशान्ते वीतशोके। प्रशान्ते पुष्करे हृष्टे इति क. पाठः ।। 3-77-7 वक्ष्यसे दीव्यसे। वशकान्तावित्यस्य रूपम्। समहच्यक्ष्यसे ह्यघमिति क. पाठः ।। 3-77-21 वेद वेद्मि। उपपद्यस्व गृहाण ।।
आरण्यकपर्व-076 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-078 |