महाभारतम्-03-आरण्यकपर्व-027
← आरण्यकपर्व-026 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-027 वेदव्यासः |
आरण्यकपर्व-028 → |
भीमादिसनिधाने युधिष्ठिरंप्रति द्रौपद्याः सविषादवचनम् ।।
वैशम्पायन उवाच।।
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया ।
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ।।१।।
प्रिया च दर्शनीया च पण्डिता च पतिव्रता ।
ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ।।२।।
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन ।
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ।।३।।
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् ।
भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन ।।४।।
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ।।४।।
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः ।
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ।।५।।
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः ।
ईदृशं दुःखमानीय मोदते पापपूरुषः ।।६।।
चतुर्णामेव पापानामश्रु वै नापतत्तदा ।
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ।।७।।
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ।।८।।
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम ।
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ।।९।।
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् ।
शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ।।१०।।
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् ।
दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ।।११।।
यदपश्यं सभायां त्वां राजभिः परिवारितम् ।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ।।१२।।
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् ।
सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ।।१३।।
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा ।
दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ।।१४।।
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ।
ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ।।१५।।
यतीनामगृहाणां ते तथैव गृहमेधिनाम् ।
दीयते भोजनं राजन्नतीव गुणवत्प्रभो ।।१६।।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ।।१६।।
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः ।
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ।।१७।।
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः ।
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ।।१८।।
भीमसेनमिमं चापि दुःखितं वनवासिनम् ।
ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ।।१९।।
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत ।
सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।२०।।
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा ।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।२१।।
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः ।
त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ।।२२।।
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ।।२३।।
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः ।
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ।।२४।।
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः ।
ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।२५।।
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् ।
न च ते वर्धते मन्युस्तेन मुह्यामि भारत ।।२६।।
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।२७।।
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः ।
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः ।।२८।।
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।२९।।
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे ।
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।३०।।
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर ।
सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।३१।।
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः ।
मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ।।३२।।
नूनं च तव नैवास्ति मन्युर्भरतसत्तम ।
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ।।३३।।
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् ।
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ।।३४।।
यो न दर्शयते तेजः क्षत्रियः काल आगते ।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ।।३५।।
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन ।
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ।।३६।।
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति ।
अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ।।३७।। 3.27.40
वैशंपायन उवाच। | 3-27-1x |
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया। उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ।। | 3-27-1a 3-27-1b |
प्रिया च दर्शनीया च पण्डिता च पतिव्रता। अथ कृष्णा धर्मराजमिदं वचनमब्रवीत् ।। | 3-27-2a 3-27-2b |
द्रौपद्युवाच। | 3-27-3x |
न नूनं तस्य पापस्य दुःखमस्मासु किंचन। विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ।। | 3-27-3a 3-27-3b |
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्। वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ।। | 3-27-4a 3-27-4b |
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः। यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा। `वचनान्यपरोक्षाणि दुर्वाच्यानि च संसदि ।।' | 3-27-5a 3-27-5b 3-27-5c |
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः। ईदृशं दुःखमानीय मोदते पापपूरुषः ।। | 3-27-6a 3-27-6b |
चतुर्णामेव पापानामस्रं न पतितं तदा। त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ।। | 3-27-7a 3-27-7b |
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःखशासनस्य च ।। | 3-27-8a 3-27-8b |
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम। दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ।। | 3-27-9a 3-27-9b |
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्। शोचामित्वां महाराजदुःखानर्हंसुखोचितम् ।। | 3-27-10a 3-27-10b |
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्। दृष्ट्वा कुशबृशीं चेमां शोको मां दारयत्ययम् ।। | 3-27-11a 3-27-11b |
यदपश्यं सभायां त्वां राजभिः परिवारितम्। तच्च राजन्नपश्यन्त्याः का सान्तिर्हृदयस्यमे ।। | 3-27-12a 3-27-12b |
या त्वाऽह्रं चन्दनादिग्धमपश्यं सूर्यवर्चसम्। सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ।। | 3-27-13a 3-27-13b |
या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा। दृष्टवत्यस्मिराजेनद्र साऽद्य पश्यामि चीरिणम् ।। | 3-27-14a 3-27-14b |
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः। ह्रियते ते गृहादन्नं संस्कृतंसार्वकामिकम् ।। | 3-27-15a 3-27-15b |
यतीनामगृहाणां ते तथैव गृहमेधिनाम्। दीयते भोजनं राजन्नतीव गुणवत्प्रभो ।। | 3-27-16a 3-27-16b |
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे। सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्। तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ।। | 3-27-17a 3-27-17b 3-27-17c |
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः। अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ।। | 3-27-18a 3-27-18b |
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः। अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ।। | 3-27-19a 3-27-19b |
भीमसेनमिमं चापि दुःखितं वनवासिनम्। ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते ।। | 3-27-20a 3-27-20b |
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्। सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे ।। | 3-27-21a 3-27-21b |
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।। | 3-27-22a 3-27-22b |
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः। त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः ।। | 3-27-23a 3-27-23b |
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ।। | 3-27-24a 3-27-24b |
यस् शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः। यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ।। | 3-27-25a 3-27-25b |
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः। ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि ।। | 3-27-26a 3-27-26b |
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्। न च तेवर्धते मन्युस्तेन मुह्यामि भारत ।। | 3-27-27a 3-27-27b |
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।। | 3-27-28a 3-27-28b |
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः। प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप ।। | 3-27-29a 3-27-29b |
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ।। | 3-27-30a 3-27-30b |
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे। नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ।। | 3-27-31a 3-27-31b |
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर। सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव ।। | 3-27-32a 3-27-32b |
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ। अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते ।। | 3-27-33a 3-27-33b |
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः। धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्। मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव ।। | 3-27-34a 3-27-34b 3-27-34c |
नूनं च तव नैवास्ति मन्युर्भरतसत्तम। यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा नव्यथते मनः ।। | 3-27-35a 3-27-35b |
न निर्मन्युःक्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्। तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ।। | 3-27-36a 3-27-36b |
यो न दर्शयते तेजः क्षत्रियः काल आगते। सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ।। | 3-27-37a 3-27-37b |
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन। तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ।। | 3-27-38a 3-27-38b |
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति। अप्रियः सर्वभूतानां सोमुत्रेह च नश्यति ।। | 3-27-39a 3-27-39b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तविंशोऽध्यायः ।। 27 ।। |
टिप्पणी
[सम्पाद्यताम्]3-27-3 अस्मासु दिःखितेष्विति शेषः ।। 3-27-6 आनीय प्रापय्य ।। 3-27-7 अस्रं नेत्रजलम् ।। 3-27-11 दान्तं गजदन्तमयम्। कुशबृसीं कुशासनम् ।। 3-27-13 आदिग्धं लिप्तम् ।। 3-27-14 कौशिकैः कोशजैः ।। 3-27-16 अगृहाणां ब्रह्मचारिणाम् ।। 3-27-17 सर्वकामैः काम्यमानैरन्नैः सर्वैः काभैर्मनोरथैर्द्विजान् अपूजयथाः ।। 3-27-24 अर्जुनेन कार्तवीर्येण ।। 3-27-29 आदत्त आत्तवान् ।। 3-27-31 चर्भिणां खङ्गचर्मधराणाम् ।। 3-27-36 निर्वचनं क्षत्रियशब्दस्य क्षरते हिनस्तीति क्षत्रमिति ।।
आरण्यकपर्व-026 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-028 |