महाभारतम्-03-आरण्यकपर्व-111
पठन सेटिंग्स
← आरण्यकपर्व-110 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-111 वेदव्यासः |
आरण्यकपर्व-112 → |
युधिष्ठिरेण कौशिकीतीरे ऋश्यशृङ्गाश्रमगमनम् ।। 1 ।। लोमशेन युधिष्ठिरंप्रति विभाण्डकान्मृग्यामृश्यशृङ्गोत्पत्तिकथनम् ।। 2 ।। लोमपादेनानावृष्टिनिवृत्तये ऋश्यशृङ्गानयनं चोदिताभिर्वेश्याभिस्तद्वनगमनम् ।। 3 ।।
लोमश उवाच। | 3-111-1x |
एषा देवनदी पुण्या कौशिकी भरतर्षभ। विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ।। | 3-111-1a 3-111-1b |
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः। ऋश्यशृङ्गः सुतो यस् तपस्वी संयतेन्द्रियः ।। | 3-111-2a 3-111-2b |
तपसो यः प्रभावेन वर्षयामास वासवम्। अनावृष्ठ्यां भयाद्यस्य ववर्ष बलवृत्रहा ।। | 3-111-3a 3-111-3b |
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः। विषये लोमपादस्य यश्चकाराद्भुतं महत् ।। | 3-111-4a 3-111-4b |
निर्वर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः। लोमपादो दुहितरं सावित्रीं सविता यथा ।। | 3-111-5a 3-111-5b |
युधिष्ठिर उवाच। | 3-111-6x |
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः। विरुद्धयोनिसंसर्गः कथं च तपसा युतः ।। | 3-111-6a 3-111-6b |
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः। अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा ।। | 3-111-7a 3-111-7b |
कथंरूपा च सा शान्ता राजपुत्री पतिव्रता। लोभयामास या चेतो मृगभूस्य तस्य वै ।। | 3-111-8a 3-111-8b |
लोमपादश्च राजर्षिर्यदाऽश्रूयत धार्मिकः। कथं वै विषये तस्य नावर्षत्पाकशासनः ।। | 3-111-9a 3-111-9b |
एतन्मे भगवन्सर्वं विस्तरेण यथातथम्। वक्तुमर्हसि शुश्रूषोर्ऋश्यशृङ्गस् चेष्टितम् ।। | 3-111-10a 3-111-10b |
लोमश उवाच। | 3-111-11x |
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः। अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः ।। | 3-111-11a 3-111-11b |
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान्। महाह्रदे महातेजा बालः स्थविरसंभतः ।। | 3-111-12a 3-111-12b |
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः। दीर्घकालं रिश्रान्त ऋषिर्देवर्षिसंमितः ।। | 3-111-13a 3-111-13b |
तस्य रेतः प्रचस्कन्द दृष्ट्वाऽप्सरसमुर्वशीम्। अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा। सह तोयेन तृषिता गर्भिणी चाभवत्ततः ।। | 3-111-14a 3-111-14b 3-111-14c |
सा पुरोक्ता भगवता ब्रह्मणा लोककर्तृणा। देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे ।। | 3-111-15a 3-111-15b |
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात्। तस्यां मृग्यां समभवत्तस्व पुत्रो महानृषिः। ऋश्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्धत ।। | 3-111-16a 3-111-16b 3-111-16c |
तस्य शृङ्गं शिरसि वै राजन्नासीन्महात्मनः। तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् ।। | 3-111-17a 3-111-17b |
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्रमानुषः। तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप ।। | 3-111-18a 3-111-18b |
एतस्मिन्नेव काले तु सखा दशरशस्य वै। कलोमपाद इतिख्यातो ह्यङ्गानामीश्वरोऽभवत् ।। | 3-111-19a 3-111-19b |
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः। `दैवोपहतसत्त्वेन धर्मज्ञेनापि भारत'। स ब्राह्मणैः परित्यक्तस्तदा भरतसत्तम ।। | 3-111-20a 3-111-20b 3-111-20c |
पुरोहितापचाराच्च तस्य राज्ञो यदच्छया। न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः ।। | 3-111-21a 3-111-21b |
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः। प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपते ।। | 3-111-22a 3-111-22b |
कथं प्रवर्षेत्पर्जन्य उपायः परिमृश्यताम्। तमूचुश्चोदितास्ते तु स्वमतानि मनीषिणः ।। | 3-111-23a 3-111-23b |
तत्र त्वेको रमुनिवरस्तं राजानमुवाच ह। कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर ।। | 3-111-24a 3-111-24b |
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव। ऐणेयमनभिज्ञं च नारीणामार्जवे रतम् ।। | 3-111-25a 3-111-25b |
स चेदवतरेद्राजन्विषयं ते महातपाः। सद्यः प्रवर्षेत्पर्जन्य इति मे नास्ति संशयः ।। | 3-111-26a 3-111-26b |
एतच्छ्रुत्वा वचो राजन्कृत्वा निष्कृतिमात्मनः। स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु ।। | 3-111-27a 3-111-27b |
राजानमागतं ज्ञात्वा प्रतिसंजगृहुः प्रजाः। `स च ता प्रतिजग्राह पितेव हितकृत्सदा' ।। | 3-111-28a 3-111-28b |
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान्। ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये ।। | 3-111-29a 3-111-29b |
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः। शास्त्रज्ञैरलमर्थज्ञौर्नीत्यां च परिनिष्ठितैः ।। | 3-111-30a 3-111-30b |
ततश्चानाययामास वारमुख्या महीपतिः। वेश्याः सर्वत्रनिष्णातास्ता उवाच स पार्थिवः ।। | 3-111-31a 3-111-31b |
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः। लोभयित्वाऽभिविश्चास्य विषयं मम शोभनाः ।। | 3-111-32a 3-111-32b |
ता राजभयभीताश्च शापभीताश्च योषितः। अशक्यमूचुस्तत्कार्यं विषण्णा गतचेतसः ।। | 3-111-33a 3-111-33b |
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत्। प्रयतिष्ये महाराज तमानेतुं तपोधनम् ।। | 3-111-34a 3-111-34b |
अभिप्रेतांस्तु मे कामांस्त्वमनुज्ञातुमर्हसि। ततः शक्ष्याम्यानयितुमृश्यशृङ्गमृषेः सुतम् ।। | 3-111-35a 3-111-35b |
तस्याः सर्वमभिप्रेतमन्वजानात्स पार्थिवः। धनं च प्रददौ भूरि रत्नानि विविधानि च ।। | 3-111-36a 3-111-36b |
ततो रूपेण सपन्ना वयसा च महीपते। स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा ।। | 3-111-37a 3-111-37b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकादशाधिकशततमोऽध्यायः ।। 111 ।। |
3-111-2 काश्यपस्य विभाण्कस्य ।। 3-111-3 हर्षयामास वासवमिति ध. पाठः ।। 3-111-10 शुस्रूषोर्मे इति संबन्धः ।। 3-111-15 सूय प्रसूय ।। 3-111-16 विधेः विधिवाक्यस्य दैवनिर्मिताद्धेतोः भावित्वात् अपरिहार्यत्वाच्च ।। 3-111-19 अङ्गानां देशानाम् ।। 3-111-20 मिथ्याकृतः मया तुभ्यं दातुं किमपि न प्रतिश्रुतमित्यपलापं कृतवानित्यर्थः ।। 3-111-24 निष्कृतिं प्रायश्चित्तम् ।। 3-111-25 मुनिसुतमाह्वयस्वचेति क. पाठः ।। 3-111-31 सर्वत्र परवञ्चनादौ निष्णाताः कुशलाः ।। 3-111-34 जरद्योषा वृद्धास्त्री ।। 3-111-36 अन्वजानात् अजुज्ञातवान् ।।
आरण्यकपर्व-110 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-112 |