महाभारतम्-03-आरण्यकपर्व-075
← आरण्यकपर्व-074 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-075 वेदव्यासः |
आरण्यकपर्व-076 → |
परेद्युः प्रभाते भीमराजेन स्रातालंकृतयोर्नलदमयन्त्योर्दर्शनम् ।। 1 ।।
ऋतुपर्णेन नलं क्षमापयित्वा ततोऽश्वविद्यापरिग्रहणपूर्वकं स्वपुरंप्रति गमनम् ।। 2 ।।
बृहदश्व उवाच।।
अथ तां व्युषितो रात्रिं नलो राजा स्वलङ्कृतः ।
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ।।१।।
ततोऽभिवादयामास प्रयतः श्वशुरं नलः ।
तस्यानु दमयन्ती च ववन्दे पितरं शुभा ।।२।।
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा ।
यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः ।।३।।
नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ।।३।।
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि ।
परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ।।४।।
ततो बभूव नगरे सुमहान्हर्षनिस्वनः ।
जनस्य सम्प्रहृष्टस्य नलं दृष्ट्वा तथागतम् ।।५।।
अशोभयच्च नगरं पताकाध्वजमालिनम् ।
सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ।।६।।
द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः ।
अर्चितानि च सर्वाणि देवतायतनानि च ।।७।।
ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् ।
दमयन्त्या समायुक्तं जहृषे च नराधिपः ।।८।।
तमानाय्य नलो राजा क्षमयामास पार्थिवम् ।
स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ।।९।।
स सत्कृतो महीपालो नैषधं विस्मयान्वितः ।
दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ।।१०।।
कच्चित्तु नापराधं ते कृतवानस्मि नैषध ।
अज्ञातवासं वसतो मद्गृहे निषधाधिप ।।११।।
यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् ।
मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ।।१२।।
नल उवाच।।
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।
कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ।।१३।।
पूर्वं ह्यसि सखा मेऽसि सम्बन्धी च नराधिप ।
अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ।।१४।।
सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि ।
न तथा स्वगृहे राजन्यथा तव गृहे सदा ।।१५।।
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति ।
तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ।।१६।।
बृहदश्व उवाच।।
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः ।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ।।१७।।
ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः ।
सूतमन्यमुपादाय ययौ स्वपुरमेव हि ।।१८।।
ऋतुपर्णे प्रतिगते नलो राजा विशां पते ।
नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ।।१९।। 3.76.20
बृहदश्व उवाच। | 3-75-1x |
अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः। वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ।। | 3-75-1a 3-75-1b |
ततोऽभिवादयामास प्रयतः श्वशुरं नलः। ततो नु दमयन्ती च ववन्दे पितरं शुभा ।। | 3-75-2a 3-75-2b |
तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा। यथार्हं पूजयित्वा च समाश्वासयत प्रभुः ।। | 3-75-3a 3-75-3b |
नलेन सहितां तत्रदमयन्तीं पतिव्रताम्। `अनुजग्राह महता सत्कारेण क्षितीश्वरः' ।। | 3-75-4a 3-75-4b |
तामर्हणां नलो राजा प्रतिगृह्य यथाविधि। परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ।। | 3-75-5a 3-75-5b |
ततो बभूव नमरे सुमहान्हर्षजः स्वनः। जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथाऽऽगतम् ।। | 3-75-6a 3-75-6b |
अशोभयच्च नगरीं पताकाध्वजमालिनीम्। सिक्ताः सुमृष्टपुष्पाढ्या राजमार्गाः स्वलंकृताः ।। | 3-75-7a 3-75-7b |
द्वारिद्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः। अर्चितानि च सर्वाणि देवतायतनानि च ।। | 3-75-8a 3-75-8b |
ऋतुपर्णोऽपिशुश्राव बाहुकच्छद्मिनं नलम्। दमयन्त्या समायुक्तं जहृषे च नराधिपः ।। | 3-75-9a 3-75-9b |
तमानाय्य नलं राजा क्षमयामास पार्थिवः। स च तं क्षमयामास हेतुभिर्बुद्धिसंमितः ।। | 3-75-10a 3-75-10b |
स सत्कृतोमहीपालो नैषधं विस्मिताननः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ।। | 3-75-11a 3-75-11b |
कच्चित्तु नापराधं ते कृतवानस्मि नैषध। अज्ञातवासे वसतो मद्गृहेवसुधाधिप ।। | 3-75-12a 3-75-12b |
यदि वाऽबुद्धिपूर्वाणि यदि बुद्ध्याऽपि कानिचित्। मया कृतान्यकार्याणि तानि त्वं क्षन्तुमर्हसि ।। | 3-75-13a 3-75-13b |
नल उवाच। | 3-75-14x |
न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव। कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ।। | 3-75-14a 3-75-14b |
पूर्वं ह्यापि सखा मेऽसि संबन्धी च जनाधिप। अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ।। | 3-75-15a 3-75-15b |
सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि। न तथा स्वगृहेराजन्यथा तव गृहे सदा ।। | 3-75-16a 3-75-16b |
इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति। तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ।। | 3-75-17a 3-75-17b |
एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः। स च तां प्रतिजग्राह विधिदृष्टेन क्रमणा ।। | 3-75-18a 3-75-18b |
गृहीत्वा चाश्वहृदयं प्रीतो भागस्वरिर्नृप। निषधाधिपतेश्चापि दत्ताऽक्षहृदयं नृपः। सूतमन्यमुपादाय ययौ स्वपुरमेव ह ।। | 3-75-19a 3-75-19b 3-75-19c |
ऋतुपर्णे गते राजन्नलो राजा विशांपते। नगरे कुण्डिने कालं नातिदीर्गमिवावसत् ।। | 3-75-20a 3-75-20b |
।। इति श्रीमन्महाभारते अरण्यपर्वयणि नलोपाख्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ।। 75 ।। |
3-75-6 जनाश्च सर्वे संहृष्टा राजा चोत्सवमाचरदिति ध. पाठः .। 3-75-8 पुष्पभङ्गः पुष्पसंमर्दः ।। 3-75-17 उपाकर्तुं दातुम् ।।
आरण्यकपर्व-074 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-076 |