महाभारतम्-03-आरण्यकपर्व-071
← आरण्यकपर्व-070 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-071 वेदव्यासः |
आरण्यकपर्व-072 → |
ऋतुपर्णे कुण्डिनपुरं प्रविष्टे तद्रधघोषश्रवणेन दमयन्त्या तत्सारथौ नलसंभावना ।। 1 ।।
ततस्तत्वजिज्ञासया नलंप्रति दूत्याः प्रस्थापनम् ।। 2 ।।
बृहदश्व उवाच।।
ततो विदर्भान्सम्प्राप्तं सायाह्ने सत्यविक्रमम् ।
ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ।।१।।
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।
नादयन्रथघोषेण सर्वाः सोपदिशो दश ।।२।।
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।
श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ।।३।।
दमयन्ती च शुश्राव रथघोषं नलस्य तम् ।
यथा मेघस्य नदतो गम्भीरं जलदागमे ।।४।।
नलेन सङ्गृहीतेषु पुरेव नलवाजिषु ।
सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ।।५।।
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।
हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ।।६।।
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।
प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ।।७।।
दमयन्त्युवाच।।
यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।
मम ह्लादयते चेतो नल एष महीपतिः ।।८।।
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।
असङ्ख्येयगुणं वीरं विनशिष्याम्यसंशयम् ।।९।।
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् ।
प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ।।१०।।
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।
अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ।।११।।
यदि मां सिंहविक्रान्तो मत्तवारणवारणः ।
नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ।।१२।।
न स्मराम्यनृतं किञ्चिन्न स्मराम्यनुपाकृतम् ।
न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ।।१३।।
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः ।
रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ।।१४।।
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।
हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ।।१५।।
बृहदश्व उवाच।।
एवं विलपमाना सा नष्टसञ्ज्ञेव भारत ।
आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ।।१६।।
ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।
ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ।।१७।।
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।
हयांस्तानवमुच्याथ स्थापयामासतू रथम् ।।१८।।
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।
उपतस्थे महाराज भीमं भीमपराक्रमम् ।।१९।।
तं भीमः प्रतिजग्राह पूजया परया ततः ।
अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ।।२०।।
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत ।
नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ।।२१।।
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः ।
राजानं राजपुत्रं वा न स्म पश्यति कञ्चन ।।२२।।
नैव स्वयंवरकथां न च विप्रसमागमम् ।।२२।।
ततो विगणयन्राजा मनसा कोसलाधिपः ।
आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ।।२३।।
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् ।
अधिकं योजनशतं तस्यागमनकारणम् ।।२४।।
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ।
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ।।२५।।
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।
विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ।।२६।।
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः ।
राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ।।२७।।
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।
बाहुको रथमास्थाय रथशालामुपागमत् ।।२८।।
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः ।
स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ।।२९।।
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् ।
सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ।।३०।।
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः ।
नलस्येव महानासीन्न च पश्यामि नैषधम् ।।३१।।
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।
तेनास्य रथनिर्घोषो नलस्येव महानभूत् ।।३२।।
आहो स्विदृतुपर्णोऽपि यथा राजा नलस्तथा ।
ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ।।३३।।
एवं वितर्कयित्वा तु दमयन्ती विशां पते ।
दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ।।३४।। 3.73.36
बृहदश्व उवाच। | 3-71-1x |
ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्। ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ।। | 3-71-1a 3-71-1b |
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्। नादयन्रथघोषेण सर्वाः स विदिशो दिशः ।। | 3-71-2a 3-71-2b |
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः। श्रुत्वा तु समहृष्यन्त पुरेव नलसन्निधौ ।। | 3-71-3a 3-71-3b |
दमयन्ती तु शुश्राव रथघोषं नलस्य तम्। यथा मेघस्य नदतो गम्भीरं जलदागमे ।। | 3-71-4a 3-71-4b |
परं विस्मयमापन्ना श्रुत्वा नादं महास्वनम्। नलेन संगृहीतेषु पुरेव नलवाजिषु। सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ।। | 3-71-5a 3-71-5b 3-71-5c |
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः। हयाश्च शुश्रुवुस्तस्य रथघोषं महीपतेः ।। | 3-71-6a 3-71-6b |
तच्छ्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा। प्रवेदुरुन्मुखा राजन्दृष्ट्वेव जलदोदयम् ।। | 3-71-7a 3-71-7b |
दमयन्त्युवाच। | 3-71-8x |
यथाऽसौ रथनिर्घोषः पूरयन्निव मेदिनीम्। ममाह्लादयते चेतो नल एव महीपतिः ।। | 3-71-8a 3-71-8b |
अद्य नन्द्राभवक्रं तं न पश्यामि नलं यदि। असंख्येयगुणं वीरं विनङ्क्ष्यामि न संशयः ।। | 3-71-9a 3-71-9b |
यदि वै तस्य वीरस्य हाह्वोर्नाद्याहमन्तरम्। प्रविशामि सुखस्पर्शं नभविष्याम्यसंशयम् ।। | 3-71-10a 3-71-10b |
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः। अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ।। | 3-71-11a 3-71-11b |
यदि मां सिंहविक्रान्तो मत्तवारणविक्रमः। नाभिगच्छतिराजेन्द्रो विनङ्क्ष्यामि न संशयः ।। | 3-71-12a 3-71-12b |
न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम्। न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ।। | 3-71-13a 3-71-13b |
प्रभुः क्षमावान्वीरश्च दाता चाप्यधिको नृपैः। अहो नीचानुवर्ती च क्लीबवन्मम नैषध ।। | 3-71-14a 3-71-14b |
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्। हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ।। | 3-71-15a 3-71-15b |
एवं विलपमाना सा नष्टसंज्ञेव भारत। आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ।। | 3-71-16a 3-71-16b |
ततो मध्यमकक्षायां ददर्श रथमास्थितम्। ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ।। | 3-71-17a 3-71-17b |
ततोऽवतीर्य वार्ष्णएयो बाहुकश्च रथोत्तमात्। हयांस्तानवमुच्याथ स्थापयामासतू रथम् ।। | 3-71-18a 3-71-18b |
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः। उपतस्थे महाराजं भीमं भीमपराक्रमम् ।। | 3-71-19a 3-71-19b |
तं भीमः प्रतिजग्राह पूजया परया मुदा। स तेन पूजितो राज्ञा ऋतुपर्णो नराधिपः ।। | 3-71-20a 3-71-20b |
स तत्र कुण्डिने रम्ये वसमानो महीपतिः। न च किंचित्तदाऽपश्यत्प्रेक्षमाणो मुहुर्मुहुः। स तु राज्ञा समागम्य विदर्भपतिना तदा ।। | 3-71-21a 3-71-21b 3-71-21c |
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टः स भारत। नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ।। | 3-71-22a 3-71-22b |
ऋतुपर्णोपि राजा स धीमान्सत्यपराक्रमः। राजानं राजपुत्रं वा न स्म पश्यति कंचन ।। | 3-71-23a 3-71-23b |
नैव स्वयंवरकथां न च विप्रसमागमम्। `न चान्यं कंचिदारम्भं स्वयंवरविधिं प्रति' ।। | 3-71-24a 3-71-24b |
ततो विगणयद्राजा मनसा कोसलाधिपः। आगतोस्मीत्युवाचैनं भवन्तमभिवादुकः ।। | 3-71-25a 3-71-25b |
राजापि च स्मयन्भीमो मनसा समचिन्तयत्। अधिकं योजनशतं तस्यागमनकारणम्। ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ।। | 3-71-26a 3-71-26b 3-71-26c |
अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्। पश्चादुदर्के ज्ञास्याप्रि कारणं यद्भविष्यति ।। | 3-71-27a 3-71-27b |
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्। विश्राम्यतामित्युवाच क्लान्तोसीति पुनःपुनः ।। | 3-71-28a 3-71-28b |
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः। राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ।। | 3-71-29a 3-71-29b |
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे। बाहुको रथमादाय रथशालामुपागमत् ।। | 3-71-30a 3-71-30b |
स मोचयित्वा तानश्वानुपचर्य च शास्त्रतः। स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ।। | 3-71-31a 3-71-31b |
दमयन्त्यपि शोकार्ता दृष्ट्वा भागस्वरिं नृपम्। सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ।। | 3-71-32a 3-71-32b |
चिन्तयामास वैदर्भी कस्यैष रथनिःस्वनः। नलस्येव महानासीन्न च पश्यामि नैषधम् ।। | 3-71-33a 3-71-33b |
वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता। तेनाद्य रथनिर्घोषो नलस्येव महानभूत् ।। | 3-71-34a 3-71-34b |
कआहोस्विदृतुपर्णोऽपि यथा राजा नलस्यथा। यथाऽयंरथनिर्घोषो नैषधस्येव लक्ष्यते ।। | 3-71-35a 3-71-35b |
एवं सा तर्कयित्वा तु दमयन्ती विशांपते। दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ।। | 3-71-36a 3-71-36b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकसप्ततितमोऽध्यायः ।। 71 ।। |
3-71-3 नलाश्वाः विदर्भनगरे ये दमयन्त्याऽपत्याभ्यां सह प्रेषिताः ।। 3-71-7 शिखिनो मयूराः ।। 3-71-13 पर्युषितं प्रतिज्ञातकालातिलङ्घि ।। 3-71-29 दिष्टं निर्दिष्टम् ।।
आरण्यकपर्व-070 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-072 |