महाभारतम्-03-आरण्यकपर्व-029
← आरण्यकपर्व-028 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-029 वेदव्यासः |
आरण्यकपर्व-030 → |
युधिष्ठिरेण द्रौपदींप्रति क्रोधे बहुदोषोद्भावनपूर्वकं क्रोधगर्हणम् ।। 1 ।।
युधिष्ठिर उवाच।।
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ।।१।।
यो हि संहरते क्रोधं भावस्तस्य सुशोभने ।
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ।।२।।
तस्याभावाय भवति क्रोधः परमदारुणः ।।२।।
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ।।३।।
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ।।४।।
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ।।५।।
हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजयेदपि ।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ।।६।।
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ।।७।।
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् ।
एतद्द्रौपदि सन्धाय न मे मन्युः प्रवर्धते ।।८।।
आत्मानं च परं चैव त्रायते महतो भयात् ।
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ।।९।।
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः ।
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ।।१०।।
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः ।
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ।।११।।
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति ।
स नाशयित्वा क्लेष्टारं परलोके च नन्दति ।।१२।।
तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ।।१३।।
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः ।
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ।।१४।।
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता ।
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ।।१५।।
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ।।१५।।
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः ।
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ।।१६।।
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते ।
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ।।१७।।
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ।।१८।।
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि ।
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ।।१९।।
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ।।२०।।
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते ।
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ।।२१।।
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते ।
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ।।२२।।
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ।।२३।।
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् ।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ।।२४।।
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः ।
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ।।२५।।
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ।।२६।।
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् ।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ।।२७।।
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् ।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ।।२८।।
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते ।
प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ।।२९।।
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे ।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ।।३०।।
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ।।३१।।
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने ।
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ।।३२।।
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा ।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ।।३३।।
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ।।३४।।
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावता कृष्णे काश्यपेन महात्मना ।।३५।।
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ।।३६।।
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ।।३७।।
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ।
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ।।३८।।
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ।।३९।।
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ।।४०।।
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ।।४०।।
क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ।।४१।।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह संमानमृच्छन्ति परत्र च शुभां गतिम् ।।४२।।
येषां मन्युर्मनुष्याणां क्षमया निहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ।।४३।।
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ।।४४।।
पितामहः शान्तनवः शमं सम्पूजयिष्यति ।
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।।४५।।
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः ।।४५।।
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः ।।४६।।
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ।।४७।।
कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ।।४८।।
सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ।।४९।।
एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ।।५०।। 3.29.52
`वैशंपायन उवाच। | 3-29-1x |
द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम्। उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः ।। | 3-29-1a 3-29-1b |
कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः। येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे। क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम' ।। | 3-29-2a 3-29-2b 3-29-2c |
युधिष्ठिर उवाच। | 3-29-3x |
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः। इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ । | 3-29-3a 3-29-3b |
यो हि संहरते क्रोधं भावस्तस्य सुशोभने। `यो न संहरते क्रोधं तस्याभावो भवत्युत। अभावकारणं तस्मात्क्रोधो भवति शोभने' ।। | 3-29-4a 3-29-4b 3-29-4c |
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे। तस्याभावाय भवति क्रोधः परमदारुणः ।। | 3-29-5a 3-29-5b |
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते। तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ।। | 3-29-6a 3-29-6b |
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि। क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ।। | 3-29-7a 3-29-7b |
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ।। | 3-29-8a 3-29-8b |
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च। आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ।। | 3-29-9a 3-29-9b |
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः। इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ।। | 3-29-10a 3-29-10b |
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्ररेत्। एतद्द्रौपदि संस्मृत्यन मे मन्युः प्रवर्धते ।। | 3-29-11a 3-29-11b |
आत्मानं च परांश्चैव त्रायते महतो भयात्। क्रुध्यन्तमप्रतिक्रुध्यन्दूयोरेष चिकित्सकः ।। | 3-29-12a 3-29-12b |
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः। बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ।। | 3-29-13a 3-29-13b |
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः। तस्माद्द्रौपद्यशक्तस् मन्योर्नियमनं स्मृतम् ।। | 3-29-14a 3-29-14b |
विद्वांस्तथैव यः शक्तः क्लिश्यमानः प्रकुप्यति। स नाशयित्वा द्वेष्टारं परलोके न नन्दति ।। | 3-29-15a 3-29-15b |
तस्माद्बलवता चैव दुर्बलेन च नित्यदा। क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ।। | 3-29-16a 3-29-16b |
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः। क्षमावतो जयो नित्यं साधोरिह सतां मतम् ।। | 3-29-17a 3-29-17b |
सत्यंचानृततः श्रेयो नृशंसाच्चानृशंसता। तमेवं बहुदोषं त क्रोधं सद्भिर्विवर्जितम्। मादृशो विसृजेत्तस्मात्सर्वलोकविनाशनम् ।। | 3-29-18a 3-29-18b 3-29-18c |
तेजस्वीति यमाहुर्वै पण्डिता दीर्गदर्शिनः। न क्रोधोऽभ्यन्तरस्तस् भवतीति विनिश्चेतम् ।। | 3-29-19a 3-29-19b |
वस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते। तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः ।। | 3-29-20a 3-29-20b |
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति। नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ।। | 3-29-21a 3-29-21b |
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि। तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ।। | 3-29-22a 3-29-22b |
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः। गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ।। | 3-29-23a 3-29-23b |
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते। कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजः सुदुर्लभम् ।। | 3-29-24a 3-29-24b |
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम्। रजस्तु लोकनाशाय विहितं मानुषान्प्रति ।। | 3-29-25a 3-29-25b |
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्। श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ।। | 3-29-26a 3-29-26b |
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्। अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ।। | 3-29-27a 3-29-27b |
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः। न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ।। | 3-29-28a 3-29-28b |
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः। एवं विनाशो भूतानाममधर्मः प्रथितो भवेत् ।। | 3-29-29a 3-29-29b |
आक्रुष्ट पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्। प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ।। | 3-29-30a 3-29-30b |
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्। हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ।। | 3-29-31a 3-29-31b |
एवं संकुपिते लोके जन्म कृष्णो न विद्यते। प्रजानां सन्धिमूलं हि जन्म विद्धिशुभानने ।। | 3-29-32a 3-29-32b |
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशाः। तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ।। | 3-29-33a 3-29-33b |
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ।। | 3-29-34a 3-29-34b |
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने। क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम् ।। | 3-29-35a 3-29-35b |
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बवीयसा। यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः। प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।। | 3-29-36a 3-29-36b 3-29-36c |
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ।। | 3-29-37a |
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्। गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ।। | 3-29-38a 3-29-38b |
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्। यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति ।। | 3-29-39a 3-29-39b |
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च। क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ।। | 3-29-40a 3-29-40b |
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च। अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ।। | 3-29-41a 3-29-41b |
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा। क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ।। | 3-29-42a 3-29-42b |
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्। क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शभः ।। | 3-29-43a 3-29-43b |
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्। यत्रब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः ।। | 3-29-44a 3-29-44b |
`इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा।' क्षन्तव्यमेव सततं पुरुषेण विजानता। यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ।। | 3-29-45a 3-29-45b 3-29-45c |
क्षमावतामयं लोकः परश्चैव क्षमावताम्। इह सन्मानमृच्छन्ति परत्र च परा गतिम् ।। | 3-29-46a 3-29-46b |
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा। तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ।। | 3-29-47a 3-29-47b |
इति गीताः काश्यपेन गाथानित्यं क्षमावताम्। श्रुत्वा गाथाः क्षमायास्त्वं तुष्यद्रौपदि मा क्रुधः ।। | 3-29-48a 3-29-48b |
पितामहः शान्तनवः रशमं संपूजयिष्यति। कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति ।। | 3-29-49a 3-29-49b |
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः। कृपश्च संजयश्चैव शममेव वदिष्यतः ।। | 3-29-50a 3-29-50b |
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च। पितामहश्च नो व्यासः शमं वदति नित्यशः ।। | 3-29-51a 3-29-51b |
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति। राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ।। | 3-29-52a 3-29-52b |
कालोऽयं दारुणः प्राप्तो भरतानामभूतये। निश्चितं मे सदैवैतत्पुरस्तादपि भामिति ।। | 3-29-53a 3-29-53b |
सुयोधनो नार्हतीति क्षमा मामेव विन्दति। अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ।। | 3-29-54a 3-29-54b |
एतदात्मवतां वृत्तमेष धर्मः सनातनः। क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा ।। | 3-29-55a 3-29-55b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकोनत्रिंशोऽध्यायः ।। 29 ।। |
टिप्पणी
[सम्पाद्यताम्]3-29-3 भावयिता वर्धयिता। जितःसन्निति शेषः ।। 3-29-7 पापं न कः कुर्यात् इति क. पाठः ।। 3-29-11 चरेदाचरेत् ।। 3-29-12 द्वयोरात्मपरयो- चिकित्सकः दोषापहर्ता। क्रुध्यन्तमप्रतिक्रुध्याञ्जयेल्लोकांश्च शाश्वतान् इति ख. पाठः ।। 3-29-13 बलीयसामुपरि यदि अशक्तिमान् क्रुध्यते तर्हि आत्मानं देह त्यजति। मनुष्याणामात्मनैव विपद्यते इति ख. पाटः। मनुष्याणां त्यजत्यात्मानमात्मना इति झ.पाठः ।। 3-29-14 अनात्मन अजितचित्तस्य ।। 3-29-25 रजः रजोगुणपरिणामः ।। 3-29-26 स्वधर्मान् अपगः अपहाय गच्छतीति तथा। द्वितीयाया अलुगार्षः ।। 3-29-27 सर्वं क्षमार्जवादिकम्। अबुद्धीनां मूढैः अतिक्रान्तं लङ्घितम्। अनिन्दिते प्रशस्ते विषये क्षमादौ ।। 3-29-29 अभिषक्तः तापितः। अभिषजेत्तापयेत् ।। 3-29-30 आक्रुष्टो वाचा ताडितः। हतोऽन्येनाभिगतः। हिंसितस्ताडितः ।। 3-29-32 जन्म उत्पत्तिः। तत्रहेतुः। प्रजानां संधिः दम्पत्योः प्रीतिः। एवं संकुचिते लोके इति प्रजानां वृद्धिमूलं हि इति च. क. पाठः ।। 3-29-33 अभवाय अनैश्वर्याय ।। 3-29-34 जन्म प्रतिपद्यते। अन्यथा क्रोधप्राबल्ये। पूर्ववयस्येव दम्पत्योर्नाशाज्जन्मासंभव इत्यर्थः ।। 3-29-36 बलीयसा आक्रुष्टस्ताडितो वाऽशक्तः क्षमते तथा यः प्रभाववानपि क्षमते तस्य लोका इत्यर्थः ।। 3-29-38 क्षमावतां गाथाः प्रशंसाः। क्षमावतां मध्ये महात्मना ।। 3-29-40 ब्रह्म ब्राह्मणजातिः। भूतं संचितं तपः भावि च क्षमैव रक्षति ।। 3-29-41 अति अतिक्रम्य प्राप्नुवन्ति। तदूर्ध्वं पदमिति शेषः। ब्र्हमविदां वेदविदाम् ।। 3-29-42 यजुषां त्रोताग्निसाष्यकर्मवताम्। कर्मिणां वापीकूपादिधर्मवताम् ।। 3-29-48 तुष्य तुष्टा भव ।। 3-29-52 दाता दास्यति ।। 3-29-53 अभूतये नाशाय ।।
आरण्यकपर्व-028 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-030 |