महाभारतम्-03-आरण्यकपर्व-024
← आरण्यकपर्व-023 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-024 वेदव्यासः |
आरण्यकपर्व-025 → |
पाण्डवैश्चिरावस्थाननिर्धारणपूर्वकं द्वैतवनप्रवेशः ।। 1 ।।
वैशम्पायन उवाच।।
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः ।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ।।१।।
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने ।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ।।२।।
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् ।
यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ।।३।।
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः ।
गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ।।४।।
अर्जुन उवाच।।
भवानेव महर्षीणां वृद्धानां पर्युपासिता ।
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ।।५।।
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ ।
द्वैपायनप्रभृतयो नारदश्च महातपाः ।।६।।
यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी ।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ।।७।।
सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः ।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ।।८।।
त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।
यत्रेच्छसि महाराज निवासं तत्र कुर्महे ।।९।।
इदं द्वैतवनं नाम सरः पुण्यजनोचितम् ।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ।।१०।।
अत्रेमा द्वादश समा विहरेमेति रोचये ।
यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ।।११।।
युधिष्ठिर उवाच।।
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।
गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ।।१२।।
वैशम्पायन उवाच।।
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ।।१३।।
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।
स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ।।१४।।
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ।।१५।।
ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह ।
पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ।।१६।।
तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः ।
तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श ।।१७।।
महाद्रुमाणां शिखरेषु तस्थु; र्मनोरमां वाचमुदीरयन्तः ।
मयूरदात्यूहचकोरसङ्घा; स्तस्मिन्वने काननकोकिलाश्च ।।१८।।
करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम् ।
महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श ।।१९।।
मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम् ।
तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् ।।२०।।
ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत् ।
विवेश धर्मात्मवतां वरिष्ठ; स्त्रिविष्टपं शक्र इवामितौजाः ।।२१।।
तं सत्यसन्धं सहिताभिपेतु; र्दिदृक्षवश्चारणसिद्धसङ्घाः ।
वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं सम्परिवार्य तस्थुः ।।२२।।
स तत्र सिद्धानभिवाद्य सर्वा; न्प्रत्यर्चितो राजवद्देववच्च ।
विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः ।।२३।।
स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य ।
प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा ।।२४।।
भीमश्च कृष्णा च धनञ्जयश्च; यमौ च ते चानुचरा नरेन्द्रम् ।
विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः ।।२५।।
लतावतानावनतः स पाण्डवै; र्महाद्रुमः पञ्चभिरुग्रधन्विभिः ।
बभौ निवासोपगतैर्महात्मभि; र्महागिरिर्वारणयूथपैरिव ।।२६।। 3.24.26
वैशंपायन उवाच। | 3-24-1x |
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः। अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ।। | 3-24-1a 3-24-1b |
द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने। समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ।। | 3-24-2a 3-24-2b |
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्। यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि ।। | 3-24-3a 3-24-3b |
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः। गुरुवन्मानववरं मानयित्वा मनस्विनम् ।। | 3-24-4a 3-24-4b |
भवानेव महर्षीणां वृद्धानां पर्युपासिता। अज्ञातं मानुषे लोके भवतो नास्ति किंचन ।। | 3-24-5a 3-24-5b |
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः। द्वैपायनप्रभृतयो नारदश्च महातपाः ।। | 3-24-6a 3-24-6b |
यः सर्वलोकद्वाराणि नित्यं संचरते वशी। देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ।। | 3-24-7a 3-24-7b |
अनुभावांश्च जानासि ब्राह्मणानां न संशयः। प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ।। | 3-24-8a 3-24-8b |
त्वमेव राजञ्जानासि श्रेयःकारणमेव च। यत्रेच्छसि महाराज निवासं तत्र कुंर्महे ।। | 3-24-9a 3-24-9b |
इदं द्वैतवनं नाम सरः पुण्यजनोषितम्। बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ।। | 3-24-10a 3-24-10b |
अत्रेमा द्वादश समा विहरेमेति रोचये। यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान् ।। | 3-24-11a 3-24-11b |
युधिष्ठिर उवाच। | 3-24-12x |
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्। गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः ।। | 3-24-12a 3-24-12b |
वैशंपायन उवाच। | 3-24-13x |
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः। ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ।। | 3-24-13a 3-24-13b |
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः। स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ।। | 3-24-14a 3-24-14b |
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्। तपस्विनः सत्यशीलाः शतशः संशितव्रताः ।। | 3-24-15a 3-24-15b |
ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह। पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः ।। | 3-24-16a 3-24-16b |
तत्सालतालाम्रमधूकनीप- कदम्बसर्जार्जुनकर्णिकारैः। तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श ।। | 3-24-17a 3-24-17b 3-24-17c 3-24-17d |
महाद्रुमाणां शिखरेषु तस्थु- र्मनोरमां वाचमुदीरयन्तः। मयूरदात्यूहचकोरसङ्घा- स्तस्मिन्वने बर्हिणकोकिलाश्च ।। | 3-24-18a 3-24-18b 3-24-18c 3-24-18d |
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्। महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श ।। | 3-24-19a 3-24-19b 3-24-19c 3-24-19d |
मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्। तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान् ।। | 3-24-20a 3-24-20b 3-24-20c 3-24-20d |
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत्। विवेश धर्मात्मवतां बरिष्ठ- स्त्रिविष्टपं शक्र इवामितौजाः ।। | 3-24-21a 3-24-21b 3-24-21c 3-24-21d |
तं सत्यसन्धं सहिताऽभिपेतु- र्दिदृक्षवश्चारणसिद्धसङ्घाः। वनौकसश्चापि नेरन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः ।। | 3-24-22a 3-24-22b 3-24-22c 3-24-22d |
स तत्रवृद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद्देववच्च। विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः ।। | 3-24-23a 3-24-23b 3-24-23c 3-24-23d |
स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्मपरैरुपेत्य। प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा ।। | 3-24-24a 3-24-24b 3-24-24c 3-24-24d |
भीमश्च कृष्णा च धनंजयश्च यमौ च ते चानुचरा नरेन्द्रम्। विमुच्यवाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः ।। | 3-24-25a 3-24-25b 3-24-25c 3-24-25d |
लतावतानावनतः स पाण्डवै- र्महाद्रुमः पञ्चभिरेव धन्विभिः। बभौ निवासोपगतैर्महात्मभि- र्महागिरिर्वारणयूथपैरिव ।। | 3-24-26a 3-24-26b 3-24-26c 3-24-26d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्विंशोऽध्यायः ।। 24 ।। |
टिप्पणी
[सम्पाद्यताम्]3-24-1 सत्यसंगर सत्यप्रतिज्ञः ।। समाः वर्षाणि। संधिरार्षः ।। 3-24-8 अनुभावान् कर्तव्याकर्तव्यविषयान्निश्चयान्। प्रभावो निग्रहानुग्रहशक्तिः। सर्वा गतीर्विजानासि इति क. पाठः ।। 3-24-10 द्वैतं द्वौ शोकमोहौ इतौ गतौ यस्मात्तद्बीतं द्वीतमेव द्वैतम्। स्वार्थे तद्धितः। वनं जलं यस्मिन् द्वैतवनम् ।। 3-24-11 विहरेम प्रीत्यानयेम ।। 3-24-16 यात्वा गत्वा ।। 3-24-17 तपात्यये वर्षासु ।। 3-24-19 करेणुः हस्तिनी ।। 3-24-20 भोगवतीं सरस्वतीं नदीम् ।। 3-24-22 चारणाः देवगायनाः ।। 3-24-24 महाद्रुमः कदम्बः ।। 3-24-26 लतावतानावनतः वल्लीतन्तुभिरावृततया नम्रः ।।
आरण्यकपर्व-023 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-025 |