महाभारतम्-03-आरण्यकपर्व-023
← आरण्यकपर्व-022 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-023 वेदव्यासः |
आरण्यकपर्व-024 → |
कृष्णादीनां पाण्डवान्दृष्ट्वा वनात्स्वनगरगमनानन्तरं पाण्डवैः पौराणामाश्वासनपूर्वकं नगरप्रति निवर्तनम् ।। 1 ।।
वैशम्पायन उवाच।।
तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च ।
यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ।।१।।
आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः ।
हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ।।२।।
प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान् ।
मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः ।।३।।
ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च ।
तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन ।।४।।
ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः ।
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ।।५।।
स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः ।
तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ।।६।।
पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा ।
ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः ।।७।।
ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः ।
हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः ।।८।।
वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान् ।
पौरानिमाञ्जानपदांश्च सर्वा; न्हित्वा प्रयातः क्व नु धर्मराजः ।।९।।
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम् ।
अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ।।१०।।
स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम् ।
शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः ।।११।।
चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम् ।
तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः ।।१२।।
तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच ।
आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ।।१३।।
द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च ।
प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ।।१४।।
इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन् ।
मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ।।१५।।
आमन्त्र्य पार्थं च वृकोदरं च; धनञ्जयं याज्ञसेनीं यमौ च ।
प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ।।१६।। 3.23.16
वैशंपायन उवाच। | 3-23-1x |
तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च। यमौ च कृष्ण च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान् ।। | 3-23-1a 3-23-1b 3-23-1c 3-23-1d |
अस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः। हिरण्यनिष्कान्वसनानि गाश्च गदाय शिक्षाक्षरमन्त्रविद्भ्यः ।। | 3-23-2a 3-23-2b 3-23-2c 3-23-2d |
प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि शस्त्राणि शरांश्च दीप्तान्। मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः ।। | 3-23-3a 3-23-3b 3-23-3c 3-23-3d |
तत्सतु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च। तदिन्द्रसेनस्त्वरितः प्रगृह्य जघन्यमेवोपययौ रथेन ।। | 3-23-4a 3-23-4b 3-23-4c 3-23-4d |
ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्वाः। तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम् ।। | 3-23-5a 3-23-5b 3-23-5c 3-23-5d |
स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः। तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ।। | 3-23-6a 3-23-6b 3-23-6c 3-23-6d |
पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा। ते चापि तस्मिन्भरतप्रबर्हे तथा बभूवुः पितरीव पुत्राः ।। | 3-23-7a 3-23-7b 3-23-7c 3-23-7d |
ततस्तमासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः। हानाथ हाधर्म इति ब्रुवाणा हीताश्च सर्वेऽऽश्रुमुखा बभूवुः ।। | 3-23-8a 3-23-8b 3-23-8c 3-23-8d |
वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान्। पौरानिमाञ्जानपदांश्च सर्वान् हित्वा प्रयातः क्वनु धर्मराजः ।। | 3-23-9a 3-23-9b 3-23-9c 3-23-9d |
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं धिक्सौबलं पापमतिं च कर्णम्। अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवोग्राः ।। | 3-23-10a 3-23-10b 3-23-10c 3-23-10d |
स्वयं निवेश्याप्रतिमं महात्मा पुरं महादेवपुरप्रकाशम्। शतक्रतुप्रस्थममोघकर्मा हित्वा प्रयातः क्वनु धर्मराजः ।। | 3-23-11a 3-23-11b 3-23-11c 3-23-11d |
चकार यामप्रतिमां महात्मा सभां मयो देवसभाप्रकाशाम्। तां देवगुप्तामिव देवमायां हित्वाप्रयातः क्वनु धर्मराजः ।। | 3-23-12a 3-23-12b 3-23-12c 3-23-12d |
तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच। आदास्यते वासमिमं निरुष्य रवनेषु राजा द्विषतां यशांसि ।। | 3-23-13a 3-23-13b 3-23-13c 3-23-13d |
द्विजातिमुख्याः सहिताः पृथक्व भवद्भिरासाद्य तपस्विनश्च। प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः ।। | 3-23-14a 3-23-14b 3-23-14c 3-23-14d |
इत्येवमुक्ते वचनेऽऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन्। मुदाऽभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतांवरिष्ठम् ।। | 3-23-15a 3-23-15b 3-23-15c 3-23-15d |
आमन्त्र्य पार्थं च वृकोदरं च धनंजयं याज्ञसेनीं यमौ च। प्रतस्थिरे राष्ट्रमरपेतहार्षा युधिष्ठिरेणानुमता यथास्वम् ।। | 3-23-16a 3-23-16b 3-23-16c 3-23-16d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयोविंशोऽध्यायः ।। 23 ।। |
टिप्पणी
[सम्पाद्यताम्]3-23-1 भूतपतिः शिवः। निष्कः अष्टोत्तरशतं सुवर्णानि वक्षोऽलंकारो वा। शिक्षेतिव्याकरणाद्यङ्गानामुपलक्षणम्। अक्षराणि वेदः। नित्यत्वात्क्षरणशून्यः। मन्त्रः प्रणवः ।। 3-23-3 पुर प्रागेव। जघन्यं पाश्चात्यं द्वारकादेशम् ।। 3-23-4 राजपुत्र्या सुभद्रया सहा ।। 3-23-7 तदा बभूवुरिति झ. पाठः ।। 3-23-8 हीताः कुराज्ये तिष्ठाम इति लज्जिताः ।। 3-23-10 अनर्थं द्यूतजम् ।। 3-23-13 बीभत्सुरर्जुनः आदास्यते आच्छिद्य ग्रहीष्यति। यशांसि यशस्कराणि दिव्यसभादीनि ।। 3-23-14 भवद्भिः पौरैः वाच्याः प्रार्थ्याः ।।
आरण्यकपर्व-022 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-024 |