महाभारतम्-03-आरण्यकपर्व-022
← आरण्यकपर्व-021 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-022 वेदव्यासः |
आरण्यकपर्व-023 → |
कृष्णेन युधिष्ठिरंप्रति स्वेन साल्वसंहारकथनपूर्वकं सुभद्राभिमन्युमभ्यां सह द्वारकागमनम् ।। 1 ।।
धृष्टद्युम्नधृष्टकेतुभ्यां यथाक्रमं द्रौपदेयान्नकुलभार्यां स्वस्वनगरगमनम् ।। 2 ।।
वासुदेव उवाच।।
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः ।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ।।१।।
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ।।२।।
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ।।३।।
अथ दानवसङ्घास्ते विकृताननमूर्धजाः ।
उदक्रोशन्महाराज विष्ठिते मयि भारत ।।४।।
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे ।
अयोजयं तद्वधाय ततः शब्द उपारमत् ।।५।।
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः ।
शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः ।।६।।
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ।।७।।
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।
नादयामासुरसुरास्ते चापि निहता मया ।।८।।
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।
सौभं कामगमं वीर मोहयन्मम चक्षुषी ।।९।।
ततो लोकान्तकरणो दानवो वानराकृतिः ।
शिलावर्षेण सहसा महता मां समावृणोत् ।।१०।।
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः ।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ।।११।।
ततोऽहं पर्वतचितः सहयः सहसारथिः ।
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ।।१२।।
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ।।१३।।
ततो हाहाकृतं सर्वमभूत्किल विशां पते ।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ।।१४।।
ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ।।१५।।
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि ।
एवं विजितवान्वीर पश्चादश्रौषमच्युत ।।१६।।
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् ।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ।।१७।।
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।
हया मम महाराज वेपमाना इवाभवन् ।।१८।।
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् ।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ।।१९।।
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप ।
साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ।।२०।।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ।
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ।।२१।।
जहि शाल्वं महाबाहो मैनं जीवय केशव ।
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ।।२२।।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा ।
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ।।२३।।
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो ।
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ।।२४।।
नैष मार्दवसाध्यो वै मतो नापि सखा तव ।
येन त्वं योधितो वीर द्वारका चावमर्दिता ।।२५।।
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः ।
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ।।२६।।
वधाय शाल्वराजस्य सौभस्य च निपातने ।
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ।।२७।।
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् ।
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ।।२८।।
यक्षाणां राक्षसानां च दानवानां च संयुगे ।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ।।२९।।
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।
अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ।।३०।।
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ।।३१।।
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।
द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ।।३२।।
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ।।३३।।
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् ।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ।।३४।।
तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।
पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ।।३५।।
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे ।
द्विधा चकार सहसा प्रजज्वाल च तेजसा ।।३६।।
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः ।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ।।३७।।
ततोऽहं समवस्थाप्य रथं सौभसमीपतः ।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ।।३८।।
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः ।।३९।।
एवं निहत्य समरे शाल्वं सौभं निपात्य च ।
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ।।४०।।
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् ।
यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ।।४१।।
वैशम्पायन उवाच।।
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।
आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ।।४२।।
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ।।४३।।
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् ।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ।।४४।।
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा ।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ।।४५।।
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः ।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ।।४६।।
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ।।४७।।
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ।।४८।।
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः ।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ।।४९।।
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ।।५०।।
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः ।
शशास पुरुषान्काले रथान्योजयतेति ह ।।५१।। 3.22.54
वासुदेव उवाच। | 3-22-1x |
ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः। शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ।। | 3-22-1a 3-22-1b |
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः। प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः ।। | 3-22-2a 3-22-2b |
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह। अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम् ।। | 3-22-3a 3-22-3b |
अथ दानवसङ्घास्ते विकृताननमूर्धजाः। उदक्रोशन्महाराज धिष्ठिते मयि भारत ।। | 3-22-4a 3-22-4b |
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे। अयोजयं तद्वधाय ततः शब्द उपारमत् ।। | 3-22-5a 3-22-5b |
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः। शरैरादित्यसंकशैर्ज्वलितैः शब्दसाधनैः ।। | 3-22-6a 3-22-6b |
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्। शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः ।। | 3-22-7a 3-22-7b |
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत। नादयामासुरसुरास्ते चापि निहता मया ।। | 3-22-8a 3-22-8b |
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत। सौभं कामगमं वीर मोहयन्मम चक्षुषी ।। | 3-22-9a 3-22-9b |
ततो लोकान्तकरणो दानवो दारुणाकृतिः। शिलावर्षेण महता सहसा मां समावृणोत् ।। | 3-22-10a 3-22-10b |
सोहं पर्वतवर्षेण वध्यमानः समन्ततः। वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ।। | 3-22-11a 3-22-11b |
ततोऽहं पर्वतचितः सहयः सहसारथिः। अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ।। | 3-22-12a 3-22-12b |
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा। ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः ।। | 3-22-13a 3-22-13b |
ततो हाहाकृतमभूत्सर्वं किल विशांपते। द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ।। | 3-22-14a 3-22-14b |
ततो विषण्णमनसो मम राजन्सुहृज्जनाः। रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ।। | 3-22-15a 3-22-15b |
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि। एवं विजितवान्वीर पश्चादश्रौषमच्युत ।। | 3-22-16a 3-22-16b |
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्। वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ।। | 3-22-17a 3-22-17b |
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः। हया मम महाराज वेपमाना इवाभवन् ।। | 3-22-18a 3-22-18b |
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्। दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ।। | 3-22-19a 3-22-19b |
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान्। हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः ।। | 3-22-20a 3-22-20b |
साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम्। अलं कृष्णावमन्यैनं साधु यत्नं समाचर ।। | 3-22-21a 3-22-21b |
मार्दवं सखितां चैव साल्वादद्य व्यपाहर। जहि साल्वं महाबाहो मैनं जीवय केशव ।। | 3-22-22a 3-22-22b |
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्। न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा। योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ।। | 3-22-23a 3-22-23b 3-22-23c |
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो। जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ।। | 3-22-24a 3-22-24b |
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून्। स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन ।। | 3-22-25a 3-22-25b |
नैष मार्दवसाध्यो वै मतो नापि सखा तव। येन त्वं योधितो वीर द्वारका चावमर्दिता ।। | 3-22-26a 3-22-26b |
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः। तत्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ।। | 3-22-27a 3-22-27b |
वधाय साल्वराजस्य सौभस्य च निपातने। दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ।। | 3-22-28a 3-22-28b |
ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत्। आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्। योजयं तत्रधनुषा दानवान्तकरं रणे ।। | 3-22-29a 3-22-29b 3-22-29c |
यक्षाणां राक्षसानां च दानवानां च संयुगे। राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ।। | 3-22-30a 3-22-30b |
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्। अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम् ।। | 3-22-31a 3-22-31b |
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम। इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ।। | 3-22-32a 3-22-32b |
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा। द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः ।। | 3-22-33a 3-22-33b |
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्। मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ।। | 3-22-34a 3-22-34b |
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्। महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ।। | 3-22-35a 3-22-35b |
तस्मिन्निपतिते सौभे चक्रमागात्करं मम। पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम् ।। | 3-22-36a 3-22-36b |
ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे। द्विधा चकार सहसा प्रजज्वाल च तेजसा ।। | 3-22-37a 3-22-37b |
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः। हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ।। | 3-22-38a 3-22-38b |
ततोऽहंसमवस्थाप्यरथं सौभसमीपतः। शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ।। | 3-22-39a 3-22-39b |
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्। दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ।। | 3-22-40a 3-22-40b |
एवं निहत्य समरे सौभं साल्वं निपात्य च। आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम् ।। | 3-22-41a 3-22-41b |
तदेतत्कारणं राजन्नागमं नागसाह्वयम्। यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः ।। | 3-22-42a 3-22-42b |
मय्यागतेऽथवा वीर द्यूतं न भविता तथा। अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् ।। | 3-22-43a 3-22-43b |
वैशंपायन उवाच। | 3-22-44x |
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः। आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः ।। | 3-22-44a 3-22-44b |
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्। राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ।। | 3-22-45a 3-22-45b |
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः। संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः ।। | 3-22-46a 3-22-46b |
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्। आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ।। | 3-22-47a 3-22-47b |
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा। द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ।। | 3-22-48a 3-22-48b |
ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः। द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ।। | 3-22-49a 3-22-49b |
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्। जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ।। | 3-22-50a 3-22-50b |
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा। आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ।। | 3-22-51a 3-22-51b |
ब्राह्मणाश्च विशश्चैव तथाविषयवासिनः। विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ।। | 3-22-52a 3-22-52b |
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः। आसीन्महात्मनां तेषां काम्यके भरतर्षभ ।। | 3-22-53a 3-22-53b |
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः। शशास पुरुषान्काले रथान्योजयतेति वै ।। | 3-22-54a 3-22-54b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वाविंशोऽध्यायः ।। 22 ।। |
टिप्पणी
[सम्पाद्यताम्]3-22-2 सुवाससः सुपुङ्खान् ।। 3-22-4 विकृताननमूर्धजा इति तेषां स्वरूपकथनं नतु तद्दर्शनम्। धिष्ठिते प्रागल्भ्येन स्थिते। विष्ठिते इति पाठेपि सएवार्तः ।। 3-22-5 शब्दएव साहो लक्ष्यं यत्रतत्तथा शब्दवेधि शब्देऽस्त्रमुपारमन्न्यपतदित्यर्थः शब्दसाहं शब्दबाधानिवारकं वा ।। 3-22-6 शब्दसाधनैः शब्दएव साधनं लक्ष्यसंबन्धे कारणं येषां तैः। पुरस्यादृश्यत्वात् ।। 3-22-9 आग्ज्येतिषं पूर्वसमुद्रतीरस्थं नगरविशेषम्। यतः कामगमं अतः प्राग्ज्योतिषं गत्वा व्यदृश्यत ।। 3-22-12 अप्रख्यातिं अदर्शनम्। इयां प्राप्तवान् ।। 3-22-16 एवं मां सौभराजो विजितवान् एतदप्यहं पश्चादश्रौषं पूर्वं मोहमापन्नः सन् संज्ञालार्भानन्तरं श्रुतवान्सारथिमुखेनेति शेषः। एवमज्ञातवान्वीरेति ट. पाठः ।। 3-22-17 इन्द्रदयितं इन्द्रदैवत्यम्। वज्रं वज्रास्त्रम् समशातयं नाशितवान् ।। 3-22-19 आहारयन्प्राप्तवन्तः ।। 3-22-20 तात्कालिकं तत्कालयोग्यम् ।। 3-22-23 पीठगः स्वासनस्थः। अयुध्यमानोपीत्यर्थः ।। 3-22-30 प्रतिलोमानां विपरिताचाराणां म्लेच्छानाम् ।। 3-22-31 क्षुरान्तं तीक्ष्णपरिधि ।। 3-22-32 तस्मै सौभाय। प्राहिणवं प्रहितवान् ।। 3-22-33 युगान्ते परिवेष्टत इति ट. पाठः ।। 3-22-34 क्रकचः दन्तुरखङ्गः ।। 3-22-43 उदकं धारयितुमिति शेषः ।। 3-22-50 धृष्टकेतुः शिशुपालसुतः। स्वसारं करेणुमतीं नकुलभार्याम् ।। 3-22-51 केकयाः सहदेवश्यालाः ।। 3-22-54 शशास आज्ञापयामास ।।
आरण्यकपर्व-021 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-023 |