महाभारतम्-03-आरण्यकपर्व-017
← आरण्यकपर्व-016 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-017 वेदव्यासः |
आरण्यकपर्व-018 → |
कृष्णेन् युधिष्ठिरंप्रति साल्वप्रद्युम्नयुद्धवर्णनम् ।। 1 ।।
वासुदेव उवाच।।
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ ।
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ।।१।।
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् ।
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ।।२।।
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः ।
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ।।३।।
स विद्युच्चलितं चापं विहरन्वै तलात्तलम् ।
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ।।४।।
नास्य विक्षिपतश्चापं संदधानस्य चासकृत् ।
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ।।५।।
मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य ।
सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् ।।६।।
जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी ।
वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ।।७।।
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः ।
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ।।८।।
अभियानं तु वीरेण प्रद्युम्नेन महाहवे ।
नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह ।।९।।
स रोषमदमत्तो वै कामगादवरुह्य च ।
प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः ।।१०।।
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः ।
समेता ददृशुर्लोका बलिवासवयोरिव ।।११।।
तस्य मायामयो वीर रथो हेमपरिष्कृतः ।
सध्वजः सपताकश्च सानुकर्षः सतूणवान् ।।१२।।
स तं रथवरं श्रीमान्समारुह्य किल प्रभो ।
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः ।।१३।।
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।
प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ।।१४।।
स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् ।
शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम ।।१५।।
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ।।१६।।
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः ।
बिभेद हृदयं पत्री स पपात मुमोह च ।।१७।।
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि ।
सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् ।।१८।।
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते ।
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप ।।१९।।
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम् ।
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ।।२०।।
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः ।
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ।।२१।।
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् ।
ननाद सिंहनादं वै नादेनापूरयन्महीम् ।।२२।।
ततो मोहं समापन्ने तनये मम भारत ।
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् ।।२३।।
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः ।
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ।।२४।। 3.17.25
वासुदेव उवाच। | 3-17-1x |
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ। दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ।। | 3-17-1a 3-17-1b |
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम्। उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ।। | 3-17-2a 3-17-2b |
विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः। तूणखङ्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ।। | 3-17-3a 3-17-3b |
सविद्युच्छुरितं चापं विहरन्वै तलात्तलम्। मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ।। | 3-17-4a 3-17-4b |
तस्य विक्षिपतश्चापं संदधानस्य चासकृत्। नान्तरं ददृशे कश्चिन्नघ्नितः शात्रवान्रणे ।। | 3-17-5a 3-17-5b |
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य। सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम् ।। | 3-17-6a 3-17-6b 3-17-6c 3-17-6d |
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः शत्रुबलप्रमाथी। वित्रासयन्राजति वाहमुख्ये साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ।। | 3-17-7a 3-17-7b 3-17-7c 3-17-7d |
ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः। साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप ।। | 3-17-8a 3-17-8b |
अभियानं तु वीरेण प्रद्युम्नेन महारणे। नामर्षयत संक्रुद्वः साल्वः कुरुकुलोद्वह ।। | 3-17-9a 3-17-9b |
सरोषमहमत्तो वै कामगादवरुह्य च। प्रद्युम्नं योधयामास साल्वः परपुरंजयः ।। | 3-17-10a 3-17-10b |
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः। समेता ददृशुर्लोका बलिवासवयोरिव ।। | 3-17-11a 3-17-11b |
तस्य मायामयो वीर रथो हेमपरिष्कृतः। सपताकः सध्वजश्च सानुकर्षः स तूणवान् ।। | 3-17-12a 3-17-12b |
स तं रथवरं श्रीमान्समारुह्य किल प्रभो। मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः ।। | 3-17-13a 3-17-13b |
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे। प्रद्युम्नो भुजवेगेन साल्वं संमोहयन्निव ।। | 3-17-14a 3-17-14b |
स तैरभिहतः सङ्ख्ये नामर्यत सौभराट्। शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम ।। | 3-17-15a 3-17-15b |
तमापतन्तं बाणौधं स चिच्छेद महाबलः। ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम ।। | 3-17-16a 3-17-16b |
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः। मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ।। | 3-17-17a 3-17-17b |
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः। विवेश हृदयं पत्री स पपात भृशहतः ।। | 3-17-18a 3-17-18b |
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि। संप्रद्रबन्दानवेन्द्रा दारयन्तो वसुंधराम् ।। | 3-17-19a 3-17-19b |
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते। नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे ।। | 3-17-20a 3-17-20b |
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम्। मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः ।। | 3-17-21a 3-17-21b |
तेन बाणेन महता प्रद्युम्नः समरे स्थितः। जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा ।। | 3-17-22a 3-17-22b |
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम्। ननाद सिंहनादं वै नादेनापूरयन्महीम् ।। | 3-17-23a 3-17-23b |
ततो मोहं समापन्ने तनये मम भारत। मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान् ।। | 3-17-24a 3-17-24b |
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः। निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ।। | 3-17-25a 3-17-25b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तदशोऽध्यायः ।। 17 ।। |
टिप्पणी
[सम्पाद्यताम्]3-17-1 हरिभिः अश्वैः ।। 3-17-2 व्यात्ताननमिवान्तकं इति झ. पाठः। अन्वयात् उपगतः ।। 3-17-3 विक्षिपन् परान्धिक्वुर्वन्। महाहलैः हयैः ।। 3-17-4 समानं विद्युच्छुरितेन विद्युत्कम्पनेनेति। विद्युच्छुरितम्। तलात्तलं सव्यापसव्यहस्ततलपरिवर्तेन ।। 3-17-5 विक्षिप्तः कर्षतः ।। 3-17-6 विकल्पते भिद्यते ।। 3-17-7 जलेचरः मीनः। सर्वतिमिप्रमाथी इति झ. पाठः। वाहमुख्ये रथषेष्ठे ।। 3-17-12 सानुकर्षः रथाधस्थकाष्ठं अनुकर्षः सः। रथः तूणवान् ।। 3-17-16 आपततेति विसर्गलोप आर्षः ।। 3-17-22 जत्रुदेशे कण्ठमूले ।।
आरण्यकपर्व-016 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-018 |