महाभारतम्-03-आरण्यकपर्व-001
← आरण्यकपर्व | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-001 वेदव्यासः |
आरण्यकपर्व-002 → |
द्यूतजितानां पाण्डवानां द्रौपद्यासह वनंप्रति प्रस्थानम् ।। 1 ।। तदनु पौरैर्दुर्योधननगर्हणपूर्वकं पाण्डवैः सहारण्यवासेच्छया तदनुगमनम् ।। 2 ।। युधिष्ठिरेण प्रार्थनया तेषां पुरंप्रति निवर्तनपूर्वकं सायं गङ्गातीरगवटमेत्य तत्रानुगतब्राह्मणैः सह सुखेन रात्रियापनम् ।। 3 ।।
जनमेजय उवाच||
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ||१||
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् |
किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ||२||
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः |
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ||३||
के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् |
किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ||४||
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् |
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम् ||५||
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् |
पतिव्रता महाभागा सततं सत्यवादिनी ||६||
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत ||६||
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन |
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ||७||
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ||७||
वैशम्पायन उवाच||
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः |
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ||८||
वर्धमानपुरद्वारेणाभिनिष्क्रम्य ते तदा |
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ||९||
इन्द्रसेनादयश्चैनान्भृत्याः परिचतुर्दश |
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ||१०||
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः |
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् ||११||
ऊचुर्विगतसन्त्रासाः समागम्य परस्परम् ||११||
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः |
यत्र दुर्योधनः पापः सौबलेयेन पालितः ||१२||
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति ||१२||
नो चेत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् |
यत्र पापसहायोऽयं पापो राज्यं बुभूषते ||१३||
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः |
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ||१४||
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः |
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ||१५||
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः |
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ||१६||
एवमुक्त्वानुजग्मुस्तान्पाण्डवांस्ते समेत्य च |
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ||१७||
क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः |
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ||१८||
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः |
उद्विग्नाः स्म भृशं सर्वे नास्मान्हातुमिहार्हथ ||१९||
भक्तानुरक्ताः सुहृदः सदा प्रियहिते रतान् |
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ||२०||
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः |
शुभाशुभाधिवासेन संसर्गं कुरुते यथा ||२१||
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा |
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ||२२||
मोहजालस्य योनिर्हि मूढैरेव समागमः |
अहन्यहनि धर्मस्य योनिः साधुसमागमः ||२३||
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः |
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ||२४||
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च |
तान्सेवेत्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी ||२५||
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु |
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ||२६||
असतां दर्शनात्स्पर्शात्सञ्जल्पनसहासनात् |
धर्माचाराः प्रहीयन्ते न च सिध्यन्ति मानवाः ||२७||
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् |
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ||२८||
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः |
लोकाचारात्मसम्भूता वेदोक्ताः शिष्टसंमताः ||२९||
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः |
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः ||३०||
युधिष्ठिर उवाच||
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः |
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ||३१||
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः |
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ||३२||
भीष्मः पितामहो राजा विदुरो जननी च मे |
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ||३३||
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः |
युष्माभिः सहितैः सर्वैः शोकसन्तापविह्वलाः ||३४||
निवर्ततागता दूरं समागमनशापिताः |
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ||३५||
एतद्धि मम कार्याणां परमं हृदि संस्थितम् |
सुकृतानेन मे तुष्टिः सत्कारश्च भविष्यति ||३६||
वैशम्पायन उवाच||
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः |
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ||३७||
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः |
अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ||३८||
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः |
प्रजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ||३९||
तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः |
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ||४०||
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः ||४०||
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः |
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः ||४१||
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ||४१||
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे |
ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ||४२||
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः |
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन् ||४३|| 3.1.46
श्रीवेदव्यासाय नमः। | 3-1-1x |
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।। | 3-1-1a 3-1-1b |
जनमेजय उवाच | 3-1-1x |
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ।। | 3-1-1c 3-1-1d |
श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम्। किमकुर्वत कौरव्या मम पूर्वपितामहाः ।। | 3-1-2a 3-1-2b |
कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः। वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ।। | 3-1-3a 3-1-3b |
के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्। किमाचाराः किमाहाराः क्वच वासो महात्मनाम् ।। | 3-1-4a 3-1-4b |
कथं द्वादश वर्षाणि वने तेषां महात्मनाम्। व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम् ।। | 3-1-5a 3-1-5b |
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्। पतिव्रता महाभागा सततं प्रियवादिनी ।। | 3-1-6a 3-1-6b |
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत। एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ।। | 3-1-7a 3-1-7b |
श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम्। कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ।। | 3-1-8a 3-1-8b |
वैशंपायन उवाच। | 3-1-9x |
एवं द्यूतजिताः पार्थाः कोयिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ।। | 3-1-9a 3-1-9b |
वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा। उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ।। | 3-1-10a 3-1-10b |
इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश। रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ।। | 3-1-11a 3-1-11b |
`ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत। ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ।।' | 3-1-12a 3-1-12b |
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः। गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्। ऊचुर्वै समयं कृत्वा समागम्य परस्परम् ।। | 3-1-13a 3-1-13b 3-1-13c |
पौरा ऊचुः। | 3-1-14x |
नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः। यत्रदुर्योधनः पापः सौबलेयेन पालितः। कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति ।। | 3-1-14a 3-1-14b 3-1-14c |
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्। यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति ।। | 3-1-15a 3-1-15b |
दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः। अर्तलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ।। | 3-1-16a 3-1-16b |
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः। साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ।। | 3-1-17a 3-1-17b |
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः। हीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ।। | 3-1-18a 3-1-18b |
वैशंपायन उवाच। | 3-1-19x |
एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च। ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ।। | 3-1-19a 3-1-19b |
क्वगमिष्यथ भद्रंवस्त्यक्त्वाऽस्मान्दुःखभागिनः। वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ।। | 3-1-20a 3-1-20b |
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः। उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ ।। | 3-1-21a 3-1-21b |
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्। कुराजाघिष्ठिते राज्ये न विनश्येम सर्वशः ।। | 3-1-22a 3-1-22b |
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः। शुभाशुभाधिवासेन संसर्गः कुरुते यथा ।। | 3-1-23a 3-1-23b |
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा। पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ।। | 3-1-24a 3-1-24b |
मोहजालस्य योनिर्हि मूढैरेव समागमः। अहन्यहनि धर्मस्य योनिः साधुसमागमः ।। | 3-1-25a 3-1-25b |
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः। सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ।। | 3-1-26a 3-1-26b |
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च। ते सेव्यास्तैः समास्याहि शास्त्रेभ्योपि गरीयसी ।। | 3-1-27a 3-1-27b |
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु। पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ।। | 3-1-28a 3-1-28b |
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासवात्। धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः ।। | 3-1-29a 3-1-29b |
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्। मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः ।। | 3-1-30a 3-1-30b |
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः। ये गुणाः कीर्तिता लोके धर्मकामार्थसंभवाः। लोकाचारेषु संभूता वेदोक्ताः शिष्टसंमताः ।। | 3-1-31a 3-1-31b 3-1-31c |
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः। इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः ।। | 3-1-32a 3-1-32b |
युधिष्ठिर उवाच। | 3-1-33x |
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः। असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ।। | 3-1-33a 3-1-33b |
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः। नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ।। | 3-1-34a 3-1-34b |
भीष्मः पितामहो राजा विदुरो जननी च मे। सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ।। | 3-1-35a 3-1-35b |
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः। युष्माभिः सहिताः सर्वे शोकसंतापविह्वलाः ।। | 3-1-36a 3-1-36b |
निवर्ततागता दूरं ममागमनकाङ्क्षिणः। स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ।। | 3-1-37a 3-1-37b |
एतद्धि मम कार्याणां परमं हृदि संस्थितम्। कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति ।। | 3-1-38a 3-1-38b |
वैशंपायन उवाच। | 3-1-39x |
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः। चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ।। | 3-1-39a 3-1-39b |
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः। अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान् ।। | 3-1-40a 3-1-40b |
निवृत्तेषु तुं पौरेषु रथानास्थाय पाण्डवाः। आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ।। | 3-1-41a 3-1-41b |
ते तं दिषसशेषेण वटं गत्वा तु पाण्डवाः। ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ।। | 3-1-42a 3-1-42b |
उदकेनैव तां रात्रिमृषुस्ते दुःखकर्शिताः। अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ।। | 3-1-43a 3-1-43b |
साग्रयोऽनग्नयश्चैव सशिष्यगणबान्धवाः। स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ।। | 3-1-44a 3-1-44b |
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे। ब्रह्मघोषपुरस्कारः संजल्पः समजायत ।। | 3-1-45a 3-1-45b |
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः। आश्वासयन्तो विप्राग्र्याः क्षयां सर्वां व्यनोदयत् ।। | 3-1-46a 3-1-46b |
`राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः। अशेत तां निशांराजन्दुःखशोकसमाहितः ।।' | 3-1-47a 3-1-47b |
।। इति श्रीमन्महाभाते अरण्यपर्वणि किर्मीरवधपर्वणि प्रथमोऽध्यायः ।। 1 ।। |
3-1-1 पार्था इति च्छत्रिन्यायेन माद्रीसुतयोरप्युपलक्षणम्। दुरात्मभिर्दुष्टचित्तैः। सहामात्यैः कर्णादिभिः। निकृत्या छलेन ।।
3-1-2 सृजद्भिर्वैरमुत्तममिति ख. ङ. झ. पाठः ।। 3-1-3 एयुषः प्राप्तवन्तः। कथं चैश्वर्यविभ्रष्टा इति ख. झ. पाठः ।। 3-1-4 उत्तमं तीव्रम् ।। 3-1-8 द्रविणं पराक्रमस्तेजो देहकान्तिश्च ते उभे पुष्कले येषां ते भूरिद्रविणतेजसः ।। 3-1-9 गजसाह्वयात् हास्तिनपुरात् ।। 3-1-10 वर्धमानपुरंनाम ग्रामविशेषस्तदभिमुखं द्वारं तस्मात् ।। 3-1-11 परिचतुर्दश अधिकचतुर्दशाः। पञ्चदशेत्यर्थः। संख्यायाव्ययासन्नेति समासः। समासान्तविधेरनित्यत्वात् डचूप्रत्ययस्याभावः ।। 3-1-13 ऊचुर्विगतसंत्रासा इति ख. झ. पाठः ।। 3-1-16 प्रकृतिनिर्घृणः स्वभावनिर्दयः। त्यक्ताचारसुहृज्जन इति झ. पाठः ।। 3-1-18 सानुक्रोशाः सदयाः ।। 3-1-22 भक्तान् आराधनापरान्। अनुरक्तान् प्रीतिमतः। सुहृदः वेतनाद्युपकारमनपेक्ष्य उपकारकान्। न विनश्येम विनाशं न प्रार्थयासहे। प्रार्थनायां लिङ् ।। 3-1-24 आपः अपः ।। 3-1-27 अवदातानि शुद्धानि। समास्या संगतिः ।। 3-1-28 निरारम्भाः अग्निहोत्राद्यकुर्वाणा अपि ।। 3-1-29 न सिद्ध्यन्ति सिद्धिश्चित्तशुद्धिस्तां न प्राप्नुवन्ति धर्माचारहीनत्वात् ।। 3-1-31 अविषयैः अगोचरैरपरिचितैरित्यर्थः। धर्मकामार्थसंभवाः धर्मादीनां संभव उत्पत्तिर्येभ्यस्ते ।। 3-1-32 समस्ताः एकीभूताः। व्यस्ताः पृथक्पृथग्भूताः ।। 3-1-34 स्नेहो वात्सल्यं तत्सहिता अनुकम्पा दया ।। 3-1-40 समागम्य संपृच्छ्य 3-1-43 ऊषुः वासं चक्रुः ।। 3-1-44 ऊषुर्निन्युः ।। 3-1-45 साग्नयः दारैः सहिताः अग्नयो यैस्ते। रम्यत्वं तापविरहात्संध्यारागादिशोभातश्च। दारुणो रक्षःपिशाचादिसंचारकालत्वात् ।।
आरण्यकपर्व | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-002 |