पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००३ पद्मपुराणम्
अध्यायः ००४
वेदव्यासः
अध्यायः ००५ →
पद्मपुराणम्/खण्डः ६

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

अध्यायः ६३

अध्यायः ६४

अध्यायः ६५

अध्यायः ६६

अध्यायः ६७

अध्यायः ६८

अध्यायः ६९

अध्यायः ७०

अध्यायः ७१

अध्यायः ७२

अध्यायः ७३

अध्यायः ७४

अध्यायः ७५

अध्यायः ७६

अध्यायः ७७

अध्यायः ७८

अध्यायः ७९

अध्यायः ८०

अध्यायः ८१

अध्यायः ८२

अध्यायः ८३

अध्यायः ८४

अध्यायः ८५

अध्यायः ८६

अध्यायः ८७

अध्यायः ८८

अध्यायः ८९

अध्यायः ९०

अध्यायः ९१

अध्यायः ९२

अध्यायः ९३

अध्यायः ९४

अध्यायः ९५

अध्यायः ९६

अध्यायः ९७

अध्यायः ९८

अध्यायः ९९

अध्यायः १००

अध्यायः १०१

अध्यायः १०२

अध्यायः १०३

अध्यायः १०४

अध्यायः १०५

अध्यायः १०६

अध्यायः १०७

अध्यायः १०८

अध्यायः १०९

अध्यायः ११०

अध्यायः १११

अध्यायः ११२

अध्यायः ११३

अध्यायः ११४

अध्यायः ११५

अध्यायः ११६

अध्यायः ११७

अध्यायः ११८

अध्यायः ११९

अध्यायः १२०

अध्यायः १२१

अध्यायः १२२

अध्यायः १२३

अध्यायः १२४

अध्यायः १२५

अध्यायः १२६

अध्यायः १२७

अध्यायः १२८

अध्यायः १२९

अध्यायः १३०

अध्यायः १३१

अध्यायः १३२

अध्यायः १३३

अध्यायः १३४

अध्यायः १३५

अध्यायः १३६

अध्यायः १३७

अध्यायः १३८

अध्यायः १३९

अध्यायः १४०

अध्यायः १४१

अध्यायः १४२

अध्यायः १४३

अध्यायः १४४

अध्यायः १४५

अध्यायः १४६

अध्यायः १४७

अध्यायः १४८

अध्यायः १४९

अध्यायः १५०

अध्यायः १५१

अध्यायः १५२

अध्यायः १५३

अध्यायः १५४

अध्यायः १५५

अध्यायः १५६

अध्यायः १५७

अध्यायः १५८

अध्यायः १५९

अध्यायः १६०

अध्यायः १६१

अध्यायः १६२

अध्यायः १६३

अध्यायः १६४

अध्यायः १६५

अध्यायः १६६

अध्यायः १६७

अध्यायः १६८

अध्यायः १६९

अध्यायः १७०

अध्यायः १७१

अध्यायः १७२

अध्यायः १७३

अध्यायः १७४

अध्यायः १७५

अध्यायः १७६

अध्यायः १७७

अध्यायः १७८

अध्यायः १७९

अध्यायः १८०

अध्यायः १८१

अध्यायः १८२

अध्यायः १८३

अध्यायः १८४

अध्यायः १८५

अध्यायः १८६

अध्यायः १८७

अध्यायः १८८

अध्यायः १८९

अध्यायः १९०

अध्यायः १९१

अध्यायः १९२

अध्यायः १९३

अध्यायः १९४

अध्यायः १९५

अध्यायः १९६

अध्यायः १९७

अध्यायः १९८

अध्यायः १९९

अध्यायः २००

अध्यायः २०१

अध्यायः २०२

अध्यायः २०३

अध्यायः २०४

अध्यायः २०५

अध्यायः २०६

अध्यायः २०७

अध्यायः २०८

अध्यायः २०९

अध्यायः २१०

अध्यायः २११

अध्यायः २१२

अध्यायः २१३

अध्यायः २१४

अध्यायः २१५

अध्यायः २१६

अध्यायः २१७

अध्यायः २१८

अध्यायः २१९

अध्यायः २२०

अध्यायः २२१

अध्यायः २२२

अध्यायः २२३

अध्यायः २२४

अध्यायः २२५

अध्यायः २२६

अध्यायः २२७

अध्यायः २२८

अध्यायः २२९

अध्यायः २३०

अध्यायः २३१

अध्यायः २३२

अध्यायः २३३

अध्यायः २३४

अध्यायः २३५

अध्यायः २३६

अध्यायः २३७

अध्यायः २३८

अध्यायः २३९

अध्यायः २४०

अध्यायः २४१

अध्यायः २४२

अध्यायः २४३

अध्यायः २४४

अध्यायः २४५

अध्यायः २४६

अध्यायः २४७

अध्यायः २४८

अध्यायः २४९

अध्यायः २५०

अध्यायः २५१

अध्यायः २५२

अध्यायः २५३

अध्यायः २५४

अध्यायः २५५

विषयानुक्रमणिका

नारद उवाच-
क्रमेण वर्द्धमानोऽसौ बाल्यभावे स बालकः
निपत्य मारुतोत्संगे सागरं प्रति धावति १
आनीय चक्रे स च पंजरस्थान्क्रीडापरः केसरिणां किशोरान्
सिंहादिनेभादिनि युद्धमेवं युधोपयोगीव तदीय वीर्यम् २
तस्मादाकाशमुत्पत्य खेचरान्पातयेद्भुवि
गर्जितैर्भीषयामास स्वर्गं हि सह सागरम् ३
समुद्रांतर्गतं सर्वं सत्वजातं तु पार्थिव
ग्रस्तं सिंधुसुतेनेति तद्भयाच्छन्नतां गतम् ४
दृष्ट्वा निःसत्वकं तोयं तद्भयाद्वडवानलः
निजदेशं परित्यज्य प्रविवेश हिमालयम् ५
स बालत्वं परित्यज्य क्रमेणार्णवनंदनः
ततो नवं वयः प्राप्य विक्रमेणाक्रमद्दिवम् ६
एकदा पितरं प्राह समुद्रं सिंधुनंदनः
मन्निवासोचितं स्थानं देहि तातातिविस्तृतम् ७
संबुद्ध्य वचनं सूनोः स जगाद महार्णवः
पुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्ल्लभम् ८
अनंतरं दैत्यगुरुः समुद्रं भार्गवो गतः
तमागतं विलोक्याब्धिर्विधिना समपूजयत् ९
अथ नदिपतिदत्ते प्राप्तसौंदर्यनिर्यन्मणिमहसि स तस्मिन्नासने सन्निविष्टः
रुचिररुचि सुमेरोः सुंदरे शृंगभागे कमलजइव कांतिं किंचिदुच्चैर्जहार १०
कृतांजलिपुटो भूत्वा व्याजहारार्णवः कविम्
दिष्ट्या तवात्रागमनं वद किं करवाण्यहम् ११
तदा दैत्यकुलाचार्यः प्राह तं सागरं कविः
किं तेन जातु जातेन मातुर्यौवनहारिणा १२
प्ररोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा
तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यति ध्रुवम् १३
जंबूद्वीपे महापीठं योगिनीगणसेवितम्
आप्लावितं त्वयेदानीं मुंच जालंधरालयम् १४
तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव
अजेयश्चाप्यवध्यश्च तत्रस्थोऽयं भविष्यति १५
एवमुक्तोऽर्णवः प्रीत्या भार्गवेणाथ लीलया
अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयत् १६
शतयोजनविस्तीर्णमायतं च शतत्रयम्
देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम् १७
दैत्यवर्यं समाहूय मयं प्रोवाच सागरः
पुरं जालंधरे पीठे कुरु जालंधराय वै १८
अंभोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम्
प्राकारगोपुरद्वारं सोपानगृहभूमिकम् १९
यत्रेंद्रनीलसंबद्धप्रासादतल संस्थिताः
मेनिरे जलदोद्योगं तांडवस्थाः शिखंडिनः २०
यत्र प्रवालमाणिक्य भवनोत्था मरीचयः
सेव्यंते शकुनैश्चूतरुचिरांकुरशंकया २१
यत्र कांचनहर्म्येषु त्विषो वह्निषु कातराः
विलोक्य प्रपलायंते दावशंकाः शिखंडिनः २२
यत्र स्फटिकशालोत्थ प्रभासं मिश्रिता दिशः
विभांति मंदरोद्भ्रांताः सफेनार्णवसंनिभाः २३
यत्र मोहं स्वहर्म्येषु विभातालोकसंस्थिताः
चक्रिरे ललनाः पूर्णसांध्यचंद्रोपमाननाः २४
यत्रेन्द्र नीप कादंब पवनोद्यानमोदिताः
चित्तं विशंत्यो नारीणां चक्रिरे मोहनज्वरम् २५
यत्र लेख्यगतं नॄणां विलोक्य सुरतं जनः
संयाति द्विगुणं नूनं निजकांतारतोद्यमः २६
यत्र वातायनोद्धूत धूपधूमस्य लेखयः
नभो बभूव तद्गंगाकालिंदीसंगमोपमम् २७
यत्रानेकगृहोद्भूत प्रभया सकलं नभः
विभातींद्रायुधाकीर्णं शरन्मेघ इवोन्नतः २८
यत्रानिशं भ्रमभ्रांताः सूर्यवाहाः प्रपीडिताः
विश्रामं यांति मध्याह्ने प्रासादशिरसि स्थिताः २९
यत्रकुत्रच हर्म्येषु बिभ्रत्यो मालतीस्रजः
रात्रौ संभूतनक्षत्रा इव रेजुर्वरांगनाः ३०
यत्र हाटकहिंदोल शृंखलाघर्षणोद्भवः
चकार सुंदरीं शब्दः स्फुटं मेरुभुवोभुवम् ३१
साकं सरिद्भिः पुत्रस्योशनसा सह सागरः
तत्राभिषेकमकरोद्वादित्रैर्निज गर्जितैः ३२
याः स्कंदस्य जगाद तारकजये देवः स्वयंभूः स्वयं स्वः साम्राज्यमहोत्सवेऽपि च शचीकांतस्य वाचस्पतिः
ताभिश्चित्रविंरिंचि वक्त्रसरसी हंसीभिराशास्महे वाणीभिर्वसुधाविवाहसमये मंत्रोत्सवैर्मंगलम् ३३
महापद्मसहस्रं तु सैन्यमात्मोदरोद्भवम्
जालंधराय पुत्राय ददौ भीमं महोदधिः ३४
जालंधराय शुक्रोऽपि प्रीत्या विद्यां निजां ददौ
मृतसंजीवनीं नाम्ना मायां रुद्रविमोहिनीम् ३५
शस्त्रास्त्रविद्या अन्याश्च विधिना अब्धिसूनवे
यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा ३६
ततो जालंधरं पुत्रमभिषिच्यार्णवो ययौ
स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः ३७
दृष्ट्वा जालंधरो दिव्यपुरं गोपुरमंडितम्
व्यचरत्सह शुक्रेण द्विजसंघैः सुपूजितः ३८
एतस्मिन्नंतरे दैत्याः पातालस्था महाबलाः
प्राप्ता जालंधरं सर्वे कालनेमिपुरोगमाः ३९
ततो महाबला वीरा बलं क्षीरोदसंनिभम्
तस्य शुंभासुरं दैत्यं सेनापतिमकल्पयन् ४०
बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम्
जालंधरस्तदा राज्यं पितृदत्तं चकार सः ४१
अत्रांतरेऽप्सराः काचित्स्वर्णेत्यासीत्पुरा दिवि
तस्याः क्रौंचप्रसादेन वृंदानाम सुताभवत् ४२
धात्रा विभवसंयुक्तं सौंदर्यं यत्कृतं पृथक्
तत्तदेकगतं द्रष्टुं वृंदागात्रं विनिर्मितम् ४३
तां वृंदामतिचार्वंगीं प्रमदां जनमोहिनीम्
स्वर्णा जालंधरस्यार्थे ददौ शुक्राय याचते ४४
शुक्र उवाच-
कंदर्पस्य जगन्नेत्र शस्त्रेणाश्चर्यकारिणा
रूपेणानेन रंभोरु दीर्घायुः सुखिनी भव ४५
निर्माय स्वयमेव विस्मितमनाः सौंदर्यसारेण यं
स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयत्
कंदर्पं पुरुषं स्त्रियो विदधते यस्मिन्न दृष्टे सति द्रष्टव्यावधि
रूपमाप्नुहि पतिं तं दीर्घनेत्रं भटम् ४६
उपयेमे विवाहेन गांधर्वेणार्णवात्मजः
वृंदां तौ दंपती जातौ जनानंदकरौ नृप ४७
चंचलत्वं परित्यक्तं तया जालंधरोऽपि हि
वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम् ४८
कदाचित्स सभासीनो दृष्ट्वा राहुं शिरोहृतम्
कस्मात्कायार्द्धशेषोऽयं इति पप्रच्छ भार्गवम् ४९
स तस्य कथयामास पूर्ववृत्तांतमादितः
यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् 6.4.५०
तच्छ्रुत्वा विस्मितो वाक्यं प्राह जालंधरोऽसुरः
प्रसादसुमुखो राहुं कामरूपो भवाधुना ५१
इति शुक्रस्य मंत्रेण सिंधुसूनुः प्रतापवान्
पितृव्यं संस्मरन्वीर विग्रहं त्वकरोत्सुरैः ५२
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे नारद युधिष्ठिरसंवादे जालंधरोपाख्याने वृंदाविवाहो जालंधराभिषेकोनाम चतुर्थोऽध्यायः ४