पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०५ पद्मपुराणम्
अध्यायः १०६
वेदव्यासः
अध्यायः १०७ →

पृथुरुवाच
सेतिहासमिमं ब्रह्मन्माहात्म्यं कथितं त्वया
अत्याश्चर्यकरं सम्यक्तुलस्यास्तु श्रुतं महत् १
यदूर्जव्रतिनः पुंसः फलं महदुदाहृतम्
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं कथम् २
नारद उवाच
आसीत्सह्याद्रिविषये करवीरपुरे पुरा
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तोऽतिविश्रुतः ३
विष्णुव्रतकरः शश्वद्विष्णुपूजारतः सदा
द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः ४
कदाचित्कार्तिके मासि हरिजागरणाय सः
रात्र्या तुर्यांशशेषायां जगाम हरिमंदिरम् ५
हरिपूजोपकरणान्प्रगृह्य व्रजता तदा
तेन दृष्टा समायाता राक्षसी भीमनिःस्वना ६
वक्रदंष्ट्रानना जिह्वा निमग्ना रक्तलोचना
दिगंबरा शुष्कमांसा लंबोष्ठी घर्घरस्वना ७
तां दृष्ट्वा भयवित्रस्तः कंपितावयवस्तदा
पूजोपकरणैर्वेगात्पयोभिश्चाहनद्भयात् ८
संस्मृत्य च हरेर्नाम तुलसीयुतवारिणा
सा हता पातकं तस्मात्तस्याः सर्वमगात्क्षयम् ९
अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजम्
स्वां दशामब्रवीत्सर्वां दंडवत्तं प्रणम्य सा १०
कलहोवाच
पूर्वकर्मविपाकेन दशामेतां गता ह्यहम्
तत्कथं तु पुनर्विप्र याम्युत्तमगतिं शुभाम् ११
नारद उवाच
तां दृष्ट्वा प्रणतामग्रे वदमानां स्वकर्म तत्
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् १२
धर्मदत्त उवाच
केन कर्मविपाकेन त्वं दशामीदृशीं गता
कुतस्त्वं का च किं शीला तत्सर्वं कथयस्व मे १३
कलहोवाच
सौराष्ट्रनगरे ब्रह्मन्भिक्षुनामाभवद्द्विजः
तस्याऽहं गृहिणी पूर्वं कलहाख्याति निष्ठुरा १४
न कदाचिन्मया भर्तुर्वचसापि शुभं कृतम्
नार्पितं तस्य मिष्टान्नं भर्तुर्वचनभंगया १५
कलहप्रियया नित्यं भयोद्विग्नस्तदा द्विजः
परिणेतुं तदाऽन्या स मतिं चक्रे पतिर्मम १६
ततो गरं समादाय प्राणास्त्यक्ता मया द्विज
अथ बध्वा बध्यमानां मां विनिन्युर्यमानुगाः १७
यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत
यम उवाच
अनया किं कृतं कर्म चित्रगुप्त विलोकय १८
प्राप्नोत्वेषा कर्मफलं शुभं वाशुभमेव च
चित्रगुप्तस्ततो वाक्यं भर्त्सयन्समुवाच ह १९
चित्रगुप्त उवाच
अनया तु शुभं कर्म कृतं किंचिन्न विद्यते
मिष्टान्नं भुक्तमनया न भर्तरि तदर्पितम् २०
अतश्च वल्गुली योन्यां स्वविष्ठादावतिष्ठतु
भर्तुर्द्वेषकरी त्वेषा नित्यं कलहकारिणी २१
विष्ठादा शूकरी योन्यां ततस्तिष्ठत्वियं हरे
पाकभांडे सदा भुक्तं नित्यं चैवानया यतः २२
तस्माद्दोषाद्बिडाली तु स्वजातापत्यभक्षिणी
भर्तारमनयोद्दिश्य ह्यात्मघातः कृतो यतः २३
तस्मात्प्रेतपिशाचेषु तिष्ठत्वेषातिनिंदिता
ततश्चैव मरुं देशं प्रापितव्या भटैः सह २४
तत्र प्रेतशरीराख्या चिरं तिष्ठत्वियं ततः
इत्थं योनित्रयं त्वेषा भुनक्त्वा शुभकारिणी २५
कलहोवाच-
साहं पंचशताब्दानि प्रेतदेहे स्थिता किल
क्षुतृड्भ्यां पीडिता नित्यं दुःखिता स्वेन कर्मणा २६
ततः क्षुत्पीडिता नित्यं शरीरं वणिजस्त्वहम्
आयाता दक्षिणं देशं कृष्णावेण्यास्तु संगमे २७
तत्तीरसंश्रिता यावत्तावत्तस्य शरीरतः
शिवविष्णुगणैर्दूरमपाकृष्टा बलादहम् २८
ततः क्षुत्क्षामया दृष्टो भ्रमंत्या त्वं मया द्विज
प्रक्षिप्ततुलसीवारिसंसर्गगतपापया २९
तत्कृपां कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम्
योनित्रयादति भयादस्माच्च प्रेतदेहतः ३०
इत्थं निशम्य कलहा वचनं द्विजश्च तत्कर्मपाकभवविस्मयदुःखयुक्तः
तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिर्ध्यात्वा चिरं स वचनं निजगाद दुःखात् ३१
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये कलहोपाख्यानंनाम षडधिकशततमोऽध्यायः १०६