पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २४९ पद्मपुराणम्
अध्यायः २५०
वेदव्यासः
अध्यायः २५१ →

श्रीरुद्र उवाच-
रुक्मिण्यां कृष्णस्य प्रद्युम्नो मदनांशेन जज्ञे १।
असौ मदनसंभूतो महाबलः शंबरं जघ्निवान् २।
तस्य रुक्मिणः सुतायामनिरुद्धो जज्ञे ३।
सोऽपि बाणपुत्रीमुषां नाम कन्यामुपयेमे ४।
सा तु स्वप्ने नीलोत्पलदलश्यामं पुंडरीकनिभेक्षणं महाबाहुं विचित्राभरणोपेतं षोडशसमायथावदुपभुज्य प्रबुध्य तं पुरतो न दृष्ट्वा मदनेनपीडिता भ्रांतचित्ता मां तु त्यक्त्वा वयस्कं रक्तारविंदवक्त्रं क्वासि क्व यासीति बहुधा विललाप ५।
ततस्तस्याः सखी चित्रलेखेति नाम कन्यां तादृशीमवस्थां गतां विलोक्य किंनिमित्त विभ्रांतचित्तासीति पप्रच्छ ६।
सापि स्वप्नलब्धं पतिं यथावदाचष्ट ७।
सापि सकलदेवमानुषादिश्रेष्ठान्पटे विलिख्य तस्यै दर्शयामास ८।
यदुवंशसंभूतान्कृष्णसंकर्षणप्रद्युम्नानिरुद्धादीनपि सम्यङिनवेदयामास ९।
सा तेषां कृष्णमनुमान्य प्रद्युम्नानंतरमनिरुद्धं दृष्ट्वा स इत्येष इत्यालिलिंग १०।
अथ चित्रलेखा बह्वीभिर्मायावतीभिर्दैत्यस्त्रीभिर्द्वारवतीं गत्वा रात्रावंतःपुरे सुप्तमनिरुद्धं।
दृष्ट्वा गृहीत्वा मोहयित्वा माहिष्मत्यां बाणस्यांतःपुरे चैत्यप्रासादादियुक्ते तस्या बाणपुत्र्याः शय्यायां चिक्षेप ११।
सोऽपि प्रबुद्धोतिरम्येऽनंगपावके संस्थितामुषां सर्वलक्षणलक्षितां विचित्राभरणवसनगंधमाल्यालंकृतां कांचनवर्णां सुकेशीं सुजातस्तनीं दृष्ट्वा गाढमालिंग्य करिण्या गंधहस्तीव तयातिप्रीतिसंयुक्तया यथासुखं रमयामास १२।
एवं मासमात्रं निरंतरतयानिरुद्धं रममाणं कदाचिदंतःपुरनिवासिन्यो वृद्धा दैत्यस्त्रियो ज्ञात्वा राज्ञे निवेदयामासुः १३।
स राजा क्रोधताम्राक्षः परं विस्मयं गत्वा तमिहानयतेति पुरः किंकरान्प्रेषयामास १४।
तेऽपि तूर्णं नृपप्रासादमारुह्य राजपुत्र्याः शयने संस्थितमनिरुद्धं ग्रहीतुमाजग्मुः १५।
स तान्समारब्धान्दृष्ट्वा प्रासादस्तंभमेकं हेलयोत्पाट्य नियुतसंख्याकान् किंकरान्मुहूर्तमात्रणैव स्तंभेन चूर्णितमात्रं चकार १६।
अथ दैत्यपतिर्निहतान्किंकरान्दृष्ट्वा कौतूहलं गत्वा असौ श्रीकृष्णपौत्र इति देवर्षिणा प्रोक्तो धनुरादाय स्वयमेवानिरुद्धं ग्रहीतुं तत्समीपमाजगाम १७।
अनिरुद्धोऽपि योद्भुमायांतं सहस्रबाहुं राजानं दृष्ट्वा तत्परिघं भ्रामयित्वा बाणस्योपरि चिक्षेप १८।
स्वचापनिर्मुक्तेन बाणेन तं परिघं चिच्छेद १९।
अनंतरमुरगास्त्रेण अनिरुद्धं निबिडं बद्ध्वा स्वांतःपुरे निवेशयामास २०।
अथ कृष्णोप्येवंविधमेव देवर्षिणा ज्ञात्वा बलदेवप्रद्युम्नसहितः स्वसेनया विहंगमेंद्रमारुह्य तस्यबाणस्य भुजवनं छेत्तुमाजगाम २१।
बलिपुत्रेण पुरा शंकरोऽर्चितः प्रसन्नो वरं वृणीष्वेत्युवाच २२।
तमीश्वरं बाणो मम पुरद्वारिरक्षार्थं सर्वदोपविश्य समागतं परसैन्यं जहीत्येवं वरमयाचत२३।
तं तथेत्युक्त्वा शंकरोऽपि तस्य पुरद्वारि सायुधः सपुत्रः सगणः समासीनस्तस्मिन्नेव काले रुषा स्वसेनया समागतं वासुदेवं दृष्ट्वा वृषमारुह्य सर्वायुधोपेतः स्वपुत्रगणसंवृतो योद्धुं निश्चक्राम २४।
कृष्णोऽपि तं भूतपतिं गजचर्मकपालभस्मधरं ज्वलितोरगाकल्पं पिंगलं त्रिलोचनं त्रिशूलधरं सर्वभूतगणसंहृतिकर्त्तारं सर्वभूतभयावहं संवर्त्ताग्निप्रभं पुत्रद्वयसमन्वितं समस्तगणावृतं त्रिपुरांतकं दृष्ट्वा सेनां सुदूरे पृष्ठतो निवेश्य बलभद्र प्रद्युम्नसहितस्तेन रुद्रे ण सह प्रहसन्निव योद्धुमारेभे २५।
प्रथमं तदभूद्घोरं कृष्णशंकरयोस्तदा ।
पिनाकशार्ङ्गनिर्मुक्तैर्बाणैः संवर्त्तकोपमैः २६।
रामोऽपि चक्रे बाणेन प्रद्युम्नः षण्मुखेन च ।
युयुधाते महावीर्यौ सिंहाविव बलोत्कटौ २७।
विनायकः स्वदंतेन जघानोरसि यादवम् ।
रामो मुशलमादाय तस्य दंतमताडयत् २८।
निर्भिन्नदंतः सहसा प्रदुद्रावाखुवाहनः ।
तदाप्रभृति लोकेऽस्मिन्हतदंतो गणेश्वरः २९।
देवदानवगंधर्वैरेकदंतइतीरितः ।
प्रद्युम्नेन समं युद्धं चकार शिखिवाहनः ३०।
गणान्विद्रावयामास मुशलेन हलायुधः ।
कृष्णेन सुचिरं कालं युद्धासौ नीललोहितः ३१।
तापज्वरं महादीप्तमस्मिन्संयोज्य सायके ।
कोपान्मुमोच तदसौ भृशं संरक्तलोचनः ३२।
तदस्त्रं वारयामास कृष्णः शीतज्वरेण तु ।
ताभ्यां हरिहराभ्यां तु विसृष्टौ ताविमौ ज्वरौ ३३।
विशतुर्मानुषे लोके तयोरेवाज्ञया भृशम् ।
हरिशंकरयोर्युद्धं ये तु शृण्वंति मानवाः ३४।
ते सर्वे ज्वरनिर्मुक्ताः प्राप्नुवंति निरामयम् ।
ततः स तु हृषीकेशो मोहनास्त्रं दुरासदम् ३५।
नियुज्य बाणं भूतेशे मुमोच मधुसूदनः ।
मुहुर्मुहुर्व्यजृंभद्वै तेनास्त्रेण विमोहितः ३६।
पपात मूर्च्छितो भूमौ शंकरस्त्रिदशेश्वरः ।
पितरं मोहितं दृष्ट्वा शक्तिमुद्यम्य वीर्यवान् ३७।
योद्धुमभ्याययौ कृष्णं षण्मुखः शिखिवाहनः ।
हुंकारेणैव तं कृष्णश्चकारात्र पराङ्मुखम् ३८।
एवं जित्वा यदुश्रेष्ठः शूलपाणिं त्रिलोचनम् ।
महास्वनं पांचजन्यं शंखं दध्मौ प्रतापवान् ३९।
कृष्णेन निर्जितं श्रुत्वा सात्मजं शंकरं तदा ।
बाणः स्यंदनमास्थाय ययौ युद्धाय केशवम् ४०।
स दृष्ट्वा सहसा कृष्णं गरुडोपरिसंस्थितम् ।
छादयामास गोविंदं बहुशस्त्रास्त्रवृष्टिभिः ४१।
गदाभिः परिघैः शूलैः शक्तिभिस्तोमरैरपि ।
भिंडिपालैश्च खङ्गैश्च चक्रैर्बाणैर्निरंतरम् ४२।
तानि सर्वाणि चिच्छेद चक्रेणैव जनार्दनः ।
ससर्ज तस्य बाहूनां छेदनार्थं सुदर्शनम् ४३।
मुक्तं दनुजराजस्य सहस्रारं सुदर्शनम् ।
तद्बाहुकाननं तूर्णं छिन्नं चक्रे सहस्रधा ४४।
एतस्मिन्नंतरे देवि पार्वती संशितव्रता ।
हरेः समीपमागत्य कृतांजलिरभाषत ४५।
पार्वत्युवाच-
कृष्णकृष्ण जगन्नाथ नारायण दयानिधे ।
दास्यस्मि तव देवेश पूर्वभावे यदूत्तम ४६।
त्वया दत्तं वरं मह्यं तदा कौशलपर्वते ।
सौभाग्यं शाश्वतं सौम्य प्रसन्नेन महात्मना ४७।
तव मुख्यं सहस्रस्य नाम्नामन्यतमं विभो ।
गौरीसौभाग्यदातेति मुनिभिः परिकीर्तितम् ४८।
तत्सत्यं कुरु गोविंद गरुडारूढ शाश्वत ।
तस्मान्मम पतिं देव त्वं जीवयितुमर्हसि ४९।
रुद्र उवाच-
एवमुक्तस्ततो देव्या कृष्णः कमललोचनः ।
अस्त्रं संहारयामास येनासौ मोहितः पतिः ५० 6.250.50।
कृष्णास्त्रेण विनिर्मुक्तः सर्वभूतपतिः शिवः ।
उत्थाय प्रांजलिर्भूत्वा तुष्टाव जगतां पतिम् ५१।
शंकर उवाच-
कृष्णकृष्ण जगन्नाथ भगवन्पुरुषोत्तम ।
परेश परमेशान अनादिनिधनाव्यय ५२।
तीव्रवीर्यं मनुष्येषु शरीरग्रहणात्मिका ।
सर्वस्य तव चेष्टेयं मानलक्षणमेव तत् ५३।
प्रसीद मे नमस्तुभ्यं प्रसीद मम शाश्वत ।
प्रसीद मे जगत्स्वामिन्प्रसीदाच्युत केशव ५४।
त्वमेव जगतां स्रष्टा धाता हर्त्ता जगद्गुरुः ।
त्वमेव चिदचिद्वस्तुरूपं ब्रह्म सुरेश्वर ५५।
त्वमादिस्त्वमनादिस्त्वमीश्वरः शेष एव च ।
त्वं महत्त्वं परं ब्रह्म प्रत्यगात्मा त्वमेव हि ५६।
समस्तामरवर्य्यस्त्वममर्त्यस्त्वं सुरेश्वर ।
त्वं मर्त्त्येशः सयोनिस्त्वं सौशील्येन तव प्रभो ५७।
तव श्वाससमुत्पन्नौ परजीवौ सनातनौ ।
ततश्च पाल्यते चैव तव वात्सल्यगौरवात् ५८।
क्षराक्षरे परे धाम्नि रुचो नित्यं सुराश्रये ।
अधि विश्वे निधेषि त्वां दास्यकर्मणि नान्यथा ५९।
यस्त्वां न वेदलोकेऽस्मिन्स मूढः सर्वभावनः ।
परावरेश्वरं धाम विदुर्दास्ये मनीषिणः ६०।
ते वै समासते युक्तास्तत्पदं त्रिदशैः समम् ।
सामान्यो भजते दूरेनंतुं नित्यं पदं तव ६१।
तस्य तुर्या चारुकेशी चावस्था घटते तव ।
मिथुनानि तवाध्यक्ष ब्रुवते यदुशाश्वत ६२।
तव नामानि कर्माणि गुणानि शाश्वतानि च ।
ऐश्वर्याणि गुणातीत ब्रुवते चोत्तमे इमे ६३।
कर्मज्ञानमये रूपे इमे पूर्वोत्तरे श्रुते ।
ससुतौ युवतीशस्य स्तोतारौ तव केशव ६४।
त्वं प्रज्ञानं परं ब्रह्म त्वया प्राज्ञेन शाश्वत ।
जीवयैतेन प्रज्ञेन परेणैवात्मना त्वया ६५।
तस्माच्छरीरादुत्क्रम्य कृपया तव केवलम् ।
आमुष्मिके परे स्वर्गे त्वया दत्तात्मबोधवान् ६६।
प्रज्ञानं चैव विज्ञानं मेधां दृष्टिं तथा धृतिम् ।
सर्वान्कामानवाप्नोति अमृतं स भवेत्तदा ६७।
एतत्संज्ञानमात्मानं यदेतद्धृदि यन्मनः ।
मनीषा चैव युक्तिश्च स्मृतिः संकल्प एव च ६८।
तपश्च क्रतवः कामो दश इत्यादि ते प्रभो ।
भवंति नामधेयानि प्रज्ञानस्य घृणानिधेः ६९।
एष त्वं परमं ब्रह्म एष त्वं वै प्रजापतिः ।
एष त्वमिंद्रो रुद्रश्च एष त्वं सर्वदेवताः ७०।
एतानि सर्वभूतानि त्वमेव परमेश्वर ।
सुत मित्राणि जीवायुस्तथान्यानि सनातन ७१।
जरायुजाण्डजातानि स्वेदजोद्भिद्यजानि च ।
अश्वा गावश्च पुरुषा हस्तिनश्चेतराणि च ७२।
यत्किंचित्प्राणिजातं च जंगमाश्चैव जंतवः ।
स्थावरा ये च वै नाथ सर्वे त्वत्तो भवंति च ७३।
त्वां हि सर्वं गतं चेत्थं वदंति श्रुतयो हरिम् ।
त्वयैव प्रेरिता लोकाश्चेष्टंते साध्वसाधुषु ७४।
तस्मान्मया कृतं यच्च अपराधमिदं प्रभो ।
क्षमस्व करुणासिंधो गुणैः शुभतमैस्तव ७५।
नमस्ते पुंडरीकाक्ष गोविंदाच्युत माधव ।
वासुदेव जगद्वंद्य नारायण नमोस्तु ते ७६।
नमस्यामि जगत्स्वामिन्नृसिंहकरुणाकर ।
श्रीश सर्वगत श्रीमन्परमात्मन्नमोस्तु ते ७७।
निजावसथवैकुंठ नित्यमुक्तार्चितप्रभो ।
त्रयीनाथ नमस्तुभ्यं रामराजीवलोचन ७८।
भूभारकविनाशाय कृष्णानंदस्वरूपिणे ।
विष्णवे जिष्णवे तुभ्यं नमस्ते यदुनंदन ७९।
एवं स्तुत्वाथ गोविंदं प्रणिपत्य उमापतिः ।
प्रांजलिः प्राह भूतेशो वाक्यं गंभीरया गिरा ८०।
रुद्र उवाच-
मया दत्तवरो ह्येष बाणो बलिसुतः प्रभो ।
अहं च दत्तवांस्तस्मै पुरानेनार्थितो वरम् ८१।
अमरत्वं यदुश्रेष्ठ सर्वं कर्तुं त्वमर्हसि ।
तस्मादेनं बलिसुतं त्रातुमर्हसि मे प्रियम् ८२।
तथेत्युक्त्वा च भगवान्बाणं बलिसुतं तदा ।
प्राणसंशयमापन्नं च्छिन्नबाहुमसृक्चितम् ८३।
संहृत्य चक्रं गोविंदो मुमोच करुणानिधिः ।
मोचयित्वा बलिसुतं शंकरः संशितव्रतः ८४।
वृषभेंद्रं समारुह्य पार्वत्यासहितः प्रभुः ।
ययौ च वसतिस्थानं कैलासं धरणीधरम् ८५।
स तु बाणो नमस्कृत्य रामकृष्णौ महाबलौ ।
ताभ्यां वै नगरीं गत्वा मुमोच मदनात्मजम् ८६।
वस्त्रैराभरणैर्दिव्यैः पूजयित्वा यथार्हतः ।
उषां संप्रददौ तस्मै कृष्णपौत्राय शौरये ८७।
उद्वाह्य रामकृष्णौ तमनिरुद्धं यथाविधि ।
बाणेन पूजितौ तत्र प्रद्युम्नसहितौ तदा ८८।
उषयासहितं तत्रानिरुद्धं वै जनार्दनः ।
आरोप्य स्यंदने दिव्ये ययौ द्वारवतीं तदा ८९।
रामप्रद्युम्नसहितः सेनया सहितो हरिः ।
प्रविवेश पुरीं रम्यां त्रिदशैर्मघवानिव ९०।
अनिरुद्धो बाणपुत्र्या नानारत्नमये गृहे ।
अनिशं रमयामास नानाभोगैर्मुदान्वितः ९१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे बाणासुरसंग्रामकथनंनाम पंचाशदधिकद्विशततमोऽध्यायः२५०।