पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४८ पद्मपुराणम्
अध्यायः २४९
वेदव्यासः
अध्यायः २५० →

श्रीरुद्र उवाच-
सत्राजितस्य तनया नाम्ना सत्या यशस्विनी
पृथिव्यंशेन संभूता भार्यां कृष्णस्य वा परा १
वैवस्वती महाभागा कालिंदी नाम नामतः
तृतीया तस्य भार्या सा लीलांशा समुपस्थिता २
विंदानुविंदस्य सुतां मित्रविंदां शुचिस्मिताम्
स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ३
पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान्
तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः ४
सत्राजितो महारत्नं स्यमंताख्यं महीपतिः
अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ५
ययाचे तं मणिवरं कदाचिन्मधुसूदनः
उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ६
प्रसेन उवाच-
भारानष्टसुवर्णानि नित्यं प्रसवते मणिः
तस्मात्कस्य न दातव्यं स्यमंताख्यमिदं मया ७
महादेव उवाच-
कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह
कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः ८
प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः
प्रत्येकं वै मृगान्हंतुमनुयाताः सहस्रशः ९
एक एव महारण्ये प्रसेनो दूरमागतः
तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः १०
तं सिंहं जांबबान्हत्वा मणिं गृह्य महाबलः
प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम् ११
तस्मिन्नस्तंगते सूर्ये वासुदेवं सहानुगः
चतुर्थ्यामुदितं चंद्रं दृष्ट्वा स्वं पुरमाविशत् १२
ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम्
हत्वा प्रसेनं गोविंदो मृगव्याजेन कानने १३
स्यमंतकं मणिवरमग्रहीदविशंकया
तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम् १४
अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ
दर्शयामास तान्सर्वान्सिंहेन निहतं वने १५
लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम्
एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम् १६
दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशंकितः
तत्र नाना मणिवरद्योतिते विमले गृहे १७
सुतं जांबवतो धात्री दोलामारोप्य लीलया
दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा १८
सिंहः प्रसेनमवधीत्सिंहो जांबवता हतः
सुकुमारक मा रोदीस्तव ह्येष स्यमंतकः १९
तच्छ्रुत्वा वासुदेवोऽथ शंखं दध्मौ प्रतापवान्
तेन नादेन महता निर्जगामात्र जांबवान् २०
तयोर्युद्धमभूद्घोरं दशरात्रं निरंतरम्
मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् २१
कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम्
अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः २२
सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः
स आगतो मम स्वामी दातुं मम मनोरथम् २३
एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत्
प्रांजलि प्राह गोविंदं को भवानिति विस्मयात् २४
निवर्त्य कदनं शौरिः प्रोचे गंभीरया गिरा
श्रीकृष्ण उवाच-
पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः २५
ममरत्नं स्यमंताख्यं हृतवांस्त्वं सुनिर्भयः
तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि २६
महादेव उवाच-
तच्छ्रुत्वा जांबवान्हृष्टः प्रणनामाथ दंडवत्
परिणीय नमस्कृत्य विनयात्प्राह केशवम् २७
जांबवानुवाच-
धन्योस्मि कृतकृत्योस्मि तव संदर्शनात्प्रभो
दासोऽहं पूर्वभावेन तव देवकिनंदन २८
दत्तवानसि गोविंद कदनं पूर्वकांक्षितम्
मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया
तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत २९
महादेव उवाच-
इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः
नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ३०
शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा
मधुपर्कविधानेन पूजयित्वा यदूद्वहम् ३१
वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः
पुत्रीं जांबवतीं नाम कन्यां लावण्यसंयुताम् ३२
कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे
अन्यैश्च मणिमुख्यैश्च स्यमंताख्यं ददौ मणिम् ३३
तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा
ददौ तस्मै परां मुक्तिं प्रीत्या जांबवते हरिः ३४
गृहीत्वा तनयां तस्य कन्यां जांबवतीं मुदा
विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम् ३५
सत्राजिते ददौ रत्नं स्यमंताख्यं यदूत्तमः
दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम् ३६
मासि भाद्रपदे शुक्ले चतुर्थ्यां चंद्रदर्शनम्
मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत् ३७
प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः
स्यमंतस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते ३८
सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम्
मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः ३९
स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः
एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ४०
अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः
रुक्मिणी सत्यभामा च कालिंदी च शुचिस्मिता ४१
मित्रविंदा जांबवती नाग्नजित्यः सुलक्ष्मणा
सुशीला नाम तन्वंगी महिषी चाष्टमी स्मृता ४२
भूमिपुत्रो महावीर्यो नरको नाम राक्षसः
जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे ४३
अदित्या देवमातुश्च कुंडले च सुवर्चसी
बलाज्जग्राह देवानां रत्नानि विविधानि च ४४
ऐरावतं महेंद्रस्य तथैवोच्चैःश्रवं हयम्
माणिक्यादि धनेशस्य शंखपद्मनिधिं तथा ४५
स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनंदनः
वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम् ४६
तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम्
उवास व्योमगो दिव्यो नगर्यां विमलेंबरे ४७
ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम्
भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम् ४८
कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम्
देवानामभयं दत्वा वैनतेयं व्यचिंतयत् ४९
तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः
प्रांजलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५० 6.249.50
तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः
संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ५१
प्रदीप्यमानमाकाशे यथा सूर्यस्य मंडलम्
राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम् ५२
ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि
तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ५३
चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः
ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः ५४
उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः
ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः ५५
केशवं ताडयामासुः पलालैरिव पावकम्
ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः ५६
दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः
तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ५७
चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः
केचिच्चक्रेण संछिन्नास्तथान्ये शरताडिताः ५८
गदया निहताः केचिद्राक्षसास्तद्रणाजिरे
एवं ते राक्षसाः सर्वे पातिता धरणीतले ५९
शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः
निहत्य दानवान्सर्वान्पुंडरीकायतेक्षणः ६०
पाञ्चजन्यं महाशंखं प्रदध्मौ पुरुषोत्तमः
ततः स नरको दैत्यो धनुरादाय वीर्यवान् ६१
दिव्यं स्यंदनमारुह्य ययौ युद्धाय केशवम्
तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ६२
बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः
ततोऽर्द्धचंद्र बाणेन वासुदेवः सनातनः ६३
तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान्
ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ६४
स तेन भिन्नहृदयः पपातोर्व्यां महासुरः
शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् ६५
उपगम्य ततः कृष्णः समीपं तस्य रक्षसः
भूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम्
स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम् ६६
न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च
अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ६७
मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर
ये नरा मंगलस्नानं कुर्वंति मधुसूदन
न तेषां निरयप्राप्तिर्भवत्वेवं भयापह ६८
महादेव उवाच-
एवमस्त्विति गोविंदो ददौ तस्मै वरं प्रभुः
ततः पश्यन्हरेः साक्षाच्छरदंबुज सन्निभौ ६९
चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ
अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा ७०
त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ७१
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः
प्रविश्य नगरं तस्य कृष्णः कमललोचनः ७२
बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम्
कुंडले देवमातुश्च तथैवोच्चैःश्रवो हयम् ७३
ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम्
सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ७४
पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली
कन्याषोडशसाहस्रं हृतवान्नरकस्तदा ७५
सन्निरुद्धास्तु ताः सर्वा नरकांतःपुरे तदा
दृष्ट्वा कृष्णं महावीर्यं कंदर्पशतसंनिभम् ७६
भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम्
एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान् ७७
तासां करग्रहं चक्रे विधिना पुरुषोत्तमः
नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ७८
गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिः
तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात् ७९
ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः
देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् ८०
वैनतेयं समारुह्य सत्यया सह केशवः
स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ८१
प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः
अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ८२
ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम्
संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ८३
निवेश्यासनमुख्ये तु पूजयामास भक्तितः
आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ८४
तत्र संपूजयामासुर्यथार्हं परमेश्वरम्
शचीगृहं समागम्य सत्यभामा यशस्विनी ८५
तया समर्चिता देव्या समासीना सुखासने
तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः ८६
शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः
प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा ८७
नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनि
अवमान्य शची तत्र सत्यभामां यशस्विनीम् ८८
अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम्
इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ८९
विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता
समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा ९०
सत्योवाच-
एषा शची यदुश्रेष्ठ पारिजातेन गर्विता
अदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि ९१
महादेव उवाच-
सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः
उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि ९२
आरुह्य सत्यया तूर्णं वैनतेयं महाबलम्
प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः ९३
ततः कोपसमाविष्टो देवराजः शतक्रतुः
रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः ९४
ऐरावतं समारुह्य ययौ युद्धाय केशवम्
ततो देवगणाः सर्वे परिवार्य्य जनार्दनम् ९५
ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम्
कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ९६
वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान्
पातयामास तान्देवान्पलालानीव मारुतः ९७
ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः
मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया ९८
जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया
ततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः ९९
प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम्
प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १०० 6.249.100
इंद्र उवाच-
देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा
दत्तो मम सुराणां च कथं स्थास्यति मानुषे १०१
महादेव उवाच-
ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम्
शच्यावमानिता सत्या तव गेहे सुरेश्वर १०२
अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा
स्वयमेव स्वशिरसि धारयामास ते प्रिया १०३
अस्या निमित्तं देवेंद्र पारिजातो हृतो मया
अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर १०४
तव गेहे पारिजातं स्थापयामीति वासव
तस्मादद्य न दातव्यः पारिजातः सुरेश्वर १०५
देवतानां हितार्थाय प्रापयिष्यामि भूतले
तावत्तिष्ठतु देवेंद्र पारिजातो ममालये १०६
मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया
महादेव उवाच-
एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम् १०७
एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत्
प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः १०८
कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः
संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह १०९
सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम्
रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः ११०
निशासु तासां सर्वासां गृहेषु मधुसूदनः
विश्वरूपधरः श्रीमानुवास स सुखप्रदः १११
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः २४९