पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४९

विकिस्रोतः तः
← अध्यायः २४८ पद्मपुराणम्
अध्यायः २४९
वेदव्यासः
अध्यायः २५० →

श्रीरुद्र उवाच-
सत्राजितस्य तनया नाम्ना सत्या यशस्विनी ।
पृथिव्यंशेन संभूता भार्यां कृष्णस्य वा परा १।
वैवस्वती महाभागा कालिंदी नाम नामतः ।
तृतीया तस्य भार्या सा लीलांशा समुपस्थिता २।
विंदानुविंदस्य सुतां मित्रविंदां शुचिस्मिताम् ।
स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ३।
पाशेनैकेन बद्ध्वा तान् वृषभान्सप्तदुर्मदान् ।
तां वीर्यशुल्कां जग्राह पद्मपत्रायतेक्षणः ४।
सत्राजितो महारत्नं स्यमंताख्यं महीपतिः ।
अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ५।
ययाचे तं मणिवरं कदाचिन्मधुसूदनः ।
उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ६।
प्रसेन उवाच-
भारानष्टसुवर्णानि नित्यं प्रसवते मणिः ।
तस्मात्कस्य न दातव्यं स्यमंताख्यमिदं मया ७।
महादेव उवाच-
कृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह ।
कदाचिन्मृगयां कर्त्तुं कृष्णः सर्वैर्यदूत्तमैः ८।
प्रविवेश महारण्यं प्रसेनाद्यैर्महाबलैः ।
प्रत्येकं वै मृगान्हंतुमनुयाताः सहस्रशः ९।
एक एव महारण्ये प्रसेनो दूरमागतः ।
तं सिंहो दृष्टमासाद्य हत्वा रत्नं जहार सः १०।
तं सिंहं जांबबान्हत्वा मणिं गृह्य महाबलः ।
प्रविवेश बिलं तूर्णं दिव्यस्त्रीभिर्निषेवितम् ११।
तस्मिन्नस्तंगते सूर्ये वासुदेवं सहानुगः ।
चतुर्थ्यामुदितं चंद्रं दृष्ट्वा स्वं पुरमाविशत् १२।
ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम् ।
हत्वा प्रसेनं गोविंदो मृगव्याजेन कानने १३।
स्यमंतकं मणिवरमग्रहीदविशंकया ।
तदाकर्ण्य हरिस्तस्मिन्द्वारकाजनभाषितम् १४।
अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ ।
दर्शयामास तान्सर्वान्सिंहेन निहतं वने १५।
लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम् ।
एकः शार्ङ्गगदापाणिर्जगाम गहनं वनम् १६।
दृष्ट्वा महाबिलं कृष्णः प्रविवेश विशंकितः ।
तत्र नाना मणिवरद्योतिते विमले गृहे १७।
सुतं जांबवतो धात्री दोलामारोप्य लीलया ।
दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा १८।
सिंहः प्रसेनमवधीत्सिंहो जांबवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमंतकः १९।
तच्छ्रुत्वा वासुदेवोऽथ शंखं दध्मौ प्रतापवान् ।
तेन नादेन महता निर्जगामात्र जांबवान् २०।
तयोर्युद्धमभूद्घोरं दशरात्रं निरंतरम् ।
मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् २१।
कृष्णस्य बलवृद्धिं च तथात्मबलसंक्षयम् ।
अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः २२।
सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः ।
स आगतो मम स्वामी दातुं मम मनोरथम् २३।
एवं ज्ञात्वाथ ऋक्षेशो निर्वर्त्य रणकर्म तत् ।
प्रांजलि प्राह गोविंदं को भवानिति विस्मयात् २४।
निवर्त्य कदनं शौरिः प्रोचे गंभीरया गिरा ।
श्रीकृष्ण उवाच-
पुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः २५।
ममरत्नं स्यमंताख्यं हृतवांस्त्वं सुनिर्भयः ।
तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि २६।
महादेव उवाच-
तच्छ्रुत्वा जांबवान्हृष्टः प्रणनामाथ दंडवत् ।
परिणीय नमस्कृत्य विनयात्प्राह केशवम् २७।
जांबवानुवाच-
धन्योस्मि कृतकृत्योस्मि तव संदर्शनात्प्रभो ।
दासोऽहं पूर्वभावेन तव देवकिनंदन २८।
दत्तवानसि गोविंद कदनं पूर्वकांक्षितम् ।
मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया ।
तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत २९।
महादेव उवाच-
इत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः ।
नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ३०।
शारदाब्जनिभौ पादौ प्रक्षाल्य शुभवारिणा ।
मधुपर्कविधानेन पूजयित्वा यदूद्वहम् ३१।
वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः ।
पुत्रीं जांबवतीं नाम कन्यां लावण्यसंयुताम् ३२।
कन्यारत्नं ददौ तस्मै भार्यार्थममितौजसे ।
अन्यैश्च मणिमुख्यैश्च स्यमंताख्यं ददौ मणिम् ३३।
तत्रैवोद्वाह्य तां कन्यां प्रहृष्टपरवीरहा ।
ददौ तस्मै परां मुक्तिं प्रीत्या जांबवते हरिः ३४।
गृहीत्वा तनयां तस्य कन्यां जांबवतीं मुदा ।
विनिर्गत्य बिलात्तस्मात्प्रययौ द्वारकां पुरीम् ३५।
सत्राजिते ददौ रत्नं स्यमंताख्यं यदूत्तमः ।
दुहित्रे प्रददौसोऽपि कन्यायै मणिमुत्तमम् ३६।
मासि भाद्रपदे शुक्ले चतुर्थ्यां चंद्रदर्शनम् ।
मिथ्याभिदूषणं प्राहुस्तस्मात्तत्परिवर्जयेत् ३७।
प्राप्यते दर्शनं तत्र चतुर्थ्यां शीतगोर्नरः ।
स्यमंतस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते ३८।
सुलक्ष्मणां नाग्नजितीं सुशीलां च यशस्विनीम् ।
मद्रराजसुतास्तिस्रः कन्यकास्ताः शुभाननाः ३९।
स्वयंवरस्थास्ताः कृष्णं वरयामासुरुज्ज्वलाः ।
एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ४०।
अष्टौ महिष्यस्ताः सर्वा रुक्मिण्याद्या महात्मनः ।
रुक्मिणी सत्यभामा च कालिंदी च शुचिस्मिता ४१।
मित्रविंदा जांबवती नाग्नजित्यः सुलक्ष्मणा ।
सुशीला नाम तन्वंगी महिषी चाष्टमी स्मृता ४२।
भूमिपुत्रो महावीर्यो नरको नाम राक्षसः ।
जित्वा देवपतिं शक्रं सर्वांश्चैव सुरान्रणे ४३।
अदित्या देवमातुश्च कुंडले च सुवर्चसी ।
बलाज्जग्राह देवानां रत्नानि विविधानि च ४४।
ऐरावतं महेंद्रस्य तथैवोच्चैःश्रवं हयम् ।
माणिक्यादि धनेशस्य शंखपद्मनिधिं तथा ४५।
स्त्रियश्चाप्सरसश्चैव हृतवान्क्षितिनंदनः ।
वज्रादिहेतीस्तेषां च बलाद्धृत्वा दिवौकसाम् ४६।
तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम् ।
उवास व्योमगो दिव्यो नगर्यां विमलेंबरे ४७।
ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम् ।
भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारिणम् ४८।
कृष्णोऽपि तदुपश्रुत्य सर्वं नरकचेष्टितम् ।
देवानामभयं दत्वा वैनतेयं व्यचिंतयत् ४९।
तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः ।
प्रांजलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः ५० 6.249.50।
तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः ।
संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ५१।
प्रदीप्यमानमाकाशे यथा सूर्यस्य मंडलम् ।
राक्षसैर्बहुभिर्युक्तं दिव्यैराभरणैर्युतम् ५२।
ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि ।
तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ५३।
चिच्छेद तेजसा दीप्त्या तमांसि च दिवाकरः ।
ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः ५४।
उद्यम्य शूलानि तदा युद्धायाभिमुखं ययुः ।
ततस्तु तोमरैर्दिव्यैर्भिण्डिपालैः सुपट्टिशैः ५५।
केशवं ताडयामासुः पलालैरिव पावकम् ।
ततस्तु शार्ङ्गमादाय भगवान्गरुडध्वजः ५६।
दिव्यशस्त्राणि चिच्छेद बाणैरग्निशिखोपमैः ।
तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ५७।
चक्रेणैव प्रचिच्छेद वीर्यवान्पुरुषोत्तमः ।
केचिच्चक्रेण संछिन्नास्तथान्ये शरताडिताः ५८।
गदया निहताः केचिद्राक्षसास्तद्रणाजिरे ।
एवं ते राक्षसाः सर्वे पातिता धरणीतले ५९।
शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः ।
निहत्य दानवान्सर्वान्पुंडरीकायतेक्षणः ६०।
पाञ्चजन्यं महाशंखं प्रदध्मौ पुरुषोत्तमः ।
ततः स नरको दैत्यो धनुरादाय वीर्यवान् ६१।
दिव्यं स्यंदनमारुह्य ययौ युद्धाय केशवम् ।
तयोर्युद्धमभूद्घोरं तुमुलं लोमहर्षणम् ६२।
बहुभिर्बाणसाहस्रैर्मेघयोरिव वर्षतोः ।
ततोऽर्द्धचंद्र बाणेन वासुदेवः सनातनः ६३।
तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान् ।
ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ६४।
स तेन भिन्नहृदयः पपातोर्व्यां महासुरः ।
शक्रवज्रेण निर्भिन्नो महाचल इवोन्नदन् ६५।
उपगम्य ततः कृष्णः समीपं तस्य रक्षसः ।
भूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम् ।
स चाह राक्षसः कृष्णं गरुडोपरि संस्थितम् ६६।
न मे कृत्यं वरेणास्ति नरकोऽहं तथापि च ।
अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ६७।
मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर ।
ये नरा मंगलस्नानं कुर्वंति मधुसूदन ।
न तेषां निरयप्राप्तिर्भवत्वेवं भयापह ६८।
महादेव उवाच-
एवमस्त्विति गोविंदो ददौ तस्मै वरं प्रभुः ।
ततः पश्यन्हरेः साक्षाच्छरदंबुज सन्निभौ ६९।
चरणौ वज्रवैडूर्य्यनूपुराभ्यां विराजितौ ।
अर्चितौ विधिरुद्राद्यैस्त्रिदशैर्मुनिभिस्तथा ७०।
त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ७१।
ववृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः ।
प्रविश्य नगरं तस्य कृष्णः कमललोचनः ७२।
बलात्तेन गृहीतानि रत्नानि त्रिदिवौकसाम् ।
कुंडले देवमातुश्च तथैवोच्चैःश्रवो हयम् ७३।
ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम् ।
सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ७४।
पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली ।
कन्याषोडशसाहस्रं हृतवान्नरकस्तदा ७५।
सन्निरुद्धास्तु ताः सर्वा नरकांतःपुरे तदा ।
दृष्ट्वा कृष्णं महावीर्यं कंदर्पशतसंनिभम् ७६।
भर्तारं वव्रिरे सर्वाः पतिं विश्वस्य सर्वगम् ।
एतस्मिन्नेव काले तु गोविंदोऽनंतरूपवान् ७७।
तासां करग्रहं चक्रे विधिना पुरुषोत्तमः ।
नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ७८।
गोविंदं शरणं जग्मुस्तानरक्षद्घृणानिधिः ।
तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्य गौरवात् ७९।
ऐन्द्रं विमानमारोप्य ताश्च सर्वा वरस्त्रियः ।
देवदूतैर्महाभागैर्द्वारवत्यां न्यवेशयत् ८०।
वैनतेयं समारुह्य सत्यया सह केशवः ।
स्वर्लोकं प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ८१।
प्रविश्य नगरीं तत्र देवराज्ञो जनार्दनः ।
अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः ८२।
ववंदे मातरं तत्र वंद्यां तां त्रिदिवौकसाम् ।
संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ८३।
निवेश्यासनमुख्ये तु पूजयामास भक्तितः ।
आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ८४।
तत्र संपूजयामासुर्यथार्हं परमेश्वरम् ।
शचीगृहं समागम्य सत्यभामा यशस्विनी ८५।
तया समर्चिता देव्या समासीना सुखासने ।
तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः ८६।
शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः ।
प्रगृह्य तानि पुष्पाणि शचीदेवी सुमध्यमा ८७।
नीलनिर्मलकेशे च बबंध स्वस्य मूर्धनि ।
अवमान्य शची तत्र सत्यभामां यशस्विनीम् ८८।
अनर्हा मानुषी चेयं देवार्हं कुसुमं शुभम् ।
इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ८९।
विनिष्क्रम्य पुरात्तस्मात्सत्या कोपसमन्विता ।
समेत्य कृष्णं भर्त्तारमुवाच कमलेक्षणा ९०।
सत्योवाच-
एषा शची यदुश्रेष्ठ पारिजातेन गर्विता ।
अदत्त्वा मम गोविंद बबंध स्वस्य मूर्द्धनि ९१।
महादेव उवाच-।
सत्यया भाषितं श्रुत्वा वासुदेवो महाबलः ।
उत्पाट्य पारिजातं तु निवेश्य गरुडोपरि ९२।
आरुह्य सत्यया तूर्णं वैनतेयं महाबलम् ।
प्रययौ द्वारकां रम्यां नगरीं देवकीसुतः ९३।
ततः कोपसमाविष्टो देवराजः शतक्रतुः ।
रुद्रैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः ९४।
ऐरावतं समारुह्य ययौ युद्धाय केशवम् ।
ततो देवगणाः सर्वे परिवार्य्य जनार्दनम् ९५।
ववृषुः शस्त्रवर्षाणि मेघा इव महाचलम् ।
कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ९६।
वैनतयस्तु संक्रुद्धः पक्षपातेन वीर्यवान् ।
पातयामास तान्देवान्पलालानीव मारुतः ९७।
ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः ।
मुमोच सहसा दीप्तं वज्रं कृष्णजिघांसया ९८।
जग्राह कृष्णस्तं वज्रं हस्तेनैकेन लीलया ।
ततो भीतः सहस्राक्षो नागेंद्रादवरुह्य सः ९९।
प्रांजलिः पुरतः स्थित्वा नमस्कृत्वा जनार्दनम् ।
प्राह गद्गदया वाचा स्तुत्वा स्तुतिभिरेव च १०० 6.249.100।
इंद्र उवाच-
देवयोग्यमिदं कृष्ण पारिजातं त्वया पुरा ।
दत्तो मम सुराणां च कथं स्थास्यति मानुषे १०१।
महादेव उवाच-
ततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम् ।
शच्यावमानिता सत्या तव गेहे सुरेश्वर १०२।
अदत्त्वा पारिजातानि सत्यायै सा पुलोमजा ।
स्वयमेव स्वशिरसि धारयामास ते प्रिया १०३।
अस्या निमित्तं देवेंद्र पारिजातो हृतो मया ।
अस्यै प्रतिश्रुतं दातुं मया सुरगणेश्वर १०४।
तव गेहे पारिजातं स्थापयामीति वासव ।
तस्मादद्य न दातव्यः पारिजातः सुरेश्वर १०५।
देवतानां हितार्थाय प्रापयिष्यामि भूतले ।
तावत्तिष्ठतु देवेंद्र पारिजातो ममालये १०६।
मयि स्वर्गं गते शक्र गृहाण त्वं यथेच्छया ।
महादेव उवाच-
एवमुक्त्वा यदुश्रेष्ठस्तस्मै वज्रं ददौ स्वयम् १०७।
एवमस्त्विति गोविंदं नमस्कृत्य स वज्रभृत् ।
प्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः १०८।
कृष्णोऽपि सत्यया देव्या गरुडोपरि संस्थितः ।
संस्तूयमानो मुनिभिर्द्वारवत्यां विवेश ह १०९।
सत्यया निकटे स्थाप्य पारिजातं सुरद्रुमम् ।
रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः ११०।
निशासु तासां सर्वासां गृहेषु मधुसूदनः ।
विश्वरूपधरः श्रीमानुवास स सुखप्रदः १११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे ।
उमामहेश्वरसंवादे श्रीकृष्णचरिते श्रीवासुदेवविवाहकथनं नामैकोनपंचाशदधिकद्विशततमोऽध्यायः २४९ ।