पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २०७ पद्मपुराणम्
अध्यायः २०८
वेदव्यासः
अध्यायः २०९ →

नारद उवाच-
विमलस्तं द्विजं नीत्वा द्वारकायामिहागतः ।
पुनस्तौ सस्नतुं धीरौ श्रीपतेर्भक्तिकाम्यया ।
भूयः खे मेघगंभीरा वागासीदिति भूपते १।
आकाशवागुवाच-
शृणुतं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभम् ।
एतत्तीर्थ प्रसादाद्वां विष्णुभक्तिर्भविष्यति ।
यया जहाति लोकोऽयमविद्या मोहमुल्बणम् २।
नारद उवाच-
निशम्येतिद्विजश्रेष्ठौ तां वाचमशरीरिणीम् ।
प्रसादोऽयं हरेरासीदित्यूचाते परस्पराम् ३।
स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः पराम् ।
चेलतुः प्रणिपत्येदं भाषमाणौ मिथस्तदा ४।
द्विजावूचतुः ।
यथावयोर्हि संयोगः पथिजातो विचारतः ।
यथा गृहकलत्रादि संयोगो भुवि जायते ।
सांप्रतं विरहोभावी यथा नौ मार्गवर्तिनौ ५।
तथादारसुतादीनां कालव्यास्यवर्तिनाम् ।
धन्यः स पुरुषो लोके यो दारसुतसंगमम् ६।
विज्ञाय क्षणिकं नित्यं संश्रयेत्श्रीपतिं भजेत् ।
नारद उवाच-
स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः ७।
संदेशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ ।
शृणु राजन्यथा तेन मित्रेण विमलस्य तु ८।
मोक्षणं राक्षसीनां तु विहितं पथिगच्छता ।
व्रजन्स ब्राह्मणः प्राप्तस्तं देशं जलवर्जितम् ९।
यत्र ताः पापविप्लुष्टा राक्षस्यः क्षुत्तृषाकुलाः ।
अथ ताः पथिगच्छंतं दूराद्दृष्ट्वा द्विजोत्तमम् १०।
सजलामत्रहस्तं तं मिथस्त्विति बभाषिरे ।
राक्षस्य ऊचुः -
आयाति पथिकः कश्चिज्जलपात्रं करे दधत् ११।
अस्माकं क्षुत्तृषोः शांतिर्मनागपि भविष्यति ।
एनं संभक्षयिष्यामः पास्यामोऽस्य करे स्थितम् १२।
पात्रं जलं वयं तृष्णा क्षुधार्ताः शतवर्षतः ।
नारद उवाच-
काचिदाहेत्यहं पूर्वमस्योष्णं कालखंडकम् १३।
भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् ।
अन्या प्राह कियद्द्रव्यं विद्यतेऽस्य गजानने १४।
मम व्याघ्राननायास्तु पानायापि न दृश्यते ।
अन्या वै रथचक्राख्या श्रूयतां वचनं मम १५।
करिष्ये कुंडलमहं केनांत्रैरस्य मेखलाम् ।
अन्यावददहं दंतैरेकतः श्यामलीकृतैः १६।
रमे षोडशभिर्द्यूतशालायां तद्विशारदः ।
इत्युक्त्वा ताः मिथः सर्वास्तंद्विजं प्रति दुद्रुवुः १७।
विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः ।
आयांतीस्ताः समालोक्य ब्राह्मणो भयविह्वलः १८।
आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप ।
ता आगत्य स्थिता दूरं राक्षस्यो भीमविक्रमाः १९।
तेजसा तस्य मंत्रैश्च प्रत्यादिष्टा नराधिपः ।
ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद २०।
त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति ।
त्वत्पादस्पर्शनात्किं नो न विप्र भविता फलम् ।
अतो मूर्द्धसु नो देहि स्वकीयं पादपंकजम् २१।
नारद उवाच-
इत्याकर्ण्य वचस्तासां जगाद हरिदत्तजः ।
द्विज उवाच-
कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः २२।
सांप्रतं पुष्करं यामि भवतीभिः किमिच्छते ।
यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा २३।
राक्षस्य ऊचुः ।
येषु तीर्थेषु विप्रेंद्र त्वया स्नातं वदस्व नः ।
तानि सर्वाणि पुण्यानि मोचयातः कुजन्मनः ।
अस्मानतितरां तृष्णा क्षुद्भ्यां दारुणदुःखदात् २४।
ब्राह्मण उवाच-
अवंतीमाश्रमात्पूर्वमहं हरिपुरीमितः ।
गतोऽहं द्वारकां तस्मात्स्नात्वा सोमोद्भवा जले २५।
ततः प्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगम् ।
तस्मात्सेतुनिबंधेऽहं स्नातः परमपावने २६।
तस्मादहं महापुण्यां किष्किंधां समुपागतः ।
हतो यत्र तु रामेण वाली कपिगणेश्वरः २७।
तस्मान्मठं सरस्वत्यानर्मदातीरसंस्थितम् ।
समागतोऽहं यत्रास्ति भारती सर्वसेविता २८।
ततोऽहंमावेशंवेणींतांनत्वादक्षिणापथे ।
शिवकांची विष्णुकांच्यौ दृष्टे तत्र मया पुरौ २९।
ययोर्मरणतो जंतुः शिवो विष्णुश्च जायते ।
ततोऽहंमुत्कलं प्राप्तो यत्रास्ति हरिरीश्वरः ३०।
चतुर्वर्गप्रदः साक्षाद्भक्तानामपि कांक्षितम् ।
तमर्चयित्वा विधिवद्भक्षयित्वा निवेदितम् ३१।
प्रसादभूतं तस्यैव गंगासागरसंगमम् ।
तत्र देवानृषीन्पितॄंस्तर्पयित्वा यथाविधि ३२।
यत्र गंगाशतमुखी जाता तत्राहमागमम् ।
ततो गयामुपागत्य पिंडान्दत्त्वा यथाविधि ३३।
पितृभ्यस्तुलसीपुष्पचंदनोदकपूजितान् ।
कोशलां शरयूं वारिकर्णधारनभस्वता ३४।
पवित्रिताखिलजनांस्पर्शनेनाहमागमम् ।
तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदशदुर्ल्लभम् ३५।
तत्र स्नानादिकं कर्म निशाचर्यः कृतं मया ।
ततः काशीमहंप्राप्तो राजधानीमुमापतेः ३६।
नत्वा विश्वेश्वरं देवं बिंदुमाधवमेव च ।
स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः ३७।
त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम् ।
पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः ३८।
एकस्मिन्माघमासे तु स्नानं कृत्वाऽरुणोदये ।
पुनस्तस्मात्समायातो नैमिषं गोमतीतटे ३९।
यत्र तीर्थानि सर्वाणि वसंति च स्वमायया ।
ततोऽहं मथुरां प्राप्तो यत्र विश्रांतिसंज्ञकम् ४०।
तीर्थं तत्सन्निधौ पुण्यमसिकुंडाख्यमुत्तमम् ।
कृष्णगंगा ध्रुवाक्रूर केशिकालीयतीर्थभृत् ४१।
यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी ।
उभयोः कूलयोस्तस्या वनानि द्वादश श्रिया ४२।
राजमानानि खेचर्यः समस्तार्थकराणि च ।
संति तेषु नरः स्नात्वा पीत्वा भूयो न जायते ४३।
ततोहमागमं पुण्यं हस्तिनापुरमुत्तमम् ।
यत्र श्रीपतिपादाब्ज जाता गंगा सरिद्वरा ४४।
ततो नारायणस्थानं हिमवद्भूमिसंस्थितम् ।
आगत्य माधवं दृष्ट्वा केदारमहमागमम् ४५।
तत्र संपूज्य विश्वेशं पीत्वा हंसोदकं पुनः ।
हरिद्वारं महापुण्यमागमं जाह्नवीतटे ४६।
तत्र स्नात्वापितॄन्देवानृषीन्संतर्प्य चाप्यहम् ।
समागतः कुरुक्षेत्रे यत्र प्राची सरस्वती ४७।
तत्राप्यहं क्रियाः सर्वाः कृतवान्नियतेंद्रियः ।
अर्चयित्वा च पादाब्जं श्रीपतेः पुष्करं प्रति ४८।
चलितो मार्गमध्ये तु विमलो नाम मे सखा ।
मिलितो मां व्रजन्गेहमिंद्रप्रस्थात्तु तीर्थतः ४९।
नीतोऽहं तेन राक्षस्यः पुनस्तत्र द्विजन्मना ।
तीर्थेति मे परावृत्य शक्रप्रस्थेऽखिलार्थदे ५०।
तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयम् ।
तत्रावलोकितः साक्षाद्विष्णुर्वाक्यान्नरूपतः ५१।
तत्राहं स च संस्नातौ विष्णुभक्तिप्रलब्धये ।
दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना ५२।
श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितम् ।
भक्तिर्लब्धा ततः स्थानाद्यमहं पुष्करं प्रति ५३।
तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलम् ।
कमंडलुगतं पुण्यं निशाचर्यो वदाम्यहम् ५४।
भवतीभिरहं पृष्टो यत्तदाख्यातमेव मे ।
दृष्ट्वा वो दुर्दशामेतां कृपा मे जायते हृदि ५५।
उच्यतां किं करोम्यद्य भवतीनां वशो ह्यहम् ।
ज्ञानं भवतु युष्माकमिति ताः सिषिचेंभसा ५६।
तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां ।
संस्मृत्य तत्यजुश्चैव राक्षसं देहमुल्बणम् ५७।
आसाद्य देवतादेहं विमानं सप्तमागतम् ।
आरुह्याप्सरसो भूत्वा ताः प्रणेमुर्द्विजन्मने ५८।
ऊचुश्च भो द्विजश्रेष्ठ द्वारकाजलसंगमात् ।
राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् ५९।
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका द्विज ।
नातः परतरं लोकेऽन्यत्तीर्थमखिलार्थदम् ६०।
नारद उवाच-
इत्युक्त्वा ताःसमारूढा विमानेषु महीपते ।
जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना ६१।
यमुनातीरवर्तिन्या द्वारकाया महीपते ।
शृण्वन्माहात्म्यमेतस्या नरः पापैः प्रमुच्यते ६२।
वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनात् ।
यत्फलं श्रवणादस्मान्महिम्नस्तत्प्रजायते ६३।
गोविंदाराधने सम्यग्यथा वै सौख्यमिंद्रियम् ।
माहात्म्यश्रवणादस्या द्वारकायास्तथा नृप ६४।
सूर्येंदुग्रहणे दानात्सुवर्णपलविंशतेः ।
यत्फलं शृण्वतैतस्या माहात्म्यं तदवाप्यते ६५।
विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते ।
तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा ६६।
राक्षसीनां विमोक्षं यः शृणोति श्रद्धयान्वितः ।
स याति ता इव श्रेष्ठं विमानेन सुरालयम् ६७।
नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः ।
किमपरमतिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयः श्रेयसि स्वे विलंबः ६८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिन्दी।
माहात्म्ये द्वारकायाख्यानंनाम अष्टाधिकद्विशततमोऽध्यायः २०८।